अधिष्ठान
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिष्ठानम्, क्ली, (अधिष्ठीयतेऽत्र अधि + स्था + अधिकरणे ल्युट् ।) नगरं । चक्रं । प्रभावः । अ- ध्यासनं । अवस्थानं । इत्यमरः ॥ (यथा रामा- यणे, -- “यद्भयात् सम्परित्यज्य स्वमधिष्ठानमृद्धिमत् । कौलासं पर्ब्बतश्रेष्ठमध्यास्ते नरवाहनः” ॥)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिष्ठान नपुं।
अध्यासनम्
समानार्थक:अधिष्ठान
3।3।126।1।1
अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि। रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने॥
पदार्थ-विभागः : , क्रिया
अधिष्ठान नपुं।
चक्रम्
समानार्थक:चक्र,रथाङ्ग,कटक,अधिष्ठान,अक्ष
3।3।126।1।1
अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि। रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
अधिष्ठान नपुं।
मूलनगरादन्यनगरम्
समानार्थक:पुर,शाखानगर,अधिष्ठान,निगम
3।3।126।1।1
अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि। रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने॥
: इन्द्रपुरः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः
अधिष्ठान नपुं।
प्रभावः
समानार्थक:आयति,धामन्,अधिष्ठान,वीर्य,अनुभाव,तेजस्
3।3।126।1।1
अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि। रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने॥
पदार्थ-विभागः : , द्रव्यम्, तेजः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिष्ठान¦ न॰ अधि + स्था--ल्युट्। नियमितकार्य्यविशेषाकरणेनसान्निध्यमात्रेण नियमनाय, स्थितौ, वेदान्तशास्त्रप्रसिद्धेआरोपाधिकरणे च। वेदान्तिनाञ्च अध्यासस्याङ्गमधिष्ठानंयथा तथाऽध्यासशब्दे वक्ष्यते। अधिकरणे ल्युटि। पुरेआधारमात्रे, आश्रये च।
“तदधिष्ठानाश्रयदेहेतद्वाद इति” सां॰ सू॰।
“तस्य लिङ्गस्य यदधिष्ठानमाश्रयोवक्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौशिके देहे इतिभाष्यत्”। करणे ल्युटि। चक्रे, प्रभावे च चक्रेण, प्रभावेन चहि प्रवृत्तयुद्धकृत्यादिसम्भवः। अधिष्ठानञ्च नियन्तृत्वंयथोक्तं सांख्ये।
“संहतपरार्थत्वात् त्रिगुणादिविपर्य्य-यादधिष्ठानादिति”
“इतश्च पुरुषोऽस्ति अधिष्ठानात्त्रिगुणात्मकानामधिष्ठीयमानत्वात् यद्यत् सुखदुःखमोहात्मकंतत् सर्व्वं परेणाधिष्ठीयमानं दृष्टं यथा रथादि यन्त्रादिभिः,सुखदुःखमोहात्मकञ्चेदंबुद्ध्यादि, तस्मादेतदपि परेणाधिष्ठात-व्यम्। स च परस्त्रैगुण्यादन्य आत्मेति” सा॰ कौ॰। भावेल्युट्। सन्निधिमात्रे।
“अत्राधिष्ठानं कुर्विति” आवाहन-मन्त्रः।
“भोक्तुरधिष्ठानाद्भोगायतननिर्म्माणमन्यथा पूति-भावप्रसङ्गात्” इति सांख्यसू॰
“भोक्तुः प्राणस्याधिष्ठानात्व्यापारादेव भोगायतनस्य शरीरस्य निर्म्माणं भवति। अन्यथा प्राणव्यापाराभावे शुक्रशोणितयोः पूतिभावप्रसङ्गात्मृतदेहवदित्यर्थः। तथाच रससञ्चारादिव्यापारविशेषैःप्राणो देहस्य निमित्तकारणं धारकत्वादिति भाव इति भा॰। ननु प्राणिनः निर्व्यापारस्याधिष्ठाने प्रयोजनाभाव इतितत्राह।
“भृत्यद्वारा स्वाम्याधिष्ठितिर्नैकान्त्यात्” इति सा॰[Page0135-b+ 38] सू॰।
“देहनिर्म्माणे व्यापाररूपमधिष्ठानं स्वामिनश्चेतनस्यै-कान्त्यात् अपेक्षा नास्ति किन्तु प्राणरूपभृत्यद्वारा यथाराज्ञः पुरनिर्म्माण इत्यर्थः। तथा च प्राणस्याधिष्ठातृत्वंसाक्षात्, पुरुषस्याधिष्ठातृत्वं प्राणसंयोगमात्रेणेति सिद्धम्। कुलालादीनां घटादिनिर्म्माणेष्वप्येवम्। विशेषस्त्वयं तत्रचेतनस्य बुद्ध्यादेश्चाप्युपयोगोऽस्ति बुद्धिपूर्ब्बकं स्रष्टृत्वा-दिति। यद्यपि प्राणाधिष्ठानादेव देहनिर्माणं तथापिप्राणद्वारा प्राणिसंयोगोऽप्यपेक्ष्यते पुरुषार्थमेव प्राणेन देह-निर्माणादित्याशयेन भोक्तुरधिष्ठानादित्युक्तम् इति भा॰। अधिष्ठीयते कर्म्मणि ल्युट्। अधिष्ठिते रुन्निधिमात्रेणनियन्त्रिते।
“इन्द्रियाणि मनो बुद्धिरस्याधिष्ठान-मुच्यते” इति गीता।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिष्ठान¦ n. (-नं)
1. Abiding, resting;
2. Site, situation.
3. Prescribed rule, fixed practice.
5. A town.
6. A wheel.
7. Dignity. E. अधि, स्था to stand, and ल्युट् aff.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिष्ठानम् [adhiṣṭhānam], [अधि-स्था-ल्युट्]
Standing or being near, being at hand, approach (सन्निधि); अत्राधिष्ठानं कुरु take a seat here.
Resting upon, occupying, inhabiting, dwelling in, locating oneself in; प्राणाधिष्ठानं देहस्य &c.
A position, site, basis, seat; त्र्यधिष्ठानस्य देहिनः Ms.12.4; इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते Bg.3.4, 18.14 the seat (of that desire.)
Residence, abode; नगरं राजाधिष्ठानम् Pt.1.; so धर्म˚; a place, locality, town; सर्वाविनयाधिष्ठानतां गच्छन्ति K.16; कस्मिंश्चिदधिष्ठाने in a certain place.
Authority, power, power of control, presiding over; अनधिष्ठानम् H.3.83. lose of position, dimissal from a post (of authority); समर्थस्त्वमिमं जेतुमधिष्ठानपराक्रमैः Rām.; ययेह अश्वैर्युक्तो रथः सार- थिना$धिष्ठितः प्रवर्तते तथा आत्माधिष्ठानाच्छरीरम् Gaudapāda; महाश्वेताकृताच्च सत्याधिष्ठानात् K.346 appeal or reference to truth.
Government, dominion.
A wheel (of a car &c.) अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती Mb.8.34.34; 5.178.74.
A precedent, prescribed rule.
A benediction. cf. अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । Nm.
Destruction (?); अमित्राणामधिष्ठानाद्वधाद् दुर्योधनस्य च । भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥ Mb.9.61.14.
Couch, seat, bed; साधिष्ठानानि सर्वशः Rām.6.75.19.
A butt (for an allurement.) तस्माद् ब्राह्ममधिष्ठानं कृत्वा कार्ये चतुर्विधे । Kau. A.1.1. -Comp. -अधिकरणम् Municipal Board. (अधिष्ठान = city; अधिकरण = court and office of administration) EI,XV, p.143; XVII. p. 193 f; XX, pp.61 ff. -शरीरम् A body which forms the medium between the subtle and the gross body.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिष्ठान/ अधि-ष्ठान n. standing by , being at hand , approach
अधिष्ठान/ अधि-ष्ठान n. standing or resting upon
अधिष्ठान/ अधि-ष्ठान n. a basis , base
अधिष्ठान/ अधि-ष्ठान n. the standing-place of the warrior upon the car Sa1mavBr.
अधिष्ठान/ अधि-ष्ठान n. a position , site , residence , abode , seat
अधिष्ठान/ अधि-ष्ठान n. a settlement , town , standing over
अधिष्ठान/ अधि-ष्ठान n. government , authority , power
अधिष्ठान/ अधि-ष्ठान n. a precedent , rule
अधिष्ठान/ अधि-ष्ठान n. a benediction Buddh.