यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडष्टकम्, क्ली, योगविशेषः । स तु वरकन्ययोः स्वस्वराश्यपेक्षया परस्परषष्ठाष्टमराशिसम्बन्धः स च मित्रारिभेदेन द्विविधः । तत्र मित्रषड- ष्टकं यथा । श्रीपतिरत्नमालायाम् । “मकरसमेतं मिथुनं कन्याकलसौ मृगेन्द्र- मीनौ च । वृषभतुले अलिमेषौ कर्क्कष्टधनुषी च मित्र- विधौ ॥” षडष्टकाविति शेषः ॥ * ॥ अरिषडष्टकमाह । “मकरः करिकुलरिपुना कन्या मेषेण मह झषस्तुलया । कर्किघटौ वृषधनुषी वृश्चिकमिथुने चारिविधौ ॥ यदि कन्याष्टमे भर्त्ता भर्त्तुः षष्ठे च कन्यका । षडष्टकं विजानीयात् वर्ज्जितं त्रिद्रशैरपि ॥” * षडष्टकादौ तारानियममाह । भीमपराक्रमः । “सीहृद्ये ह्युभयोर्द्वयोरपि तयोरैकाधिपत्येऽपिवा ताराषट् च सुमित्रमित्रजननक्षेमार्थसम्पद्यदि षट्काष्टे नव पञ्चके व्यथधने योगे च युंयोषितोः प्रीत्थायुःसुखवृद्धिपुष्टिजनकः कार्य्यो विवाह- स्तदा ॥” गर्गः । “मरणं तारविरोधे ग्रहरिपुभाबे चिरेण । रोगादि नरनार्व्योः षट्काष्टे वैरं भवेदाशु ॥” व्यासः । “मैत्रादियोगेऽपि षडष्टकादौ तारा विपत्प्रत्यरिनैधनाख्याः । वर्ज्या विवाहे पुरुषोडुतो हि प्रीतिः परा जन्मसु तारकासु ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ मतान्तरं यथा, -- “सिंहेन मकरः श्रेष्ठो कन्यया मेष उत्तमः । तुलया सह मीनस्तु कुम्भेन सह कर्क्कटः ॥ धनुषा वृषभः श्रेष्ठो मिथुनेन च वृश्चिकः । एतत् षडष्टकं प्रीत्यै भवत्यव न संशयः ॥” इति गारुडे ६१ अध्याथः ॥

"https://sa.wiktionary.org/w/index.php?title=षडष्टकम्&oldid=173026" इत्यस्माद् प्रतिप्राप्तम्