यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तःकरणम्, क्ली, (अन्तर्मध्यवर्त्ति करणं ज्ञानसाधनं, कर्म्मधारयः, कृ + करणे ल्युट् ।) अन्तरिन्द्रियं । धीन्द्रियं । तत्पर्य्यायः । मनः २ निगुः २ । इति त्रिकाण्डशेषः ॥ अस्य कार्य्यभेदान्नामचतुष्टयं, यथा, -- “मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरं । संशयो निश्चयो गर्व्वः स्मरणं विषया अमी” ॥ इति वेदान्तः ॥ (अस्योत्पत्तिर्यथा, -- “मिलितैस्तु तैः अन्तःकरणमेकं स्यात्” इति । तैः पञ्चभूतस्थ- सत्त्वांशैर्मिलितैः अन्तःकरणं भवतीत्यर्थः । “धनुर्भृतोऽप्यस्य दयार्द्रभाव- माख्यातमन्तःकरणैर्विशङ्कैः” । इति रघुवंशे ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तःकरण¦ न॰ कृ--करणे ल्युट् अन्तरभ्यन्तरस्थं करणं, कर्म्म॰,तद्वृत्तिपदार्थानां सुखादीनां करणं ज्ञानसाधनं

६ त॰वा। ज्ञानसुखादिसाधने आभ्यन्तरे मनोबुद्धिचित्तादि-पदाभिलप्यमाने इन्द्रिये। तच्चान्तःकरणम् वेदान्तिमतेचतुर्विधम्।
“मनो बुद्धिरहङ्कारश्चित्तं करणमान्त-रम्। संशयो निश्चयो गर्वः स्मरणं विषया इमे” इत्युक्तकार्य्यभेदात्। अन्यत्र व्यक्तमुक्तम्
“यदा तु संकल्प-विकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम्। स्याद्बुद्धिसंज्ञं च यदा तु वेत्ति सुनिश्चितं संशयरूपहीनम्। अनु-सन्धानरूपं तच्चित्तञ्च परिकीर्त्तितम्। अहंकृत्यात्मवृत्त्यातु तदहङ्कारतां गतमिति”। एतदनुसारेणैव शारादायामुक्तम्
“अन्तःकरणमात्मनः। मनोबुद्धिरहङ्कारश्चित्तञ्चेति प्रकी-र्त्तितमिति”। तस्य च ज्ञानादिप्रत्यक्षकरणत्वादन्तःकरण-त्वम्। तत्साधकमनुमानञ्चेत्थम् ज्ञानसुखादिप्रत्यक्षंस्वग्राहकेन्द्रियसापेक्षं प्रत्यक्षत्वात् रूपादिप्रत्यक्षवत्। नच चक्षुरादीनां तत्करणत्वं सम्भवति रूपादित्वाभावा-दित्यन्तःकरणसिद्धिरिति नैयायिकादयः। सांख्यादयस्तु[Page0195-b+ 38] महत्तत्त्वापरपर्य्यायमेवान्तःकरणमङ्गीचक्रुः। पञ्चतन्मा-त्रेभ्यो भूतेभ्यश्चाहङ्काररूपद्रव्यसिद्धिमुक्त्वा
“तेना-ऽन्तःकरणस्येति” सां॰ सू॰ तत्सिद्धिरुक्ता तदनुमाने चभाष्ये एवं प्रयोगादिकं दर्शितम्।
“अहङ्कारद्रव्यं निश्चय-वृत्तिमद्द्रव्योपादानकं निश्चयकार्यद्रव्यत्वात् यन्नैवंतन्नैवं यथा पुरुषादिरिति। अत्राप्ययं तर्कः, सर्वोऽपिलोकः पदार्थमादौ स्वरूपतो निश्चित्य पश्चादभिमन्यतेअयमहं, मयेदं कर्त्तव्यमित्यादिरूपेणेति, तावत् सिद्धमेव। तत्राहङ्कारद्रव्यकारणाकाङ्क्षायां वृत्त्योः कार्यकारणभावेनतदाश्रययोरेव कार्यकारणभावो लाघवात् कल्प्यते कारे-णस्य वृत्तिलाभेन कार्यवृत्तिलाभस्यौत्सर्गिकत्वादिति। यद्यपि अन्तःकरणमेकं तथापि वंशपर्वस्विवान्तरभेद-माश्रित्यान्तःकरणत्रये क्रमः, कार्यकारणभावश्चोक्तः योगो-पयोगिश्रुतिस्मृतिपरिभाषानुसारादिति मन्तव्यम्। तदुक्तंवाशिष्ठे।
“अहमर्थोदयो योऽयं चित्तात्मा वेदनात्मकः। एतच्चित्तद्रुमस्यास्य वीजं विद्धि महामते!॥ एतस्मात्प्रथमोद्भिन्नादङ्कुरोऽभिनवाकृतिः। निश्चयात्मा निराकारोबुद्धिरित्यभिधीयते॥ अस्य बुद्ध्यभिधानस्य याङ्कुरस्य प्रपी-नता। सङ्कल्परूपिणी तस्याश्चित्तचेतोमनोभिधा” इति। अहमर्थोऽग्तःकरणसामान्यम्। अत्र वाक्ये बीजाङ्कुर-न्यायेनैकस्यैवान्तःकरणवृक्षस्य वृत्तिमात्ररूपेण चित्ताद्यव-स्थाभेदाः क्रमिकास्त्रिविधाः परिणामा उक्ता इति। साङ्ख्यशास्त्रे च चिन्तनावृत्तिकस्य चित्तस्य बुद्धावेवान्तर्भावः। अहङ्कारस्य चात्र वाक्ये बुद्धावन्तर्भावः” इति॥ कारिकाया-मपि
“अन्तःकरणं त्रिविधं दशधा वाह्यं त्रयस्य विष-याख्यमिति” त्रैविध्यमुक्त्वा
“सान्तःकरणा बुद्धिः सर्वं विषय-मवगाहते यस्मात्, तस्मात्त्रिबिधं करणंद्वारि, द्वाराणि शेषा-णीति” तत्त्रयस्यैव प्राधान्यमुक्तम्। एवञ्च पुरुषस्यसन्निधिमात्रादधिष्ठातृत्वं गौणं मुख्यमधिष्ठातृत्वन्तुअन्तःकरणस्यैव यथोक्तम्
“अन्तःकरणस्य तदुज्ज्वलितत्वा-ल्लौहवदधिष्ठातृत्वम्” सां॰ सू॰॥
“अन्तःकरणस्यानुपच-रितमधिष्ठातृत्वं सङ्कल्पादिद्वारकं प्रत्येतव्यम्। नन्वधि-ष्ठातृत्वं घटादिवदचेतनस्य न युक्तं तत्राह। लौह-वत् तदुज्ज्वलितत्वादिति। अन्तःकरणं हि तप्तलौहव-च्चेतनोज्ज्व लितं भवति। अतस्तस्य चेतनांयमानतयाधि-ष्ठातृत्वं घटादिव्यावृत्तमुपपद्यत इत्यर्थः। नन्वेवं चैतन्येना-न्तःकरणस्योज्ज्व लने चितेः सङ्गित्वमग्निवदेव स्यादितिचेन्न नित्योज्ज्वलचैतन्यसंयोगविशेषमात्रस्य संयोगविशेष[Page0196-a+ 38] जन्यचैतन्यप्रतिविम्बस्य वान्तःकरणोज्ज्वलनरूपत्वात्। न तुचैतन्यमन्तःकरणे संक्रामति येन सङ्गिता स्यात्॥ अग्ने-रपि हि प्रकाशादिकं न लौहे संक्रामति, किन्त्वग्नि-संयोगविशेष एव लौहस्योज्ज्वलनमिति। नन्वेवमपि संयो-गेन परिणामित्वमिति चेन्न सामान्यगुणातिरिक्तधर्म्मोत्प-त्तावेव परिणामव्यवहारादिति। अयं च संयोगविशेषो-ऽन्तःकरणस्यैव सत्त्वोद्रेकरूपात् परिणामाद्भवतीति फल-बलात् कल्प्यते पुरुषस्यापरिणामित्वेन संयोगे तन्निमित्त-कविशेषासम्भवादिति। अयमेव च संयोगविशेशो बुद्ध्या-त्मनोरन्योऽन्यप्रतिविम्बने हेतुरिति” सा॰ प्र॰ भा॰। अन्तःकरणस्य च वृत्तयस्त्रिधा
“शान्ताघोरास्तथामूढामनसो वृत्तयस्त्रिधा। वैराग्यं क्षन्तिरौदार्य्यमित्याद्याःशान्तवृत्तयः। तृष्णा स्नेहोरागलोभावित्याद्या घोरवृत्तयः। सम्मोहोभयमित्याद्या कथिता मूढवृत्तयः” इति तास्वेववृत्तिषु ज्ञानत्वोपचारात् तत्साधनत्वमिन्द्रियाणाम्
“अन्तः-करणवृत्तौ ज्ञानत्वोपचारादिति” पञ्चपादिकाविवरणम्। शान्तादीनामेव सात्विक्यादिरूपेण व्यवहारः। ताश्च वृत्तयः
“क्रमशोऽक्रमशश्च वृत्तय इति सां॰ सू॰ उक्तेः युगपदपिभवन्तीति सांख्यादयः। नैयायिकादयस्तु
“अयौपद्याज्ज्ञा-नाना” मित्युक्तेः क्रमिकत्वमेवाङ्गीचक्रुः। तच्चान्तःकरणमणु-परिमाणमिति नैयायिकादयः। यावद्देहकार्य्य कारित्वात्जलावगाहे एकदैव सर्वदेहगतशैत्याद्युपलब्धेर्मध्यपरिमाण-मिति सांख्यादयः। तेषां च चतुर्ण्णां चन्द्रचतुर्मुखश-ङ्कराच्युता अधिष्ठातारोदेवा इति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तःकरण¦ n. (-णं) The internal and spiritual part of man, the seat of thought and feeling, the mind, the heart, the conscience, the soul. E. अन्तर् within, and करण an organ.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तःकरण/ अन्तः--करण n. the internal organ , the seat of thought and feeling , the mind , the thinking faculty , the heart , the conscience , the soul.

"https://sa.wiktionary.org/w/index.php?title=अन्तःकरण&oldid=486474" इत्यस्माद् प्रतिप्राप्तम्