यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्रम्, क्ली, (अग्नये होत्रम् अत्र इति बहुव्रीहिः ।) यज्ञविशेषः । तत् द्विविधं । माससाध्यं यावज्जीवनसाध्यञ्च । द्वितीये वि- शेषोऽयं । तदग्नौ यावज्जीवं प्रत्यहं प्रातः सायं हवनं । तदग्निना यागकर्त्तुर्दाहश्च । इति स्मृतिः ॥ तत्र क्रमो यथा । ब्राह्मणक्षत्त्रिय- वैश्यानां कृतदारपरिग्रहाणां काणत्वान्धत्व- वधिरत्वपङ्गुत्वादिदोषरहितानां वर्णक्रमेण वस- न्तग्रीष्मशरत्सु अग्न्याधानं विहितं । अग्न- यस्त्रयः गार्हपत्यः १ दक्षिणाग्निः २ आहवनीयः ३ । एषामाधानं नाम देशविशेषे तत्तन्मन्त्रैः स्थापनं । तेष्वग्निषु सायंकाले प्रातःकाले चा- ग्निहोत्रहोमः कर्त्तव्यः । अग्निहोत्रं नाम होमस्य नामधेयं । अग्नये होत्रं होमो यस्मिन् कर्म्म- णीति व्यधिकरणबहुव्रीहिः । तत्र द्रव्याणि दश । पयः १ दधि २ यवागूः ३ घृतं ४ ओदनः ५ तण्डुलाः ६ सोमरसः ७ मांसं ८ तैलं ९ माषाः १० । सम्प्रति कलियुगे पयसा तण्डुलैर्यवाग्वा च होम-शिष्टाचारप्रसिद्धः । तत्र एक ऋत्विक् नित्यं होमः यजमानेन वा कर्त्तव्यः ऋत्विजा वा कारयितव्यः । अमावास्यायान्तु रात्रौ यवा- गूद्रव्येण यजमानेनैव कर्त्तव्यः । स चाग्निहोत्र- होमः आरम्भप्रभृति यावज्जीवनं कर्त्तव्यः । प्रथमदिने पूर्ब्बोक्तानां दशानां द्रव्याणां मध्ये सम्प्रति प्रचलद्रूपाणाञ्च मध्ये येन द्रव्येण प्रथमाग्निहोत्रहोमः कृतः तेनैव द्रव्येण या- वज्जीवनं कर्त्तव्यः । प्रथमहोमश्च यस्मिन् दिने अग्न्याधानं कृतं तस्मिन् दिने सायं- काले आरम्भणीयः । तत्र शतहोमे सूर्य्यो देवता सायंकाले अग्निर्देवता । आधानानन्तरं प्रथमपौर्णमास्यां दर्शपूर्णमासयागारम्भः क- र्त्तव्यः । दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति विधिवाक्यं । तत्र षड्यागाः । पौर्णमास्यां त्रयः । अमायां त्रयः । पौर्णमास्यामाग्नेयाग्नी- षोमीयोपांशुयागास्त्रयो यागाः । अमावस्या- यामाग्नेयैन्द्रदधिपयो यागास्त्रयः । तत्रामायां कर्त्तव्ययागत्रयस्य दर्शपदं नामधेयं । पौर्ण- मास्यां कर्त्तव्ययागत्रयस्य पूर्णमासपदं नाम- धेयं । दर्शश्च पूर्णमासश्च दर्शपूर्णमासाविति द्वन्द्वः । पौर्णमासयागस्य प्राथमिकत्वेऽपि अल्पा- च्तरमिति पाणिनीयानुशासनानुसारेण दर्श- शब्दस्याल्पाच्कत्वात् पूर्ब्बनिपातः । दर्शपूर्ण- मासावपि यावज्जीवं कार्य्यौ । तत्रापि त्रयाणां वर्णानामुपरि लिखितान्धत्वाद्यधिकारप्रतिबन्ध- कीभूतदोषसम्बन्धाभाववतां कृताग्निधानानां स- पत्नीकानामधिकारः । सामान्यतः पर्ब्बण्यारम्भः प्रतिपदि याग इति परिभाषा । तत्राकृत- सोमयागस्य यजमानस्य पौर्णमास्यामाग्नेयपुरो- डाशयागः आज्येनोपांशुयाजयागः । अमायान्तु आग्नेयपुरोडाशयागः ऐन्द्राग्नपुरोडाशयागः । कृतसोमयागस्य यजमानस्य तु पौर्णमास्यामा- ग्नेयपुरोडाशयागः आज्येनोपांशुयाजयागः अग्नी- षोमीयपुरोडाशयागः । अमायान्तु आग्नेयपुरो- डाशयागः ऐन्द्रपयोयागः ऐन्द्रदधियागश्चेति त्रयः । तत्र ऋत्विजश्चत्वारः । अध्वर्य्युः १ ब्रह्मा २ होता ३ अग्नीदिति ४ । यजुर्वेदकर्म्मकर्त्ता अध्वर्य्युः । ऋग्यजुःसामवेदत्रयकर्म्मकर्त्ता ब्रह्मा । ऋग्वेदकर्म्मकर्त्ता होता । अग्नीत्तु प्रायशो- ऽध्वर्य्योरेवानुयायी तत्प्रेरितकर्म्मकर्त्ता । पुरो- डाशो व्रीहितण्डुलैर्यवतण्डुलैर्वा कर्त्तव्यः । अग्नि- होत्रवद्येन द्रव्येणारम्भः कृतस्तेनैव द्रव्येण याव- ज्जीवं यागः कर्त्तव्यः । आरम्भवेलायामिच्छैव नियामिकेत्यादिदिङ्यात्रमिदं । इति यजुर्वेदः ॥ * ॥ यज्ञाग्निसञ्चयः । तत्पर्य्यायः । अग्न्याधानं २ अ- ग्निरक्षणं ३ । इति हेमचन्द्रः ॥

अग्निहोत्रः, पुं, अग्निः । घृतं । इति मेदिनी ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्र¦ n. (-त्रं)
1. Maintenance of a perpetual or sacred fire. m. (-त्रः)
1. Fire.
2. Ghee. E. अग्नि and होत्र oblation with fire, burnt offerings.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्र/ अग्नि--होत्र mfn. ( अग्नि-)sacrificing to अग्निAV. vi , 97 , 1

अग्निहोत्र/ अग्नि--होत्र n. AV. etc. oblation to अग्नि(chiefly of milk , oil , and sour gruel ; there are two kinds of अग्निहोत्र, one is नित्यi.e. of constant obligation , the other काम्यi.e. optional)

अग्निहोत्र/ अग्नि--होत्र n. the sacred fire Mn. Ya1jn5. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋसिस् procreate for the world and establish धर्म in it; live in the पितृयान। गृहमेधि र्षिस्; ८८,000; live in the southern path of the sun till the end of the world; फलकम्:F4:  M. १२४. ९८-100, १०२-4.फलकम्:/F quality of immanence in them; kinds of; फलकम्:F5:  वा. 5. ३५; ४९. १२६; ५९. ६३.फलकम्:/F place of ८००० sages. फलकम्:F6:  Br. II. 7. १८०.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNIHOTRA(M) : This is a sacrifice offered to Agni- deva. This has two parts, nitya and Kāmya.


_______________________________
*6th word in right half of page 15 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निहोत्र&oldid=484148" इत्यस्माद् प्रतिप्राप्तम्