यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालः, पुं, (न कालः, अप्रशस्तः कालो वा । नञ्समासः ।) असमयः । अप्रशस्तकालः । यथायोग्यकालातिरिक्तसमयः । अशुद्धकालः । यथा, -- गुरोरस्तात् प्राक् वृद्धत्वे पञ्चदशाहः । तस्यास्ते द्वात्रिंशद्दिनं । तस्योदयात् परं बा- लत्वे पञ्चदशाहः । गुर्व्वादित्ययोगे स्थितिकालः दशत्रिंशद्दिनादिः । सिंहे गुरोः स्थितिकालः सम्बत्सरस्थूलः । अस्य विशेषः यदि माघपौर्णमास्यां मघानक्षत्रं प्राप्यते तदैवं भाव्यं । वक्रिगुरौ अष्टाविंशति- दिनं । पूर्ब्बराशावनागतातिचारिगुरौ एकवर्षः । अयमेव लुप्तसम्बत्सरः । पूर्ब्बराशिगन्त्रतिचा- रिगुरौ पञ्चचत्वारिंशत् दिनं । नीचस्थगुरोः स्थितिकालः संवत्सरस्थूलः । राहुयुक्तगुरोः स्थितिसमयः एकाब्दः स्थूलः । भृगोर्महास्तात् प्राक् वृद्धत्वे पञ्चदशाहः । तस्य महास्ते द्विसप्ततिदिनं । तस्योदयात् परं बालत्वे दशाहः । एतत्त्रयं शीघ्रास्तमुच्यते ॥ भृगोः पादास्तात् प्राक् वृद्धत्वे दशाहः । तस्य पादास्ते द्वादशाहः । तस्योदयात् परं बालत्वे दिनत्रयं । एतत्त्रयं वक्रास्तमुदितं । मलमासे मासमेकं ॥ भानु- लङ्घितमासे क्षयमासे च तदेव ॥ भूक्म्पाद्य- द्भते सप्ताहः ॥ पौषादिचतुर्मासे एकदिन- चरणाङ्कितवर्षणे तद्दिनं । दिनद्वयचरणाङ्कित- वर्षणे दिनत्रयं । दिनत्रयचरणाङ्कितवर्षणे सप्ताहः ॥ दक्षिणायने षण्मासाः ॥ श्रीहरि- शयने चतुर्मासः ॥ चन्द्रसूर्य्यग्रहणे कर्म्मविशेषे एकत्रिसप्तदिनानि ॥ इति ज्योतिषतत्त्वं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाल¦ पु॰ अप्राशस्त्ये न॰ त॰। अप्रशस्तकाले विहितकर्म्मसुपर्य्युदस्तयाऽभिहिते गुरुशुक्राद्यस्तकालादौ, स च मलमास,गुरुशुक्रबाल्यवृद्धत्वास्तमय, सिंहमकरान्यतरगुरुस्थिति, पूर्ब्ब-राश्यनागतातिचारिगुरुकवत्सर, पूर्ब्बराशिसंक्रमिष्यमाणातिचारिगुरुकपक्षत्रय, वक्रगुरुकाष्टाविंशतिदिवस, भूमिकम्पा-द्यद्भुतसप्ताह, सिंहादित्य, गुर्वादित्य, पौषमासचतुष्टयान्य-[Page0040-a+ 38] तमैकद्वित्रितदधिकान्यतमदिनवृत्त्याकालिकवृष्ट्युत्तरैकत्रिसप्ता-हान्यतमदिनादि, रूपो मलमासतत्त्वाद्युक्तः तत्तद्विहित-कर्म्मसु पर्य्युदस्ततयाऽभिहितः कालः एतत्प्रमाणानि सप्रतिप्रसवं मलमासतत्त्वमुहूर्त्तचिन्तामण्यादौ द्रष्टव्यानि
“अकालेवीक्षितो विष्णुर्हन्ति पुण्यं पुराकृतमिति” पु॰। अप्राप्तःअनुचितः कालः शा॰ त॰। अप्राप्तकाले
“नाकाले म्रियतेकश्चित् प्राप्ते काले न जीवतीति” पुराणम्।
“अकाल-जलदोदय” इति रघुः।
“अकालमृत्युहरण” मितितन्त्रम्।
“वर्त्त्याधारस्नेहयोगात् यथा दीपस्य संस्थितिः। विक्रियापि हि दृष्टैवमकाले प्राणसंक्षय” इति याज्ञ॰।
“अकालजन्तु विरसं न धान्यं गुणवत् स्मृत” मिति,वैद्य॰।
“नाकालवृष्टौ कुर्व्वीत व्रतबन्धशुभ्रक्रियामिति” स्मृतिः अनुचितकाले वृष्टाविति तदर्थः।
“वरमे-काहुतिः काले नाकाले लक्षकोटयः इति ति॰ त॰। नास्ति कालोपाधिजन्यजातमत्र। जन्यशून्ये प्रलये।
“अकालकालमेघमेदुरेति काद॰। अप्राप्तः कालो यस्यप्रादिभ्यः धातुजस्येति ब॰ अन्त्यलोपश्च। अप्राप्तकालेअनुचितकाले पदार्थे त्रि॰। कालः कृष्णः न॰ त॰। कृष्ण-विरुद्धशुभ्रवर्णे पु॰। कृष्णविरोधिशुभ्रत्ववति त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाल¦ m. (-लः) Irregular or unusual, as time or season. E. अ neg. काल time.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाल [akāla], > a. [नास्ति उचितः कालो यस्य]

Untimely, premature, inopportune, unseasonable, out of season; न प्रजासु ˚मृत्युश्चरति U.2; न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥ R.15.44; अकालमृत्युहरणं सर्वव्याधिविनाशनम् । सूर्यपादोदकं तीर्यं जठरे धारया- म्यहम् ॥ (सूर्यनमस्कारसंकल्पः); ˚बातावली Ratn.3.

[न कालः] Not black, white. -लः [न. त.] Wrong, inauspicious or unseasonable time, not the proper time (for anything); unholy time in a year calculated and shown in Indian almanacs. ˚लः स्वबलप्रधानविरोधस्य Ve.3; ˚लः कुलजनस्य निवर्तितुं Mu.7; अकाले बोधितो भ्राता R.12.81 (at an improper time); अत्यारूढो हि नारीणामकालज्ञो मनोभवः 12.33 takes no account of proper or improper time; अकाले वीक्षितो विष्णुर्हन्ति पुण्यं पुराकृतम्; नाकाले म्रियते कश्चित् प्राप्ते काले न जीवति; नाकाले म्रियते जन्तुः H.1.17 does not die a premature death; काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् Ms.3.15 in time or late. -Comp. -कुसुमम्, -पुष्पम् a flower blossoming out of season; ˚कुसुमानीव भयं संजनयन्ति हि H.3.23, (a bad omen boding some evil.) -कूष्माण्डः a pumpkin produced out of season; (fig.) of a useless birth. -ज, -उत्पन्न, -जात a. produced out of season; premature; unseasonable.

जलदः an untimely cloud.

N. of the great-grandfather of the poet Rājaśekhara.

जलदोदयः, मेघोदयः an unseasonable rise or gathering of clouds; बालातपमिवाब्जानामकाल- जलदोदयः R.4.61.

mist or fog. -ज्ञ a. taking no account of proper or improper time; अत्यारूढो हि नारीणामकालज्ञो मनोभवः R.12.33. -वेला unseasonable or improper time. -सह a.

not enduring delay or loss of time, impatient, not biding one's time.

not able to hold out (for a long time), unable to stand a protracted siege (as a दुर्ग); H.3.137.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाल/ अ-काल m. a wrong or bad time

अकाल/ अ-काल mfn. unseasonable

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाल पु.
(अधि.) क्रि.वि. नियत समय (अथवा दिन) विना, अर्थात् ऋतुकाल (मासिक-धर्म के) के अनन्तर, ऐ.बा. 3०.7 (786); मा.श्रौ.सू. 2.1.2.38, 3.1.7.2.15.14; मा.श्रौ.सू. 8.23.6।

"https://sa.wiktionary.org/w/index.php?title=अकाल&oldid=483712" इत्यस्माद् प्रतिप्राप्तम्