अप्रमेय
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्रमेय¦ त्रि॰ प्रमातुं ज्ञातुं परिच्छेत्तुं वा योग्यं न॰ त॰
१ अपरिच्छेद्ये
२ बहुसंख्यकवीर्य्यवति
३ इदमित्थमितिनिश्चेतुमशक्ये
“त्वमेकोह्यस्य सर्व्वस्य विधानस्य स्वय-म्भुवः। अचिन्त्यस्याप्रमेयस्य कार्य्यतत्त्वार्थवित्प्रभुः” मनुः
“स्वयंभुवोऽपौरुषस्य विधानस्य वेदस्य” कुल्लू॰।
“अश-कञ्चाप्रमेयञ्च वेदशास्त्रभिति स्थितिः” मनुः।
४ ब्रह्मणिन॰ केनापि प्रमाणेन तस्य प्रमातुमशक्यत्वात्। वेदान्ति-मते हि प्रमाणानि षट् प्रत्यक्षानुमानशब्दोपमानार्था-पत्तियोग्यानुपलब्धिभेदात् तत्र परब्रह्मणः न प्रत्यक्षप्रमाण-चक्षुरादिगम्यता रूपाद्यभावात्
“अशब्दमस्पर्शमरूपमव्ययंतथाऽरसं नित्यमगन्धवच्च यदिति” श्रुतौ तस्य रूपाद्य-भावस्योक्तेः। नापि अनुमानगम्यता व्याप्तिलिङ्गाद्यभावात्
“असङ्गोऽयं पुरुष” इति श्रुत्या तस्य सर्वसङ्गशून्यतोक्तेःनाप्युपमानगम्यता निर्द्धर्म्मकत्वेन, तद्भिन्नत्वे सति तद्गत-भूयोधर्म्मवत्त्वलक्षणस्य सादृश्यस्य तत्राभावात्। नवार्थापत्तिगम्यत्वम् किञ्चिद्वस्तु विना अनुपपद्यमानस्यैवा-र्थस्यार्थापत्तिप्रमाणवेद्यवया तद्भिन्नवस्त्वभावेन तत्र तदसम्भ-वात्। न्यायमते च अर्थापत्तेर्व्यतिरेकव्याप्तिहेतुकानु-मानेष्वन्तर्भावेण तल्लिङ्गस्य तत्राभावात्। योग्यानुलब्धे-श्चाभावमात्रप्रमाणत्वांत् परब्रह्मणश्च सदात्मकत्वेनाभावरूपत्वाभावात्। नापि शब्दप्रमाणवेद्यत्वम् तत्रशाब्दबोधोपायशक्त्यादेरभावात् अतएव
“यद्वाचा न मनुतेयेन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” इति श्रुत्याऽस्य वाग्विषयत्वं निराकृतम्। न च लक्षणयातद्वोधः, शक्यसम्बन्धरूपलक्षणायाः निस्मम्बन्धे तस्मिन्न-[Page0263-b+ 38] प्रवृत्तेः। अतएव
“ब्रह्मन्! ब्रह्मण्यनिर्देश्ये निर्गुणेगुणवृत्तयः। कर्थ चरन्ति? श्रुतयः साक्षात् सदसतःपरे” इति भागवते गुणवृत्तिश्रुतिगोचरताशून्यत्वमस्यो-क्तम्। न च प्रमाणागोचरत्वे तस्य कथं सिद्धिः? कथं वा
“तन्त्वौपनिषदं पुरुषं वेदेति” श्रुतौ
“शास्त्रयोनित्वादिति” शा॰ सूत्रे च तस्य उपनिषद्वेद्यत्वमुक्तं संगच्छताम्?शास्त्रजनितबुद्ध्यैव तस्य विषयीकरणात् तथात्वसङ्गतेः। तथाच शास्त्रजन्यान्तःकरणविषयत्वमेव तस्य न तु तदवच्छिन्न-चैतन्यविषयतापि यथोक्तं
“फलव्याप्यत्वमेवास्य शास्त्र-कृद्भिर्निराकृतम् ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षि-तेति” फलति प्रतिविम्बति बुद्धिवृत्तौ फलं चिदाभासस्तद्व्या-प्यत्वं तद्विषयत्वं तेन यथा घटपटादीनां तदाकारबुद्धिवृत्तिप्रतिफलितेन चिदाभासेनैव प्रकाश्यता, न तथा, ब्रह्मणः स्वप्र-काशतया तस्य इतराप्रकाश्यत्वात् किन्तु स्पयं प्रकाश्यता न तुतत्रान्यापेक्षास्ति। परन्तु स्वाज्ञाननाशायैव बुद्धिवृत्तेरपेक्षा-मात्रं सा च शब्द जनितेति उपनिषद्वेद्यता इत्थमुभयश्रुति-सामञ्जस्यम्। वाचस्पतिमते तु शब्दादपि अखण्डाकाराकाचित् दशमस्त्वमसीत्यादिवत् मनोवृत्तिरुदेति तद्विषयत्वा-दस्य शास्त्रवेद्यता।
“मनसैवानुद्रष्टव्यमिति” श्रुतेस्तस्यमनोमात्रवेद्यत्वेऽपि
“तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्यसाधनमिति” शास्त्रात् मनःसस्कारे च शास्त्रापे-क्षणात् शास्त्रवृत्तिवेद्यता। न च मनोवृत्तिवेद्यत्वेऽप्रमेयत्व-हानिः। असंस्कृतमनोविषयत्वाभावेनैव तथात्वात्
“अवाङ्-मनसगोचरमिति” वाक्यस्यापि तत्रैव तात्पर्य्यात्। मनो-विषयत्वोक्तिरपि अज्ञाननाशार्थमनोवृत्तिमात्रवेद्यताभि-प्रायेण, तदवच्छिन्नचिदाभासविषयत्वाभावाच्चाप्रमेयता
“यन्मनसा न मनुते येन मनोऽनुमन्यते” इति श्रुतेस्तथार्थ-त्वात्। जगत्कर्त्तृत्वेन ईश्वरस्यानुमानेऽपि कूटस्थस्य तदनु-मानगम्यत्वाभावात् ईश्वरस्यैव श्रुतिप्रमाणकत्वेन उपनिष-द्वेद्यतोक्तिः। तदुत्तरं मननादिना श्रुतिवाक्यतात्पर्य्याव-धारणेनाखण्डब्रह्माकारा चित्तवृत्तिरुदेति इति न काचि-दनुपपत्तिः। नैयायिकादिमते तु तद्गुणगणस्य परिमातु-मशक्यत्वात् दुष्टाशगावेद्यत्वाच्च अप्रमेयत्वमिति। प्र + मि + क्षेपेयत् न॰ त॰। अपरिक्षेप्ये
“यदाश्रौषं वासुदेवार्ज्जुनौतो तथा धनुर्गाण्डिवमप्रमेयम्” भा॰ आ॰ प॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्रमेय¦ mfn. (-यः-या-यं) Unbounded, immeasurable. E. अ neg. प्रमेय measur- able.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्रमेय [apramēya], a.
Immeasurable, unbounded, boundless; ˚महिमा; येषां वेद इवाप्रमेयमहिमा धर्मे वसिष्ठो गुरुः Mv.4.3.
That which cannot be properly ascertained, understood &c.; inscrutable, unfathomable (of person or thing); अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभुः Ms.1.3;12.94.
Not to be proved or demonstrated (as Brahman). -यम् Brahman. -Comp. -अनुभाव a. of unlimited might.-आत्मन् 'of inscrutable spirit' epithet of Śiva.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्रमेय/ अ-प्रमेय mfn. immeasurable , unlimited , unfathomable Mn. i , 3 and xii , 94 , etc.
अप्रमेय/ अ-प्रमेय mfn. not to be proved.