अञ्जन
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अञ्जनम्, क्ली, (अन्ज + भावे ल्युट्, कज्जले तु गम्य- माने करणे ल्युट्) म्रक्षणं । गमनं । व्यक्तीकरणं । इत्यनट् प्रत्ययान्तान्जधात्वर्थंः । कज्जलं । तत्तु षड्विधं । यथा, -- “सौवीरं जाम्बलं तुत्थं मयूरश्रीकरं तथा । दर्व्विका नीलमेघश्च अञ्जनानि भवन्ति षट् ॥ तल्लक्षणानि यथा” -- “स्रवद्रूपन्तु सौवीरं जाम्बलं प्रस्तरं तथा । मयूरश्रीकरं रत्नं मेघनीलन्तु तैजसं ॥ घृष्ट्वा निगाह्य चैतानि शिलायां तैजसेऽथवा । प्रदद्यात् सर्व्वदेवेभ्यो देवीभ्यश्चापि पुत्रक ॥ घृततैलादियोगेन ताम्रादौ दीपवह्निना । यदञ्जनं जायते तु दर्व्विका परिकीर्त्तिता ॥ सर्व्वाभावे तु तां दद्यात् देवीभ्यो दर्व्विकाञ्जनं । महामाया जगद्धात्री कामाख्या त्रिपुरा तथा । आप्नुवन्ति महातोषं षड्भिरेभिः सदाञ्जनैः ॥ विधवा नाञ्जनं कुर्य्यात् महामायार्थमुत्तमं । नादत्ते त्वञ्जनं देवी वैष्णवी विधवाकृतं ॥ न मृत्पात्रे योजयेत्तु साधको नेत्ररञ्जनं । न पूजाफलमाप्नोति मृत्पात्रविहिताञ्जनैः ॥ चतुर्व्वर्गप्रदो धूपः कामदं नेत्ररञ्जनं । तस्माद्द्वयमिदं दद्याद्देवेभ्यो भक्तितो नरः” ॥ इति कालिकापुराणे ६८ अध्यायः ॥ अस्य गुणः । तारानैर्म्मल्यकारित्वं । निर्म्मलचन्द्रतुल्यनिराकुल- दृष्टिकारित्वञ्च । इति राजवल्लभः ॥ सौवीरा- ञ्जनं । रसाञ्जनं । अक्तिः । मसी । इति हेभ- चन्द्रः ॥ अग्निः इति विश्वः ॥ आलङ्कारिकभाषया व्यञ्जनाख्यवृत्तिः । यथा, -- “अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनं ॥ इति काव्यप्रकाशः ॥
अञ्जनः, पुं, (अनक्त्वि प्रतीच्यां दिशि रक्षकत्वेन प्रका- शते यः अन्ज + कर्त्तरि ल्युट्) पश्चिमदिघस्ती । अञ्जयति रवेणशुभाशुभे सूचयति अन्ज + णिच् + ल्युट्) ज्येष्ठी । जेठी इति भाषा । इति विश्व- मेदिन्यौ, (दिवा नतु प्रयोक्तव्यं नेत्रयोस्तीक्ष्ण- मञ्जनं । विरेकदुर्बलादृष्टिरादित्यं प्राप्य सीदति ॥ इति आगमः) ।
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अञ्जन पुं।
पश्चिमदिग्गजः
समानार्थक:अञ्जन
1।3।3।4।5
कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥
पत्नी : अञ्जनस्य_हस्तिनी
स्वामी : पश्चिमदिशायाः_स्वामी
सम्बन्धि1 : पश्चिमदिक्
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अञ्जन¦ न॰ अज्यतेऽनेन अन्ज--करणे ल्युट्। कज्जले।
“अपि खञ्जनमञ्जनमञ्जनाञ्चितमिति” नैष॰।
“मैत्रंप्रसाधनं स्नानं दन्तधावनमञ्जनम्। पूर्ब्बाह्णएव कुर्व्वीतेति” स्मृतिः।
“विलोचनं दक्षिणमञ्जनेन संभाव्येति” रघुः। अञ्जनविशेषाश्च सुश्रुते दर्शिता यथा
“चत्वार एते योगाः स्युरुभयोरञ्जने हिताः। कुब्ज-काशोकशालाम्रप्रियङ्गुनलिनोत्पलैः॥ पुष्पैर्हरेणुकृष्णाह्वा-पथ्यामलकसंयुतैः। सर्पिर्मधुयुतैश्चूणै र्वेणुनाड्यामवस्थितैः॥ अञ्जयेद् द्वावपि भिषक् पित्तश्लेष्मविभावितौ। आम्रजम्बू-द्भव पुष्प तद्रसेन हरेणुकाम्॥ पिष्ट्वा क्षौद्राज्यसंयुक्तांप्रयोज्यमथ वाञ्जनम्। नलिनोत्पलकिञ्जल्कगैरिकै र्गोश-कृद्रसैः॥ गुडिकाञ्जनमेतद्वा दिनरात्र्यन्धयोर्हितम्। रसाञ्जनरसक्षौद्रतालीशस्वर्णगैरिकम्॥ गोशकृद्रसमंयुक्तंपित्तोपहतदृष्टये। शीतं सौवीरकं वापि पिष्ट्वाथ रस-भावितम्॥ कूर्म्मपित्तेन मतिमान् भावयेद्रौहितेन वा। चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये॥ काश्मरी-पुष्पमधुकदार्व्वीलोध्रसाञ्जनैः। सक्षौद्रमञ्जनन्तद्वद्धितं नेत्रा-मये सदा॥ स्रोतोजं सैन्धवं कृष्णां रेणुकाञ्चापि पेष-येत्। अजमूत्रेण ता वत्त्यःक्षणदान्ध्याञ्जने हिताः॥ कालानुसारिवां कृष्णां नागरं मधुकं तथा। ताली-शपत्रं क्षणदे गाङ्गेयञ्च शकृद्रसे॥ कृतास्ता वर्त्तयः पिष्ट्वा-छायाशुष्काः सुखावहाः। मनःशिलाभयाव्योषबलाका-लानुसारिवाः॥ सफेना वर्त्तयः पिष्टाश्छागक्षीरसम-न्विताः। गोमूत्रपित्तमदिराशकृद्धात्रीरसे पचेत्॥ क्षुद्राञ्जनं रसे चान्यद्यकृतस्त्रैफलेऽपि वा। गोमूत्राज्या-णवमलपिप्पलीक्षौद्रकट्फलम्॥ सैन्धवोपहितं युञ्ज्या-न्निहितं वेणुगह्वरे। मेदोयकृद्घृतञ्छागं पिप्पल्यःसैन्धवं मधु॥ रसमामलकञ्चापि पक्कं सम्यङ्निधापयेत्। कोशे खदिरनिर्म्माणे तद्वत्क्षुद्राञ्जनं हितम्॥ हरेणुमग-धाजास्थिमज्जैलायकृदन्वितम्। शकृद्रसेनाञ्जनं वा श्लेष्म-प्रहतदृष्टये॥ विपाच्य गोधायकृदर्द्धपाटितं सुपूरितंमागधिकाभिरग्निना। निषेवितं तत्सकृदञ्जनेन निहन्तिनक्तान्ध्यमसंशयं खलु॥ तथा यकृच्छागभवं हुताशनेविपाच्य सम्यग्मगध{??}समन्वितम्। प्रयोजितं पूर्ब्बवदा-श्वसंशयं जयेत् क्षपान्ध्यं सकृदञ्जनन्नृणाम्॥ प्लीहायकृच्चाप्यपभक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुतम्। तेसार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते। नदीजशिम्बीकटुकान्यथाञ्जनम्मनःशिला द्वे च निशे यकृ-[Page0094-b+ 38] द्रसे। स चन्दनेयं गुटिकाथ वाञ्जनं प्रशस्यते वै दिवसेष्व-पश्यताम्” इति॥ सौवीरे, रसाञ्जने च। अञ्जनवर्णोऽस्त्यस्य। अर्श॰ अच्। ज्येष्ठदिग्गजे पु॰ उत्तरदिग्गजयोषितिकेशरियोषिति वानर्य्याञ्च स्त्री।
“अञ्जनागर्भसम्भूतो वायु-पुत्त्रो महाबल इति” तन्त्रम्। भावे ल्युट्। मिश्रीकरणे,लेपने व्यक्तिकरणे मालिन्ये च न॰
“निरञ्जनं दिव्यमुपैतिसाम्यमिति” निरवद्यं निरञ्जनमिति” च श्रुतिः। अञ्ज-णिच्--युच्। शक्यलक्ष्यार्थातिरिक्तार्थबोधके आलङ्कारि-कोक्ते व्यञ्जनावृत्तिरूपे शब्दशक्तिभेदे स्त्री॰
“अन्यार्थधी-कृत् व्यापृतिरञ्जनेति” काव्यप्रकाशः। तत एव भावे ल्युट्तत्रवार्थे न॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अञ्जन¦ n. (-नं)
1. Anointing.
2. Going.
3. Making clear, distinct.
4. A collyrium or application to the eye-lashes, to darken and improve them; a universal article of the eastern toilet.
5. Particular applications, as lamp black, antimony, and another kind. See रसाञ्जन।
6. Night.
7. Ink.
8. A term in rhetoric; the use of a word of several meanings in one specific sense, which is determi- ned by the context. m. (-नः)
1. The elephant of the west
2. A species of lizard. f. (-ना)
1. The mother of HANUMA4N.
2. A green lizard. (-नी)
3. A woman perfumed with sandal, &c.
4. A medicinal plant. See. कटुका। E. अञ्ज to beautify or anoint, and ल्यु or ल्युट् aff.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अञ्जनः [añjanḥ], 1 A kind of lizard.
N. of a tree or mountain.
N. of the guardian elephant (of the west or s. w.) तस्य चान्ये$पि दिङ्नागा बभूबुरनुयायिनः । अञ्जनो बामनश्चैव महापद्मश्च सुप्रभः ॥ Mb.6.64.57. -नम् [अज्यते अनेन; अञ्ज् ल्युट्]
Anointing, smearing with, दन्तधावनमञ्जनं पूर्वाह्ण एव कुर्वीत Ms.4.152; mixing; unfolding, manifesting.
Collyrium or black pigment used to paint the eyelashes; विलोचनं दक्षिणमञ्जनेन संभाव्य R.7.8 salve; अमृत˚ को$यं दृशोरमृताञ्जनम् U.4.18 ambrosial salve; कुर्वन् ˚मेचका इव दिशो मेघः समुत्तिष्ठते Mk.5.8,1.34; (fig. also) अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ Śik.45; पटुतरविवेकाञ्जनजुषाम् Bh.3.84; cf. also दारिद्य्रं परमाञ्जनम्; (fig.) impurity, as in निरञ्जन, q. v.
Paint, a cosmetic ointment.
Magic ointment.
A special kind of material of the black pigment, such as antimony (used as collyrium, lamp-black &c. सौवीर
Ink.
Fire.
Night.
(नम्, ना) (Rhet.) A suggested meaning; also the process by which such meaning is suggested. It is the power of suggestion (founded on अभिधा or लक्षणा denotation or indication), by which something else is understood from a word which, though having more meanings than one, has been restricted to a single meaning by relations of conjunction, disjunction &c. (संयोग, विप्रयोग, साहचर्य, विरो- धिता &c.), or, briefly, the use of a word of several meanings in a special sense determined by the context;e. g. �/सशङ्खचक्रो हरिः the adjective restricts Hari to mean 'Viṣṇu' alone, and not a 'lion' or 'monkey'; so रामलक्ष्मणौ दाशरथी, रामार्जुनौ भार्गवकार्तवीर्यौ &c.; cf. अनेकार्थस्य शब्दस्य वाच- कत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद् व्यापृतिरञ्जनम् ॥ K.P.2., S. D.23-6; See व्याञ्जना also. -Comp. -अधिका [अञ्जना- दधिका कृष्णत्वात्] a kind of lizard. -अद्रिः-गिरिः (कर्म.) [अञ्जनमिव कृष्णः गिरिः] N. of a mountain, Seeनीलगिरि.-अम्भस् n. eye-water. -केशी [अञ्जनामिव केशो यस्याः] N. of a vegetable perfume (हट्टविलासिनीनामकं गन्धद्रव्यं यत्संयोगा- त्केशस्यातीव कृष्णत्वम् (Mar. नखला). -त्रितयम् (Āyurveda) पुष्पाञ्जन, रसाञ्जन and कोलाञ्जन. -नामका ष. त.] a swelling of the eye-lid, sty (Mar. रांजणवाडी). -मूलकः A variety of an inferior gem, deep-dark in colour. Kau.A.2.11.-शलाका a stick or pencil for the application of collyrium.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अञ्जन m. a kind of domestic lizard L.
अञ्जन m. N. of a fabulous , serpent
अञ्जन m. of a tree Pan5cat.
अञ्जन m. of a mountain , of a king of मिथिला, of the elephant of the west or south-west quarter
अञ्जन n. act of applying an ointment or pigment , embellishing , etc. , black pigment or collyrium applied to the eyelashes or the inner coat of the eyelids
अञ्जन n. a special kind of this pigment , as lamp-black , Antimony , extract of Ammonium , Xanthorrhiza , etc.
अञ्जन n. paint , especially as a cosmetic
अञ्जन n. magic ointment
अञ्जन n. ink L.
अञ्जन n. night L.
अञ्जन n. fire L. (In rhetoric) making clear the meaning of an equivocal expression , double entendre or pun , etc.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--the son of इरावति, the elephant of golden colour; belonging to the fold of वामदेव Sa1ma. Br. III. 7. २९२, ३२७ & ३३९.
(II)--a सामन्. Br. III. 7. ३४३.
(III)--Mt. a hill west of the Sitoda; फलकम्:F1: वा. ३६. २८.फलकम्:/F residence of the Uragas; फलकम्:F2: वा. ३९. ५९.फलकम्:/F famous for elephant forests. फलकम्:F3: Ib. ६९. २३८.फलकम्:/F
(IV)--a son of कृति. Father of Kurujit. Vi. IV. 5. ३१.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Añjana : m.: A mythical elephant, living in the pātāla 5. 97. 1.
One of the best elephants (vāraṇasattama) born in the family of Supratīka 5. 97. 15; one of the diṅnāgas on whom rode the Rākṣasas accompanying Ghaṭotkaca against Bhagadatta 6. 60. 51; elephants born in his family known as Añjanakas 7. 87. 33, 16.
_______________________________
*1st word in left half of page p2_mci (+offset) in original book.
Añjana : m.: Name of a mountain.
Yudhiṣṭhira was instructed by the great sage Asita near the mountain Añjana (aśrauṣīr asitasyāpi maharṣer añjanaṁ prati) 2. 69. 13. [See Añjanābha ]
_______________________________
*1st word in left half of page p287_mci (+offset) in original book.
Mahabharata Cultural Index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Añjana : m.: A mythical elephant, living in the pātāla 5. 97. 1.
One of the best elephants (vāraṇasattama) born in the family of Supratīka 5. 97. 15; one of the diṅnāgas on whom rode the Rākṣasas accompanying Ghaṭotkaca against Bhagadatta 6. 60. 51; elephants born in his family known as Añjanakas 7. 87. 33, 16.
_______________________________
*1st word in left half of page p2_mci (+offset) in original book.
Añjana : m.: Name of a mountain.
Yudhiṣṭhira was instructed by the great sage Asita near the mountain Añjana (aśrauṣīr asitasyāpi maharṣer añjanaṁ prati) 2. 69. 13. [See Añjanābha ]
_______________________________
*1st word in left half of page p287_mci (+offset) in original book.
Vedic Rituals Hindi
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अञ्जन न.
1. लेपन के लिए प्रयुक्त मक्खन अथवा तेल, कौषी. ब्रा.शां. 3.7 (12.15) ‘अथ यत् प्रदेशिन्याम् इडायाः पूर्वम् अञ्जनम् अधरौष्ठे निलिम्पति’, शा.श्रौ.सू. 1.1०.2; 2A. लेप लगाने का कृत्य (खनिज, वनस्पति अथवा दीपक के कालिख से तैयार किया गया काजल, सुरमा, चक्षुर्लेप), आप.श्रौ.सू. 1०.71.2; मा.श्रौ.सू. 59.6, कौषी.गृ.सू. 3.4.1०; त्रिककुद् पर्वत से लाया गया मरहम (लेप) हि.गृ.सू. 1.11.5; (उपनयन) वैखा गृ.सू. 2.15 (33.2); कौशि.सू. 35.21; सामवि. ब्रा. 3.1.2 टीका, 2B. नवनीत अथवा तेल के अञ्जन अथवा लेप का कृत्य, आश्व.श्रौ.सू. 6.14.11. अन्न स्वरोरञ्जनमेके समामनन्ति, आप.श्रौ.सू. 7.27.3; 2C. नवविवाहित युवती द्वारा घृत से रथ के धुरे का लेपन, शां.गृ.सू. 1.15.3।