यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नप्राशनम्, क्ली, (अन्नस्य प्राशनं भोजनं यस्मिन् तत् । अन्न + प्र + अश + भावे ल्युट् ।) षष्ठे मासि अष्टमे वा बालकस्य पञ्चमे मासि सप्तमे वा बालिकायाः प्रथमान्नभक्षणरूपसंस्कारः । इति स्मृतिः ॥ तस्य क्रमः । शोभनदिने कृतस्नानः कृत- वृद्धिश्राद्धः पिता शुचिनामानमग्निं संस्थाप्यं विरूपाक्षजपान्तां कुशण्डिकां समाप्य प्रकृत- कर्म्मारम्भे प्रादेशप्रमाणां धृताक्तां समिधं तूष्णी- मग्नौ हुत्वा महाव्याहृतिहोमं कुर्य्यात् । ततः आज्येन तत्तन्मन्त्रैः पञ्चाहुतीर्जुहुयात् । ततः पञ्चप्राणानां होमः । ततो महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा प्रकृतं कर्म्म समाप्य उदीच्यं शाट्यायन- होमादिवामदेव्यगानान्तं कर्म्म निर्व्वर्त्य मन्त्रेण कुमारस्य मुखे अन्नं दद्यात् । ततः कर्म्मकार- यितृब्राह्मणाय दक्षिणां दद्यात् । इति भवदेव- भट्टः ॥ तस्य विहितदिनादि यथा, -- “ततोऽन्नप्राशनं षष्ठे मासि कार्य्यं यथाविधि । अष्टमे वाथ कर्त्तव्यं यद्वेष्टं मङ्गलं कुले” ॥ षष्ठ इति मुख्यः कल्पः प्रागुक्तन्यायात् । कृत्य- चिन्तामणौ । “अन्नस्य प्राशनं कार्य्यं मासि षष्ठेऽष्टमे बुधैः । स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः ॥ द्वादशीसप्तमीनन्दारिक्तासु पञ्चपर्ब्बसु । बलमायुर्यशो हन्यात् शिशूनामन्नभक्षणं” ॥ भुजबलभीमे । “षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ सौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे । प्राजेशादिति पौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरै- राग्नेयाप्पतिपित्र्यभैश्च नितरामन्नादिभक्षं शुभं” ॥ युगैरिति प्राजेशादौ प्रत्येकं सम्बध्यते । तथा- त्रापि तिथ्यादिविद्धमृक्षं विवर्ज्जयेत् । “ष्टषद्वन्द्वधनुर्म्मीनकन्यालग्नेऽन्नभक्षणं । त्रिकोणाष्टकयूकान्त्यग्रहा यद्वत्तथाफलं ॥ दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे” । मार्कण्डेयः । “देवता पुरतस्तस्य पितुरङ्कगतस्य च । अलङ्कृतस्य दातव्यमन्नं पात्रे च काञ्चने ॥ मध्वाज्यकनकोपेतं प्राशयेत् पायसं ततः । कृतप्राशनमुत्सङ्गे मातुर्ब्बालन्तु तं न्यसेत् ॥ देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्व्वशः । शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणं ॥ प्रथमं यत् स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा । जीविका तस्य बालस्य तेनैव तु भविष्यति” ॥ इति ज्योतिस्तत्त्वं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नप्राशन¦
“न॰ प्रकृष्टं विधानेन प्रथममाशनं प्राशनं

६ त॰। षष्ठाष्टममासादौ वालकादेर्विधानेन प्रथममन्नभोजने।
“षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले” इति मनुः।
“ततोऽन्नप्राशनं षष्ठे मासि कार्य्यं यथाविधि।
“अष्टमेवास्य कर्त्तव्यं यद्वेष्टं मङ्गलं कुले” इति स्मृत्यन्तरम्। षष्ठइति मुख्यकल्प इति रघु॰। तत्रायं विशेषः कृत्य-चिन्तामणौ।
“अन्नस्य प्राशनं कार्य्यं मासि षष्ठेऽष्टमेबुधैः स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ” मुनिः। तत्र विहिततिथ्यादि यथा
“पष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ सौम्या-दित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे। प्राजेशादितिपौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरैराग्नेयाप्पतिपैत्र्यभैश्च नि-तरामन्नादिभक्षः शुभ इति, भुज॰ भी॰। प्राजेशादयश्चरोहिण्यादयः

४ ,

५ ,

७ ,

८ ,

२७ ,

१ ,

२२ ,

२३ ,

१३ ,

१४ ,

१५ ,

१६ ,

१७ ,

१८ ,

१२ ,

२१ ,

२६ ,

३ ,

२० ,

१० ,। तथाचैतन्मि-तानि नक्षत्राणि तत्र। विहितानि। तत्र वर्ज्यानि।
“द्वादशीसप्तमीनन्दारिक्ताषु पञ्चपर्वसु। बलमायुर्य्यशोह-न्यात् शिशूनामन्नभक्षणम्। कृत्यचि॰।
“वेधं सर्वत्रवर्ज्जये” दित्युक्तेर्नक्षत्रवेधस्यापि तत्र वर्ज्यता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नप्राशन¦ n. (-नं) A religious ceremony, in which after presenting obla- tions to fire, a little rice is, for the first time, put into the child's mouth; it should take place between the fifth and eighth month. E. अन्न, and प्राशन feeding.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नप्राशन/ अन्न--प्रा n. putting rice into a child's mouth for the first time (one of the संस्कारs ; See. संस्कार) Mn. ii , 34 Ya1jn5. i , 12.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नप्राशन न.
पकाये हुए भोजन को बच्चे को पहली बार खिलाने का कृत्य (बच्चे को अन्न खिलाना), जिसे जन्म के छठे महीने में अनुष्ठित किया जाता है, शां.गृ.सू. 1.27.1; आश्व.गृ.सू. 1.16.1; पिता बकरे के मांस अथवा तीतर के मांस अथवा मछली को पकाकर भोजन बनाता है, यदि वह शक्ति आदि की कामना वाला है। भोजन को दधि, मधु एवं घी से मिश्रित किया जाता है एवं बच्चे को खाने के लिए दिया जाता है। वह अगिन् में आहुति डालता है। अवशिष्ट भाग का भक्षण माँ करती है, शां.गृ.सू. 1.27.111; आश्व.गृ.सू. 1.16.1-16 (लड़की के लिए यह कृत्य अन्तर्वर्त अन्नप्राशन 91 बिना मन्त्र के सम्पन्न किया जाता है); पार.गृ.सू. 1.19.113।

"https://sa.wiktionary.org/w/index.php?title=अन्नप्राशन&oldid=486714" इत्यस्माद् प्रतिप्राप्तम्