यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हय, क्लमे । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-क्लमे अक०-गतौ सक०-सेट् ।) हयति । क्लमो ग्लानिः । इति दुर्गादासः ॥

हयः, पुं, (हयति गच्छतीति । हय + अच् । हिनोतीति । हि + अच् वा ।) घोटकः । इत्यमरः । २ । ८ । ४४ ॥ अथ हयायुर्व्वेदः । धन्वन्तरिरुवाच । “हयायुर्व्वेदमाख्यास्ये हयैः सर्व्वार्थरक्षणम् । काकुटी कृष्णजिह्वश्च कृष्णाख्यः कृष्णतालुकः ॥ कराली हीनदन्तश्च शृङ्गी चाधिकदन्तकः । एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी ॥ मार्जारपादो व्याघ्राभः कुष्ठविद्रुधिसन्निभः । यमजो वामनश्चैव मार्जारकपिलोचनः ॥ एतद्दोषी हयस्त्याज्य उत्तमोऽश्वश्चतुष्करः । एते दोषाश्च कथिता हयहस्त्यादिषूत्तमाः ॥ मध्योऽर्द्धहस्तहीनोऽश्वो मुष्टिहस्तविहीनकः । कनीयांश्चार्द्धमानः स्यादर्द्धसप्तस्तु दीर्घतः ॥ षण्मुष्टिहीनः पञ्चोन उत्तमाद्यास्तु दीर्घतः । असंहता ये च वाहा ह्रस्वकर्णास्तथैव च ॥ स्वरनेत्रप्रभावेषु न दीनाश्चिरजीविनः । रेवन्तपूजनाद्धोमाद्रक्षा स्यात् द्विजभोजनात् ॥ लोहकं निम्बपत्राणि गुग्गुलुसर्षपा घृतम् । तिलञ्चैव वचा हिङ्गु वघ्नीयाद्वाजिनां गले ॥ आगन्तुकं दोषजन्तु व्रणं द्विविधमीरितम् । चिरपाकं खरं वातात् पित्तजं क्षिप्रपाकिकम् ॥ कण्डुदाहात्मकं पित्तात् सोन्मादं मन्दवेदनम् । घनं कफात् सन्निपातात् सर्व्वरूपं द्विदोषजम् ॥ आगन्तुकन्तु शस्त्राद्यैर्दुष्टव्रणविशोधनम् । दन्तीमूलं हरिद्रे द्धे चित्रकं विश्वभेषजम् ॥ रसोनं सैन्धवं वापि तक्रकाञ्जिकपेषितम् । तिलशक्तुकपिण्डोका दधियुक्ता ससैन्धवा ॥ निम्बपत्रयुतं पिण्डं तिलैः शोधनरोपणम् । करबीरकदल्यर्कस्नुहीकुटजचित्रकैः ॥ भल्लातस्य पचेत्तैलं नाडीव्रणहरं परम् । पङ्कवल्कलकल्केन घृतेन च प्रलेपयेत् ॥ द्वे हरिद्रे विडङ्गानि तथा लवणपञ्चकम् । पटोलं निम्बपत्रञ्च वचा चित्रक्रमेव च ॥ पिप्पली शृङ्गवेरञ्च चूर्णमेकत्र कारयेत् । एतत्पानं कृमिश्लेष्ममदानिलविनाशनम् ॥ निम्बपत्रं पटोलञ्च त्रिफला खदिरं तथा । क्वाथयित्वा ततो वाहं शृतरक्तं विचक्षणः । त्र्यहमेव प्रदातव्यं पानं कुष्ठोपशान्तये ॥ व्रसणेषु च कुष्ठेषु तैलं सर्षपजं हितम् । पञ्चवल्कलतैलं वा दशमूलञ्च शोपनुत् ॥ लशुनादीन् वदे कल्पान् मुक्तिपानान्तलेपतः । मातुलुङ्गरसोपेतं मांसलारसकेन वा ॥” मांसलास्याने मांसानामिति च पाठः । आयुर्व्वेदो गजाश्वानामुक्तः संक्षेपसारतः ॥” इति गारुडे हयायुर्व्वेदः २०७ अध्यायः ॥ युक्तिकल्पतरूक्तहयपरीक्षा घोटकशब्दे द्रष्ट- व्या ॥ * ॥ हये वर्णनीयानि यथा । वेगः १ औन्नत्यम् २ तेजः ३ सल्लक्षणस्थितिः ४ खुरोत्- खातरजः ५ रूपम् ६ जातिः ७ गतिविचि- त्रता ८ । इति कविकल्पलता ॥ * ॥ अथ हयशकुनः । “हेषारवं मुञ्चति वामतो यः क्षुण्णक्षितिर्दक्षिणपादघातैः । कण्डूयते दक्षिणमङ्गभाग तुङ्गं तुरङ्गः स पदं ददाति ॥” इति वसन्तराजे हयशकुनः १३ वर्गः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हय पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

2।8।44।1।5

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

 : विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हय¦ गतौ सक॰ क्लान्तो अक॰ भ्वा॰ प॰ सेट। हयतिअहयीत्।

हय¦ पुंस्त्री॰ हय--हि--वा अच्।

१ थोटके अमरः स्त्रियांयोपधत्वेऽपि हयगवयेत्यादिना ङीष्। अश्वशब्देदृश्यम्। तत्र वर्ण्यपदार्थाः कविस॰ उक्ता यथा
“औ-नन्यं वेगस्तेजश्च तथा सल्लक्षणस्थितिः। खुरोत्खातरजो[Page5416-b+ 38] रूपं जातिर्गतिविचित्रता”। तस्य शकुनाद्युक्तं वसन्त-राजशाकुने यथा
“हेषारवं मुञ्चति वामतायः क्षणक्ष-तिर्दक्षिर्णपादघातै। कण्डूयते दक्षिणमङ्गभागं तुङ्गंतुरङ्गः स पद ददाति”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हय¦ m. (-यः)
1. A horse.
2. A man of a particular class.
3. The number “seven.”
4. INDRA'S horse.
5. The Yak.
6. (In prosody,) A foot of four short syllables, a proceleusmaticus. f. (-यी) A mare. f. (-या) A plant: see अश्वगन्धा | E. हय् to go, or हि to go, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयः [hayḥ], [हय्-हि-वा अच्]

A horse; ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ Bg.1.14; Ms.8.296; R.9.1

A man of a particular class; see under अश्व.

The number 'seven'.

N. of Indra.

(In prosody) A foot of four short syllables.

The zodiacal sign Sagittarius.

The Yak (Bos Grunniens). -Comp. -अङ्गः Sagittarius (धनुराशि). -अध्यक्षः a superintendent of horses. -अरिः the fragrant oleander. -आनन्दः green grain of Phaselous Mungo (Mar. हिरवे मूग). -आयुर्वेदः veterinary science. -आरूढः a horseman, rider.

आरोहः a rider.

riding (also आरोहम् in this sense). -आलयः a horse-stable. -आसनी the gum-olibanum tree. -इष्टः barley -उत्तमः an excellent horse. -कर्मन् n. knowledge of horses. -कातरा, -कातरिका N. of a plant; (Mar. घोडे काथर). -कोविद a. versed in the science of horses-their management, training &c. -गन्धः N. of a plant (Mar. आसंध).

ग्रीव N. of a form of Viṣṇu.

N. of a demon; ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् Bhāg.8.24.9. (-वा) N. of Durgā. -च्छटा a troop of horses. -ज्ञः a horse-dealer, groom, jockey. -द्विषत् m. the buffalo.-पः, -पतिः a groom. -पुच्छिका, -पुच्छी Glycine Debilis (Mar. रानउडीद). -प्रियः barley. -प्रिया the Kharjuri tree. -मारः, -मारकः the fragrant oleander. -मारणः the sacred fig-tree. -मुखः N. of a form of Viṣṇu; Mb. 1.23.16. -मेधः a horse sacrifice; सर्वान् कामानवाप्नोति हय- मेधफलं तथा Y.1.181.

वाहनः an epithet of Kubera.

Revanta, the son of the sun. -शाला a stable for horses. -शास्त्रम् the art or science of training and managing horses. -शिक्षा hippology. -संग्रहणम्, -संयानम् the restraining or curbing of horses; driving horses; पश्य मे हयसंयाने शिक्षां केशवनन्दन Mb.3.19.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हय m. ( ifc. f( आ). ; fr. 1. हि)a horse RV. etc.

हय m. a symbolical expression for the number " seven " (on account of the 7 horses of the Sun) S3rutab.

हय m. the zodiacal sign Sagittarius VarBr2S.

हय m. (in prosody) a foot of four short syllables , proceleusmaticus Col.

हय m. a man of a partic. class L.

हय m. the Yak or Bos Grunniens L.

हय m. N. of इन्द्रL.

हय m. of one of the horses of the Moon L.

हय m. of a son of सहस्र-दHariv.

हय m. of a son of शता-जित्VP.

हय m. pl. the family of हयMBh.

हय f( आor ई) a female horse , mare Hariv. Katha1s.

हय f( आor ई) Physalis Flexuosa L.

हय mfn. urging on , driving(See. अश्व-हय).

हय etc. See. p.1288 , cols. 2 , 3.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the ten horses of the moon's chariot. Br. II. २३. ५६; M. १२६. ५२; वा. ५२. ५३.
(II)--a साध्य. Br. III. 3. १७; वा. ६६. १६.
(III)--one of the three sons of शतजित् (शतजि- म्। प्।). Br. III. ६९. 4; M. ४३. 8; वा. ९४. 4.
(IV)--killed by कृष्ण. वा. ९८. १००.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haya denotes ‘horse’ in the Rigveda[१] and later.[२]

  1. v. 46, 1;
    vii. 74, 4;
    ix. 107, 25.
  2. Vājasaneyi Saṃhitā, vii. 47;
    xxii. 19, etc.

    Cf. Zimmer, Altindisches Leben, 231.
"https://sa.wiktionary.org/w/index.php?title=हय&oldid=506163" इत्यस्माद् प्रतिप्राप्तम्