यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रूरः, पुं, (क्रौर्य्यवान् क्रूरः, स न भवति इति अक्रूरः । यद्वा क्रूर इति भावप्रधानो निर्द्देर्शः । न विद्यते क्रौय्यम् इति अक्रूरः ।) गान्दिनीपुत्रः । श्रीकृष्णपितृव्यः । तस्य पिता श्वफल्कः । (तस्य- माता गान्दिनी ।) इति श्रीभागवतं ॥ क्रूरताशून्ये त्रि ॥ (सरले । यथा, -- “स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोरमम्” । इति मनुः । पुंसि विष्णुः । यथा, -- “अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः” । इति भारते ।)

"https://sa.wiktionary.org/w/index.php?title=अक्रूरः&oldid=109825" इत्यस्माद् प्रतिप्राप्तम्