यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभावः, पुं, (अनुभावयति बोधयत्यनेन, अनु + भू + णिच् करणे अच् ।) प्रभावः । कोषदण्डजं तेजः । सतां मतिनिश्चयः । सतां अभिप्रायस्य निश्चयः । निश्चयमात्रेऽपि । भावबोधकः । रत्यादि- सूचकगुणक्रियादिः । स च लोचनचातुर्य्यभ्रूक्षेप- मुखरागादिरूपः । एवमन्यत्रापि । इत्यमरभरतौ ॥ (स्थिरता । निर्द्धारः । अवश्यम्भाविता । तेजः । यथा, -- “नरपतिकुलभूत्यैर्गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः” । इति रघुवंशे ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभाव पुं।

चित्तविकारप्रकाशककटाक्षादिः

समानार्थक:अनुभाव

1।7।21।2।2

चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्. विकारो मानसो भावोऽनुभावो भावबोधकः॥

पदार्थ-विभागः : , क्रिया

अनुभाव पुं।

प्रभावः

समानार्थक:आयति,धामन्,अधिष्ठान,वीर्य,अनुभाव,तेजस्

3।3।210।1।1

अनुभावः प्रभावे च सतां च मतिनिश्चये। स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

अनुभाव पुं।

सताम्मतिनिश्चयः

समानार्थक:अनुभाव

3।3।210।1।1

अनुभावः प्रभावे च सतां च मतिनिश्चये। स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभाव¦ पु॰ अनुभावयति उद्बोधयत्यनेन अनु + भू--णिच्-करणे--घञ्। कोषदण्डादिजाते राज्ञां तेजोविशेषे। सामर्थ्ये च। कर्त्तरि अच्। अलङ्कारशास्त्रप्रसिद्धे रस-व्यञ्जके
“भावं मनोगतं साक्षात् स्वगतं व्यञ्जयन्ति ये। तेऽनुभावा” इति ख्याताः, इत्युक्तलक्षणे भ्रूभङ्गादौ।
“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथेति” सा॰ द॰। अनुभावस्य लक्षणभेदादिकमुक्त्वा दर्पणे।
“उद्बुद्धंकारणैः स्वैःस्वैर्वहिर्भावं प्रकाशयन्। लोके यःकार्य्यरूपः सोऽनुभावः काव्यनाट्ययोः॥ यः खलु लोकेसीतादिवन्द्रादिभिः स्वैःस्वैरालम्बनोद्दोपनकारणैरामा-देरन्तरुद्बुद्धं रत्यादिकं वहिः प्रकाशयन् कार्य्य मित्युच्यते सकाव्यनाट्ययोः पुनरनुभावः। कः पुनरसावित्याह।
“उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः। तद्रूपाःसात्त्विका भावास्तथा चेष्टाः परा अपि”॥ तद्रूपा अनु-भावस्वरूपाः। तत्र च यो यस्य रसस्यानुभावः स तत्स्वरूप-वर्ण्णने तत्र तत्र दर्शितः। तत्र सात्त्विकाः।
“विकाराःसत्त्वसम्भूताः सात्त्विकाः परिकीर्त्तिताः”। सत्त्वं नामस्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्म्मः।
“सत्त्व-मात्रोद्भवत्वात्ते भिन्ना अप्यनुभावतः”॥ गोबलीवर्द्दन्यायेनइति शेषः। के ते इत्याह। स्तम्भः स्वेदोऽथ रोमाञ्चःस्वरभङ्गोऽथ वेपथुः। वैवर्ण्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाःस्मृताः॥ तत्र। स्तम्भश्चेष्टाप्रतीघातो भयहर्षामया-दिभिः। वपुर्ज्जलोद्गमः स्वेदो रतिघर्म्मश्वमादिभिः॥ हर्पाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया। मदसंमद-पीडाद्यैर्व्वैस्वर्य्यं गद्गदं विदुः॥ रागद्वेषश्रमादिभ्यः कम्पोगात्रस्य वेपथुः। विषादमदरोपाद्यैर्वर्ण्णान्यत्वं विवर्ण्णता॥ अश्रु नेत्रोद्भवं वारि क्रोधदुःखप्रहर्षजम्। प्रलयः{??}ख-दुःखाभ्यां चेष्टाज्ञाननिराकृतिः इति”॥
“अनुभावविशे-षात्तु सेनापरिगतैरिव” रघुः। तेजसि च। गुरुभिरभि-निविष्टं लोकपालानुभावैरिति” रघुः। माहात्म्ये,
“जामेवो रक्षसाक्रान्तावनुभावपराक्रमौ इति” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभाव¦ m. (-वः)
1. Indication of passion, by look or gesture.
2. Dig- nity, authority, consequence.
4. Firm opinion, belief, knowledge.
4. Certainty, ascertainment. E. अनु, and भाव the essence or being; according to the internal feelings.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभावः [anubhāvḥ], 1 Dignity, consequence or dignity of person, majestic lustre, splendour, might, power, authority. (परिमेयपुरःसरौ) अनुभावविशेषात्तु सेनापरिवृताविव R.1.37; संभावनीयानुभावा अस्याकृतिः Ś.7; अनुभावसौभाग्यमात्रपरिशेष- धूसरश्री U.1,3;6.2;41,4.22, K.18,24; V.1; तवानुभावो$यमवेदि यन्मया Ki.1.6; Dk.29,113; दिव्यौषध्या जयति महिमा को$प्यचिन्त्यानुभावः । Mv.6.53; अहो महानुभावः पार्थिवो दुष्यन्तः Ś.3 of great might or power; जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ R.1.38,2.75 greatness (dignity) &c., valour; न निहन्ति धैर्यमनुभावगुणः Ki.6.28; महानुभावप्रकृतिः कापि तत एवागतवती Māl.1 very noble or dignified.

(In Rhet.) An external manifestation or indication of a feeling (भाव) by appropriate symptoms, such as by look, gesture &c., called by some ensuant (भावबोधक-न); भावं मनोगतं साक्षात् स्वगतं व्यञ्जयत्नि ये । ते$नुभावा इति ख्याताः; यथा भ्रूभङ्गः कोपस्य व्यञ्जकः; उद्बुद्धं कारणं स्वैः स्वैर्बहिर्भावं प्रकाशयन् । लोके यः कार्यरूपः सो$- नुभावः काव्यनाट्ययोः ॥ S. D.162,163. &c.; धिगेव रमणीयतां त्वदनुभावभावादृते Māl.9.35.

Firm opinion or resolution, determination, belief; अनुभावांश्च जानासि ब्राह्मणानां न संशयः Mb.3.24.8. अनुभाववता गुरुस्थिरत्वात् Ki.13.15. cf. अनुभावः प्रभावे च सतां च मतिनिश्चये Ak. also Nm.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभाव/ अनु-भाव m. sign or indication of a feeling( भाव)by look or gesture Kpr. etc.

अनुभाव/ अनु-भाव m. dignity , authority , consequence

अनुभाव/ अनु-भाव m. firm opinion , ascertainment , good resolution , belief.

"https://sa.wiktionary.org/w/index.php?title=अनुभाव&oldid=486224" इत्यस्माद् प्रतिप्राप्तम्