यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरायः, पुं, (अन्तरं व्यवधानं एति, अन्त + इन् + अच्, षष्ठीतत्पुरुषः ।) विघ्नः । इत्यमरः ॥ (“स चेत् स्वयं कर्म्मसु धर्म्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः” । इति रघुवंशे ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराय पुं।

विघ्नः

समानार्थक:विघ्न,अन्तराय,प्रत्यूह

3।2।19।2।2

हिंसाकर्माभिचारः स्याज्जागर्या जागरा द्वयोः। विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराय¦ त्रि॰ अन्तरं व्यवधानमयते अय--अच्। व्यव-धानकारके।
“अस्य ते वाणपातपथवर्त्तिनः कृष्णसार-स्यान्तरायौ तपस्विनौ संवृत्तौ” शकु॰। विघ्ने च
“त्वमन्तरायो भवसि च्युतो विधिरिति” रघुः।
“वैरीन चेद् वेपथुरन्तराय” इति सा॰ द॰
“समाध्यन्तरायाश्च लयादयः वेदान्तसारे दर्शिताः यथा।
“अस्याङ्गिनोनिर्विकल्पकस्य लयविक्षेपकषायरसास्वाद-लक्षणाश्चत्वारोविघ्नाः सम्भवन्ति। लयस्तावदखण्डवस्त्वन-वलम्बनेन चित्तवृत्तेर्निद्रा। अखण्डवस्त्वनवलम्बनेनचित्तवृत्तेरन्यावलम्बनं विक्षेपः। लयविक्षेपणाभावेऽपिचित्तवृत्ते रागादिवासनया स्तब्धीमावादखण्डवस्त्वनवलम्बनंकषायः। अखण्डवस्त्वनवलम्बनेनापि चित्तवृत्तेः सवि-कल्पानन्दास्वादनं रसासास्वादः, समाध्यारम्भसमये सवि-कल्पानन्दास्वादनं वा। अनेन विघ्नचतुष्टयेन रहितंचित्तं निर्व्वातदीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठतेयदा, तदा निर्व्विकल्पकसमाधिरित्युच्यते। तदुक्तम्।
“लयेसंबोवयेत् चित्तं विक्षिप्तं शमयेत्पुनः। सकषायं विजा-नीयात् शमप्राप्तं न चालयेत्। नास्वादयेद्रसं तत्र निःसङ्गःप्रज्ञया भवेत्” इति। योगशास्त्रोक्ताः प्रधानपुरुषसाक्षात्-कारात् प्राम्भवाः प्रातिभादयः सिद्धयः विवेकसाक्षात्कार-स्योपसर्गापरपर्य्याया अन्तरायाः यथोक्तं पातञ्जलसूत्रे
“ततःप्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते” इत्यनेनप्रातिभादिसिद्धीरुक्त्वा
“ते समाधावुपसर्गा व्युत्थाने सिद्धयइति” अयमर्थः। योगजशुक्लधर्म्मानुगृहीतेन मनोमात्रेणसर्वगोचरज्ञानं प्रातिभसिद्धिः। दिव्यानां शब्दस्पर्शरूप-रसगन्धानां ग्रहणे योगजधर्म्मानुगृहीतानि श्रवणादीनियथाक्रमं समर्थानि यदा भवन्ति तदा श्रावणवेदनादर्शास्वाद-वार्त्ताख्याः सिद्धयः। तथा च दिव्यशब्दग्रहणे यदायोगिनः श्रवणं समर्थं भवति तदा श्रावणमिति संज्ञाएवं दिव्यस्पर्शग्रहणसमर्था त्वक् वेदनासंज्ञा, दिव्यरूपग्रहणेसमर्थं नेत्रं दर्शसंज्ञम्। दिव्यरसास्वादे समर्था रसना[Page0200-b+ 38] आस्वादसंज्ञा, दिव्यगन्धग्रहणे समर्थं घ्राणं वार्त्तासंज्ञा। ते प्रातिभादयः निःश्रेयसफले समाधौ तस्य योगिनःव्युत्थानसमये योगविरामकाले जायमानाः उपसर्गाभवन्ति। अतो मोक्षार्थी तानुपेक्षेतेति उपदेशप्रयोजनम्नह्यात्मसाक्षात्कारं विना सिद्धिकोट्यापि कृतकृत्यताभवतीति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराय¦ m. (-यः) Obstacle, impediment. E. अन्तर between, इण to go, and घञ् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराय/ अन्तर्--आय See. अन्तर्-इ.

अन्तराय See. अन्तर्-इ.

अन्तराय/ अन्तर्-आय m. intervention , obstacle.

"https://sa.wiktionary.org/w/index.php?title=अन्तराय&oldid=486554" इत्यस्माद् प्रतिप्राप्तम्