यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठानम्, क्ली, (अनु + स्था + भावे ल्युट्) । कर्म्मा- रम्भः । करणं । यथा, -- “कृता श्रीभवदेवेन कर्म्मानुष्ठानपद्धती” । (उपपादनं । व्यवस्थापनं । उपयोगिता । आनु- रूप्यं । कार्य्यकरणं । अभ्यासः । अनुशीलनं । चर्च्चा । “उपपत्तिपरित्यक्तशास्त्रानुष्ठानमोहितैः” । इति राजतरङ्गिणी । “अस्य नित्यमनुष्ठानं सम्यक् कुर्य्यादतन्द्रित” । इति मनुः । शास्त्रविहितकर्त्तव्यादिसम्पादनम् । “किन्त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति” । इति उत्तरचरिते ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठान¦ न॰ अनु + स्था--भावे ल्युट् षत्वम्। विहितकर्म्मा-दिकरणे। अलब्धलाभादिकमभिधाय
“एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम्। अस्य नित्यमनुष्ठानं सम्यक् कुर्य्यादत-न्त्रित” इति मनुराह स्म
“उपरुध्यते तपोऽनुष्ठानम्” शकु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठान¦ n. (-नं)
1. Commencement or course of proceeding.
2. Fixing or establishing, proof.
3. Propriety, fitness.
4. Doing or engaging in any thing. E. अनु according to, स्था to stay, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठानम् [anuṣṭhānam], 1 Doing, performance, practice, execution, accomplishment &c.; obeying, acting in conformity to; उपरुध्यते तपो$नुष्ठानम् Ś.4. practice of religious austerities; को$पि वधोपायश्चिन्त्यो यस्यानुष्ठानेन Pt.1; नानुष्ठानैर्विहीनाः स्युः कुलजा विधवा इव Pt.2.95; धर्मे स्वयमनुष्ठानं कस्यचित्तु महात्मनः H.1.99; शास्त्रानुष्ठानं वा Kau. A.1.6.

Commencing, undertaking, engaging in; यदि समुद्रेण सह वैरानुष्ठानं कार्यम् Pt.1.

Commencement or course of conduct, procedure, course of action; कथं न्याय्यमनुष्ठानं मादृशः प्रति- षेधतु U.5.21.

Practice of religious rites or ceremonies, any religious rite or ceremony; किंत्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति U.1.8; Mv.4.33. -नी Performance, doing &c. -Comp. -शरीरम् 'the body of action'; (according to the Sāṅkhya doctrine) the intermediate body between the सूक्ष्म or subtle and the स्थूल or gross body.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठान/ अनु-ष्ठान n. carrying out , undertaking

अनुष्ठान/ अनु-ष्ठान n. doing , performance

अनुष्ठान/ अनु-ष्ठान n. religious practice

अनुष्ठान/ अनु-ष्ठान n. acting in conformity to

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठान न
करना, का.श्रौ.सू. 4.1.25.

अनुष्ठान न.
अनुष्ठित करना, वैखा.गृ.सू. 1.1ः6।

"https://sa.wiktionary.org/w/index.php?title=अनुष्ठान&oldid=486361" इत्यस्माद् प्रतिप्राप्तम्