यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथिः, पुं, कुशपुत्रः । स च श्रीरामचन्द्रस्य पौत्रः । इति मेदिनी ॥ कोपः । इति विश्वः ॥

अतिथिः, त्रि, (अतति सातत्येन गच्छति न तिष्ठति अत् + इथिन्) अज्ञातपूर्ब्बगृहागतव्यक्तिः । इति श्रीधरस्वामी ॥ अतिथ् इति भाषा । तत्पर्य्यायः । आगन्तुः २ आवेशिकः ३ गृहागतः ४ । इत्य- मरः ॥ स्त्रीलिङ्गे आवेशिकी ५ अतिथी ६ । इति तट्टीकासारसुन्दरी ॥ आगान्तुः ७ । इति हड्ड- चन्द्रः । प्रघूर्णः ८ अभ्यागतः ९ प्राघूर्णिकः १० । इति हेमचन्द्रः ॥ प्राघुणिकः ११ । इति विश्वः ॥ प्राघुणः १२ । इति त्रिकाण्डशेषः ॥ * ॥ तस्य लक्षणं । यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः । अकस्मात् गृहमायाति सोऽतिथिः प्रोच्यते बुधैः ॥ * ॥ तस्य निवर्त्तने गृहस्थस्य दोषः यथा, -- “अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति” ॥ इति पुराणं ॥ * ॥ तस्य ग्रहणकालः । “ततो गोदोहमात्रन्तु कालं तिष्ठेद्गृहाङ्गने । अति- थिग्रहणार्थाय तदूर्द्ध्वं वा यदृच्छया” ॥ इति विष्णुपुराणं ॥ * ॥ गोदोहकालश्च मुहूर्त्ताष्टम- भागः । यथा । “आचम्य च ततः कुर्य्यात् प्राज्ञो द्वारावलोकनं । मुहूर्त्तस्याष्टमं भागमुद्वीक्ष्यो ह्यतिथिर्भवेत्” ॥ इति मार्कण्डेयपुराणं ॥ * ॥ तस्य मूर्खत्वादिविचारो नास्ति । “प्रियो वा यदि वा द्वेष्यो मूर्खः पतित एव वा । संप्राप्ते वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः” ॥ इति शातातपः ॥ * ॥ तस्य वेदादयो न प्रष्टव्याः । “स्वाध्यायगोत्रचरणमपृष्ट्वापि तथा कुलं । हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही” ॥ इति विष्णुपुराणं ॥ * ॥ तस्य देशादौ पृष्टे दोषः । “देशं नाम कुलं विद्यां पृष्ट्वा योऽन्नं प्रयच्छति । न स तत्फलमाप्नोति दत्त्वा स्वर्गं न गच्छति” ॥ इति स्मृतिः ॥ * ॥ अतिथये शक्त्यनुसारेण दातव्यं । “भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा । अदत्त्वा नैव भोक्तव्यं यथा विभवमात्मनः” ॥ इति मार्कण्डेयपुराणं ॥ * ॥ भिक्षादिलक्षणं । “ग्रासप्रमाणा भिक्षास्यादग्रं ग्रासचतुष्टयं । अग्राच्चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः” ॥ इति मार्कण्डेयपुराणम् ॥ इत्याह्निकतत्त्वं ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथिः [atithiḥ], [अतति गच्छति न तिष्ठति; अत्-इथिन् Uṇ.4.2; lit. a 'traveller'; according to Manu एकरात्रं तु निवसन् अतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ 3.12 cf. also यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः । अकस्माद् गृहमायातः सो$तिथिः प्रोच्यते वुधैः ॥]

A guest (fig. also); अतिथिनेव निवेदितम् �+Ś.4; कुसुमलताप्रियातिथे Ś.6 dear or welcome guest; पुरन्दरपुरातिथिषु पितृषु Dk.2 the guests of Indra's capital i. e. dead; so समरे यमनगरातिथिरकारि 12; धन्यानां श्रवणपथातिथित्वमेति (उक्तम्) Ratn.2.7. becomes a guest of, i. e. goes to or falls on the ears of the fortunate only; करोति ते मुखं तन्वि चपेटापातनातिथिम् K.P.

Wrath.

N. of a son of Kuśa and Kumudvatī and grandson of Rāma. -Comp. -क्रिया -पूजा, -सत्कारः -सत्क्रिया, -सेवा hospitable reception of guests, rite of hospitality, hospitality, attention to the guests -देव a. [अतिथिर्देव इव पूज्यो यस्य] treating the guest as God. -धर्मः title or claim to hospitality; hospitality due to guests; गृह्यतां ˚र्मः Pt.1; यदि त्वतिथि- धर्मेण क्षत्रियो गृहमाव्रजेत् Ms.3.111 should come as guests-धर्मिन् a. entitled to hospitality as a guest वैश्यशूद्रावपि प्राप्तौ कुटुम्बे$तिथिधर्मिणौ । भोजयेत्सह भृत्यैस्तानानृशंस्यं प्रयोजयन् ॥ Ms.3.112. -पतिः the host or entertainer.

"https://sa.wiktionary.org/w/index.php?title=अतिथिः&oldid=484828" इत्यस्माद् प्रतिप्राप्तम्