यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लम्, क्ली, (अम + क्ल ।) तक्रं । इति राजनिर्घण्टः ॥

अम्लः, पुं, (अम + क्ल ।) षड्रसमध्ये रसविशेषः । टक इति भाषा । तोयाग्निगुणबाहुल्यादम्लः । इति सुश्रुतः । अस्य गुणाः । शाकवद्दोषकारित्वं । हृद्यत्वं । रुच्यग्निरक्तमांसकारित्वं । शीतलत्वं । वायुनाशित्वं । स्निग्धोष्णत्वं । कटुरसतोऽधिकोष्ण- वीर्य्यत्वं । जिह्वोद्वेगकारित्वञ्च । इति राजवल्लभः ॥ अस्य दन्तोद्वेगकारित्वगुणोऽप्यस्ति । अपि च । प्रीत्यग्निपटुताकारित्वं । प्रपाचनत्वं । इति राज- निर्घण्टः ॥ * ॥ तदतिशयभक्षणगुणाः । पाचकत्वं । पित्तश्लेष्मवान्तिक्लेदकारित्वं । लघुत्वं । उष्णत्वं । वहिःशीतत्वं । वायुनाशित्वञ्च । इति राजवल्लभः ॥ भ्रान्तितुष्टिकफपाण्डुदोषकार्श्यकासकारित्वं । इति राजनिर्घण्टः ॥ तद्वति त्रि । इत्यमरः ॥ * ॥ अम्लवेतसः । इति राजनिर्घण्टः ॥ (यदाह वा- भटः ॥ “अम्लः क्षालयते मुखम् । हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः अम्लोऽग्निदीप्तिकृत् स्निग्धो हृद्यः पाचनरोचनः ॥ उष्णवीर्य्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः । करोति कफपित्तास्रं मूढवातानुलोमनम् ॥ सोऽत्यभ्यस्तस्तनोः कुर्य्याच्छैथिल्यं तिमिरं भ्रमं । कण्डुपाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान्” ॥ हारीतेन यदुक्तं तद्यथा, -- “जिह्वाक्लेदं जनयति तथा नेत्रनैर्म्मल्यकारी, बीभत्सं वा जनयति तथा वातरोगापहारी । कण्डूकुष्ठक्षतरुजकरै लोलितः शोफिने स्या- दम्लः प्रोक्तः पवनशमनोऽसृक्प्रकोपं तनोति” ॥ सुश्रुतश्चाह ॥ “अम्लो जरणः पाचनः पवननिग्रहणो- ऽनुलोमनः कोष्ठ-विदाही वहिःशीतः क्लेदनः प्रा- यशोहृद्यश्चेति । सएवंगुणोप्येक एवात्यर्थमुपसेव्य- मानो दन्तहर्ष-नयन-सम्मीलन-रोमसंवेजनकफ- विलयन-शरीरशैथिल्यान्यापादयति तथा क्षता- भिहत-दग्ध-दष्ट-भग्न-रुग्न-शून-प्रच्युतावमूत्रित-वि- सर्पित-छिन्न भिन्न-विद्धोत्पिष्टादीनि पाचयत्या- ग्नेयस्वभावात् परिदहति कण्ठमुरोहृदयञ्चेति” ॥ ० ॥ “अम्लोरसो भक्तं रोचयति, अग्निं दीपयति, देहं वृंहयति, जर्ज्जरयति, मनो बोधयति, इन्द्रियाणि दृढीकरोति, बलं बर्द्धयति, वातमनुलोमयति, हृदयं तर्पयति, आस्यं संस्रावयति, भुक्तमपकर्ष- यति, क्लेदं जनयति, प्रीणयति । लघुरुष्णः स्नि- ग्धश्च ॥ सएवंगुणोऽप्येकएवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति, तर्पयति, संमीलयति अक्षिणी, संवीजयति लोमानि, कफं विलापयति, पित्त- मभिवर्द्धयति, रक्तं दूषयति, मांसं विदहति, कायं शिथिलीकरोति, क्षीण-क्षत-कृशदुर्ब्बलानां श्वयथुमापादयति । अपि च क्षताभिहत-दष्ट- दग्ध-भग्न-शून -- च्युतावमूत्रित-परिसर्पित-मर्द्दित- च्छिन्न-विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरोहृदयञ्च” ॥ इति चरकः ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ल पुं।

अम्लरसः

समानार्थक:अम्ल,शुक्त

1।5।9।2।2

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः। तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥

पदार्थ-विभागः : , गुणः, रसः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ल¦ न॰ अम--क्ल। (घोल)

१ तक्रे। (टक)रसभेदे पु॰।

३ तद्वति त्रि॰
“कट्वम्ललवणात्युष्णतीक्ष्णरुक्षविदाहिनः” गीता। अम्लरसद्रव्याणि च सुश्रुते दर्शितानि यथा। दाडिमामलकमातुलुङ्गाम्रातककपित्थकरमर्द वदरकोलप्राची-नामलकतिन्तिडीककोशाम्रभव्यपारावतवेत्रफललकुचाम्लवेत-सदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकघान्याम्लप्रभृतीनिसमासेनाम्लोवर्गः”।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ल¦ mfn. (-म्लः-म्ला-म्लं) Sour, acid. m. (-म्लः) Sourness, acidity. f. (-म्ली) Wood sorrel, (Oxalis monadelpha.) n. (-म्लं) Sour curds. E. अम to be sick, क्ल Una4di affix, and ङीप् for the fem.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ल [amla], a. [अम्-क्ल Uṇ.4.18.] Sour, acid; कट्वम्ललवणा- त्युष्णतीक्ष्णरूक्षविदाहिनः (आहाराः) Bg.17.9.

म्लः Sourness, acidity, one of the six kinds of tastes or rasas q. v. यो दन्तहर्षमुत्पादयति मुखास्रावं जनयति श्रद्धां चोत्पादयति सो$म्लः (रसः) Suśr.

Vinegar.

Wood-sorrel.

= अम्ल- वेतस q. v.

The common citron tree.

Belch. -म्ली = चाङ्गेरी. -म्लम् Sour curds, butter-milk, with a fourth part of water. -Comp. -अक्त a. acidulated. -अङ्कुशः a variety of sorrel (˚वेतस्). -अध्यूषितम् a disease of the eye. -उद्गारः sour eructation. -काण्डम् N. of a plant (लवणतृण). -केशरः the citron tree. -गन्धि a. having a sour smell. -गोरसः sour butter-milk.-चुक्रिका, -चूडा a sort of a sorrel. -जम्बीरः, -निम्बकः the lime-tree. -त्वक् A seed of the tree Chirongia sapida (Mar. चारोळी). -नायकः = ˚वेतसः q. v. -निशा N. of a plant (शठी; Mar. आंबेहळद, कापूरकाचरी)-पञ्चक, -पञ्चफलम् a collection of five kinds of vegetables and fruits; कौलं च दाडिमं चैव वृक्षाम्लं चुक्रिका तथा । अम्लवेतसमित्येतदम्लपञ्चफलं स्मृतम् ॥ or जम्बीरं नागरङ्गं च तथाम्लं वेतसं पुनः । तिन्तिडीकं वीजपूरमम्लपञ्चफलं स्मृतम्. -पुत्रः N. of a plant (अश्मन्तक). (-त्री) तलाशीलता and क्षुद्राम्लिका-पनसः N. of a tree (लकुच). -पित्तम् acidity of stomach, sour bile. -पूरम् = वृक्षाम्लम् q. v. -फलः the tamarind tree. (-लम्) tamarind fruit. -भेदनः = ˚वेतस q. v. -मेहः a kind of urinary disease. -रस a. having an acid taste. (-सः) sourness, acidity. -रुहा a kind of betel (मालवदेशजनागवल्लीभेदः). -लोणिका, -लोणी, -लोलिका wood sorrel (Mar. चुका). -वर्गः a class of sour things including plants with acid leaves and fruits.-वल्ली N. of a plant (त्रिवर्णिका नाम कन्दविशेषः). -वाटकः hog-plum. -वाटिका a sort of betel. -वस्तूकः a sorrel (चुक्रम्). -वृक्षः the tamarind tree. -वेतसः a kind of sorrel (Mar. चुका, चांगेरी). -शाकः a sort of sorrel (शाकाम्ल, शुक्राम्ल, अम्ल, चुक्रिका, चूड) commonly used as a pot-herb. (-कम्) = वृक्षाम्लम्, चुक्रम्.

सारः the lime tree.

a sort of sorrel (˚वेतस).

N. of a plant (हिंताल). (-रम्) rice-water after fermentation (काञ्जिकम्). -हरिद्रा N. of a plant (˚निशा).

अम्लः [amlḥ], Sourness.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ल mfn. sour , acid Mn. v , 114 , etc.

अम्ल m. (with or without रस)acidity , vinegar Sus3r. , wood sorrel (Oxalis Corniculata) , Sus3r.

अम्ल mn. sour curds Sus3r.

"https://sa.wiktionary.org/w/index.php?title=अम्ल&oldid=488255" इत्यस्माद् प्रतिप्राप्तम्