यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुकम्, क्ली, (अंशून् कायति । कै शब्दे । आतैति कः । यद्वा अंशुभिः काशते । काश दीप्तौ । अन्येष्वपीति डः ।) वस्त्रमात्रं ॥ सूक्ष्मवस्त्रं ॥ उत्त- रीयवस्त्रं ॥ इति मेदिनी ॥ शुक्लवस्त्रं ॥ इत्यमर- टीकायां रमानाथः ॥ (अधोवस्त्रं ।) अत्रं । तेजपात इति भाषा । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुक नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

2।6।115।2।6

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ। वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्.।

अवयव : वस्त्रयोनिः,तन्तवः

वृत्तिवान् : कञ्चुक्यादेर्निर्माता,रजकः

 : क्षौमवस्त्रम्, कार्पासवस्त्रम्, कृमिकोशोत्थवस्त्रम्, मृगरोमजवस्त्रम्, छेदभोगक्षालनरहितवस्त्रम्, धौतवस्त्रयुगम्, धौतकौशेयम्, बहुमूल्यवस्त्रम्, पट्टवस्त्रम्, आच्छादितवस्त्रम्, जीर्णवस्त्रम्, शोभनवस्त्रम्, स्थूलपटः, स्त्रीपिधानपटः, कम्बलः, परिधानम्, उपरिवस्त्रम्, स्त्रीणां_कञ्चुलिशाख्यम्, प्रावरणः, अर्धोरुपिधायकवस्त्रम्, पादाग्रपर्यन्तलम्बमानवस्त्रम्, वितानम्, जवनिका, मृगरोमोत्थपटः, प्रावारः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुक¦ न॰ अंशवः सूत्राणि विषयोऽस्य अंशु + ऋश्यादि॰क। वस्त्रे।
“यत्रांशुकाक्षेपविलज्जितानामिति” कुमारः। सूक्ष्मवस्त्रे उत्तरीयवस्त्रे पत्रे (तेज पात) शुक्ल-वस्त्रे च। अंशु + स्वार्थे कन्। अंशुशब्दार्थे पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुक¦ n. (-कं)
1. Fine cloth, muslin.
2. A mantle, a wrapper, a robe, a linen garment worn round the upper part of the body.
3. Cloth in general. 4 White cloth,
5. A leaf. E. अंश and कन् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुकम् [aṃśukam], [अंशवः सूत्राणि बिषयो यस्य; अंशु ऋश्यादि˚ क]

A cloth, garment in general; सितांशुका मङ्गलमात्रभूषणा V.3.12; यत्रांशुकाक्षेपविलज्जितानां Ku.1.14; चीनांशुकमिव केतोः Ś.1.33; स्तन˚ a breast-cloth.

A fine or white cloth; धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातैः Me.64; usually silken or muslin.

An upper garment; a mantle.

An under garment; कररुद्धनीविगलदंशुकाः स्त्रियः Śi.13.31.

A leaf.

Mild or gentle blaze of light (नातिदीप्ति) (कः also; स्वार्थे कन्.)

The string of a churning stick. cf अंशुकं नेत्रवस्त्रयोः । cf. also अंशुकं सूक्ष्मवस्त्रे स्यात् परिधानोत्तरीययोः । किरणानां समूहे च मुखवस्त्रे तदिष्यते ॥ Nm.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुक n. cloth

अंशुक n. fine or white cloth , muslin [see चीना-ंशुक] L.

अंशुक n. garment , upper garment

अंशुक n. tie (for binding a churning-stick).

"https://sa.wiktionary.org/w/index.php?title=अंशुक&oldid=483611" इत्यस्माद् प्रतिप्राप्तम्