अकल्यः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अकल्यः, त्रि, (न कल्यः सुस्थः । नञ्समासः ।) रोगी ॥ (यथा, -- “अकल्यबालस्थविरविषमस्थक्रियाकुलान् । {एल्३} {एल्३} {एल्३} नाह्वाययेन्नृपः” ॥ इति मिताक्षराधृतवचनम् ॥ असमर्थः । यथा, -- “अकल्यः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे” । इति भागवते ।) कल्यो निरामयः तत्र नञ्- समासः ॥