यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपादानम्, क्ली, (अपादीयते विश्लिष्यतेऽस्मात्, अप + आ + दा + ल्युट् ।) यस्माद्वस्तुनो वस्त्वन्तरस्य चलनं भवति तत् । षट्कारकमध्ये पञ्चमकारकं । तत्रै- कादशार्थे पञ्चमी स्यात् यथा । यतोऽपायः । यथा वृक्षात् पर्णं पतति १ । यतो भीः । यथा व्याघ्रात् बिभेति २ । यतो जुगुप्सा । यथा पापात् जुगु- प्सते धीरः ३ । यतः पराजयः । यथा सिंहात् पराजयते हस्ती ४ । यतः प्रमादः । यथा धर्म्मात् प्रमाद्यति नीचः ५ । यत आदानं । यथा भूपात् धनमादत्ते विप्रः ६ । यतो भूः । यथा पितुः पुत्त्रो जायते ७ । यतस्त्राणं । यथा व्याघ्रात् गां रक्षति गोपः ८ । यतो विरामः । यथा जपाद्विर- मति विप्रः ९ । यतोऽन्तर्द्धिः । यथा गुरोरन्तर्द्धत्ते शिष्यः १० । यतो वारणं । यथा यवेभ्यो गां वारयति ११ । इति मुग्धबोधटीकायां दुर्गा- दासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपादान¦ न॰ अपगमाय आदीयतेऽवधित्वेन अप + आ + दा-ल्युट्।
“ध्रुवमपायेऽपादानमिति”

१ व्याकरणपरिभाषिकारकभेदे। यथोक्तं हरिणा
“अपाये थदुदासीनं चलं वायदि वाऽचलम्। ध्रुवमेवातदावेशात्तदपादानमुच्यते” पततोध्रुव एवाश्चो यस्मादश्वात् पततत्यसौ। तस्याप्यश्वस्य प्रतनेकुड्यादि ध्रुवमुच्यते। मेषान्तरक्रियापेक्षमवधित्वंपृथक्पृथक्। मेषयोः स्वक्रियापेक्षं कर्तॄत्वञ्च पृथक् पृथक्” इति तच्चापा-दानं त्रिविधम्।
“निर्द्दिष्टविषयं किञ्चिदुपात्तविषयं तथा। अपेक्षितक्रियञ्चेति त्रिधापा{??}नमिष्यते” इति हर्य्युक्तेः। निर्द्दिष्टः श्रूयमाणो विषयो यस्य तत्, स्वापेक्षितश्रूयमाण-क्रियमित्यर्थः यथा वृक्षात् पत्रं पततीत्यादौ, अपादानविषयी-भूतं पतनं हि तत्रश्रूयमाणम्। द्वितीयम् उपात्तः गृहीतःधात्वन्तरार्थघटकीभूत इति यावत् विषयो यस्येति व्युत्पत्त्यास्वविषयक्रियाघटितश्रूयमाणक्रियान्तरमित्यर्थः यथा मेघात्विद्योतते विद्युदित्यादौ निःसरणपूर्ब्बकविद्योतनार्थविद्योत-तियोगे मेघादेस्तदेकदेशे निःसरणेऽपादानत्वम्। अपेक्षित-क्रियं तृयीयं यया कुतो भवानिति प्रश्नवाक्ये, पाटलिपुत्रा-दित्युत्तरवाक्ये च कुत इति पाटलि{??}त्रादित्यनयोरपेक्षित-गत्यादिक्रियापेक्षत्वात् अपेक्षितक्रियापादानत्वम्।
“अपा-दाने पञ्चमीति पा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपादान¦ n. (-नं)
1. Removal, ablation, the sense of the fifth or ablative case.
2. Taking away. E. अप from, आदान taking.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपादानम् [apādānam], 1 Taking away, removal; ablation; a thing from which another is removed.

(in gram.) The sense of the ablative case; ध्रुवमपाये$पादानम् P.I.4.24; अपादाने पञ्चमी II.3.28; अपाये यदुदासीनं चलं वा यदि वा$चलम् । ध्रुवमेव तदावेशात्तदपादानमुच्यते ॥ Hari.; अपादान is of three kinds: निर्दिष्टविषयं किंचिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमिष्यते ॥ e. g. वृक्षात् पत्रं पतति, मेघाद्विद्योतते विद्युत्, & कुतो भवान्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपादान/ अपा n. taking away , removal , ablation

अपादान/ अपा n. a thing from which another thing is removed

अपादान/ अपा n. hence the sense of the fifth or ablative case Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=अपादान&oldid=487204" इत्यस्माद् प्रतिप्राप्तम्