यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडूषणम्, क्ली, (षण्णामूषणानां समाहारः ।) मिश्रितषट्कटुद्रव्यम् । यथा -- “पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितम् । त्रिकटु त्र्युषणं व्योषं कटुत्रिकमथोच्यते । ग्रन्थिकानलचव्यैस्तु चतुः पञ्च षडूषणम् ॥” इति शब्दचन्द्रिका ॥ अपि च । “पञ्चकोलं समरिचं षडूषणमुदाहृतम् । पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=षडूषणम्&oldid=173032" इत्यस्माद् प्रतिप्राप्तम्