यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्टोमः, पुं, (अग्नीनां स्तोमः । अग्नेः स्तुत्- स्तोमसोमा इति षः ।) यज्ञविशेषः । इति शब्दरत्नावली ॥ तस्य विधिः । ज्योतिष्टोमेन स्वर्गकामो यजेतेति वाक्यविहितज्योतिष्टोमना- मकयागविशेषस्य गुणविकारोऽग्निष्टोमो नाम । तस्य कालो वसन्तः । तत्राधिकारी अधीतवेद आहिताग्निश्च । द्रव्यं सोमः । देवता इन्द्रवाष्वा- दयः । ऋत्विजः षोडशः । तेषाञ्च चत्वारो गणाः । होतृगणः १ अध्वर्य्युगणः २ ब्रह्मगणः ३ उद्गातृ- गणः ४ । एकैकस्य गणस्य चत्वारश्चत्वारः । तत्र होतृगणे होता १ प्रशास्ता २ अच्छावाकः ३ ग्रावस्तोता ४ । अध्वर्य्युगणे अध्वर्य्युः १ प्रति- प्रस्थाता २ नेष्टा ३ उन्नेता ४ । ब्रह्मगणे ब्रह्मा १ ब्राह्मणाच्छंशी २ अग्नीतृ ३ पोता ४ । उद्गातृ- गणे उद्गाता १ प्रस्तोता २ प्रतिहर्त्ता ३ सु- ब्रह्मण्यः ४ । स च पञ्चाहसाध्यः । प्रथमदिने दीक्षा दीक्षणीयादितदङ्गानुष्ठानं । तत्र द्वितीय- दिवसे प्रायणीययागः सोमलताक्रयणं । ततो द्वितीयतृतीयचतुर्थदिवसेषु प्रातःकाले सायंकाले च प्रवर्ग्योपसन्नामकयागानुष्ठानं । चतुर्थदिवसे प्रवर्ग्योद्वासनानन्तरं अग्नीषोमीयपश्वनुष्ठानं । तत्र यस्य यजमानस्य ग्टहे पितृपितामहप्रपिता- महानां मध्ये केनापि वेदो नाधीतोऽग्निष्टोमो वा न कृतः स दुर्ब्राह्मणो भवति । तस्य दौ- र्ब्राह्मण्यपरिहारायाश्विनपशुः कर्त्तव्यः । यस्य यजमानस्य पितृपितामहप्रपितामहानां मध्ये केनापि सोमपानं न कृतं स्यात् तस्य सोमपान- विच्छेददोषपरिहारार्थमैन्द्राग्नपश्वनुष्ठानं कर्त्तव्यं । इत्थं त्रयाणां पशूनां युगपदालम्भपक्षे एकस्मि- न्नेव यूपे त्रयाणां पशूनां बन्धनं । इत्थं पशु- त्रयानुष्ठानं चतुर्थदिवसे तस्मिन्नेव दिने वा तृतीयभागे उत्थाय प्रयोगारम्भः कार्य्यः । तत्र पात्रासादनं । पात्राणि च ग्रहाश्चमसाः स्थाल्य- श्चेति । तत्र ग्रहपात्राणि वितस्तिमात्राणि उलूखलाकाराणि । ऊर्द्धपात्राणि चमसपात्राणि तावत्परिमितान्येव तिर्य्यगाकृतीनि कोणचतु- ष्टयविशिष्टानि धारणार्थदण्डयुक्तानि । स्थाल्यो मार्त्तिक्यः । तत आरभ्य सोमलताकण्डनेन सोमरसं निष्कास्य निष्कास्य ग्रहैश्चमसैश्च होमः कर्त्तव्यः । तत्र सूर्य्योदयानन्तरं आग्नेयपशुयागः कर्त्तव्यः । एवमुक्थ्यपर्य्यायान्ते कृते प्रातःसवन- समाप्तिः । ततो मध्यन्दिनसवनं । तत्र दक्षिणा- दानं । दक्षिणा च द्वादशोत्तरशतं गावः । तत- स्तृतीयसवनं । इत्थं प्रातःसवनमाध्यन्दिनसवन- तृतीयसवनरूपसवनत्रयात्मकः अग्निष्टोमः प्र- धानयागः । इतरेऽङ्गयागाः । तृतीयसवनसमा- प्त्युत्तरमवभृथयागः । उदके वरुणदेवताकपुरो- डाशहोमः । तदनन्तरमनुबन्ध्या पशुयागः । तत्र गौः पशुः । तस्य कलिनिषिद्धत्वात् तस्य च नित्यत्वात् तत् स्थाने आमीक्षायागः । तत उदयनीया तत उदवसानीया । सा च पञ्चम- दिवसे यावद्रात्रि कर्त्तव्या । तत्समाप्तावग्निष्टोम- यागसमाप्तिः । इत्यग्निष्टोमयागीयपदार्थकला- सूची ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्टोम¦ पु॰ अग्नेः स्तोमः स्तुतिसाधनं तृचसमुदायो-ऽवसानेऽत्र। यागविशेषे स च यागः ताण्ड्यमहा-ब्राह्मणे षष्ठाध्याये
“प्रजापतिरकामयत बहु स्यां प्रजा-येयेति सएतमग्निष्टोममसृजत” इत्युपक्रम्य
“एष वावयज्ञोयदग्निष्टोम” इति
“एकस्मा अन्यो यज्ञः कामाया-ह्रियते सर्व्वेभ्योऽग्निष्टोम” इति चाग्निष्टोमं स्तुत्वा
“द्वादश[Page0061-a+ 38] स्तोत्राण्यग्निष्टोम” इत्यादिना सप्रपञ्चं दर्शितः। अग्निष्टोमशब्दस्य व्युत्पत्तिर्भाष्यकृता सायणाचार्य्येण दर्शिता यथा
“यज्ञायज्ञीय इत्यस्यामाग्नेय्यामुत्पन्नेन अग्नेष्टोमसाम्नासमाप्ते रग्निष्टोम इति नाम सम्पन्नमिति”। तद्विधानपरिपाटीच वौधायनीये केशवस्वामिना दर्शिता तत एव साऽवगन्तव्या। ताण्ड्ये षष्ठाध्याये च
“अग्निष्टोमे द्वादश स्तोत्राणि द्वादशशस्त्राणी” त्युक्त्वा अष्टमाध्यायपर्य्यन्तं यानि स्तोत्राणिशस्त्राणि वा प्रयोज्यानि तान्यभिहितानि तानि च ततएवावगन्तव्यानि तेषां स्वरूपादि तत्तच्छब्दार्थे वक्ष्यतेतत्र अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रं प्रगीतमन्त्रसाध्या तुस्तोत्रमिति तयेर्भेदः। एकाहसाध्ये अग्निष्टुन्नामके यज्ञेच तत् प्रमाणम् अग्निष्टुच्छब्दे। अग्निष्तोमस्य व्याख्यानःकल्पः ठक्। आग्निष्टोमिकः अग्निष्टोमबोधककल्पे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्टोम¦ m. (-मः) A sacrifice, or rather a series of offerings to fire for five days to be celebrated in the spring. E. अग्नि and लोम oblation, burnt-offering.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्टोम/ अग्नि--ष्टोम m. " praise of अग्नि" , N. of a protracted ceremony or sacrifice (forming one of the chief modifications , [ संस्थास्] of the ज्योतिष्टोमoffered by one who is desirous of obtaining heaven ; the performer is a ब्रह्मन्who maintains the sacred fire , the offering is the सोम, the deities to whom , the offering is made are इन्द्रetc. , the number of priests required is 16 , the ceremonies continue for five , days)

अग्निष्टोम/ अग्नि--ष्टोम m. a mantra or kalpa connected with the अग्निष्टोमL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Manu चाक्षुष and नड्वला. भा. IV. १३. १६: Vi. I. १३. 5.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNIṢṬOMA : (See AGNIṢṬU).


_______________________________
*3rd word in left half of page 17 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निष्टोम&oldid=484136" इत्यस्माद् प्रतिप्राप्तम्