यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपादम्, क्ली, (हंसस्य पाद इव वर्णो यस्य ।) हिङ्गुलम् । इति हलायुधः ॥ पुं, यथा, -- हिङ्गुलन्दरदं म्लेच्छमिङ्गुलञ्चूर्णपारदम् । दरदस्त्रिविधः प्रोक्तश्चर्म्मारः शुकतुण्डकः ॥ हंसपादस्तृतीयः स्यात् गुणवानुत्तरोत्तरम् । चर्म्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः । जवाकुसुमसङ्काशो हंसपादो महोत्तमः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) हंसचरणे च पुं ॥

"https://sa.wiktionary.org/w/index.php?title=हंसपादम्&oldid=180508" इत्यस्माद् प्रतिप्राप्तम्