यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोचकः, पुं, (न रोचयति प्रीणयति, रुच् + णिच् + ण्वुल्, नञ्समासः ।) रोगविशेषः । अरुचिरोग इति भाषा । तस्य निदानरूपे । “वातादिभिः शोकभयातिलोभ- क्रोधैर्मनोघ्नाशनरूपगन्धः । अरोचकाः स्युः परिशिष्टदन्तः कषायवक्त्रोऽस्य मतोऽनिलेन ॥ चूर्णीकृतानि यवशूकविमिश्रितानि ॥ क्षुद्रायुतानि वितरेन्मुखधावनार्थ- मन्यानि तिक्तकटुकानि च भेषजानि । मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः, क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः ॥ मूत्रासवैर्गुडकृतैश्च तथात्वरिष्टैः, क्षारासवैश्च मधुमाधवतुल्यगन्धैः । स्यादेषएव कफवातहते विधिश्च, शान्तिं गते हुतभुजि प्रशमाय तस्य ॥ इच्छाभिघातभयशोकहतेऽन्तरग्नौ, भावान् भवाय वितरेत् खलु शक्यरूपान् । अर्थेषु चाप्यपचितेषु पुनर्भवाय, पौराणिकैः श्रुतिपथैरनुमानयेत्तं ॥ दैन्यं गते मनसि बोधनमत्र शस्तं, यद्यत् प्रियं तदुपसेव्यमरोचके तु ॥ * ॥ रसगन्धौ समौ शुद्धौ दन्तीक्वाथेन भावयेत् । जम्बीरस्य रसैर्वापि आर्द्रकस्य रसेन वा ॥ मातुलुङ्गस्य तोयेन तस्य मज्जरसैर्बुधः । पश्चाद्विशोष्य सर्व्वांस्तान् टङ्गणञ्चावचारयेत् ॥ देवपुष्पं बाणमितं रसपादं मृतामृतं । मासमात्रञ्च तत् सर्व्वं नागरेण गुडेन वा ॥ सर्व्वारोचकशूलार्त्तिमामवातं सुदारुणं । सोऽयं निवारयत्याशु केशरी करिणं यथा” ॥ सुधानिधिरसः ॥ * ॥ इति वैद्यकरसेन्द्रसार- संग्रहः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोचक¦ पु॰ न रोचयति प्रीणयति ऋच + णिच्--ण्वुल् न॰ त॰। रोगभेदे यत्र क्वचिदपि द्रव्ये भोजनादौ न प्रीतिस्तादृशेरोगे स च सुश्रुतोक्तः। ‘ दोषैः पृथक् सहजचित्तविपर्य्य-याच्च भक्तायनेषु हृदि चावतते प्रगाढम्। नान्ने रुचि-र्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधंवदन्ति। हृच्छूलपीडनयुतं विरसाननत्वं वातात्{??}लिङ्गमरोचके तु। हृद्दाहशोषबहुता{??}[Page0362-a+ 38] मूर्च्छा सतृड् भवति पित्तकृते तथैव। कण्डू गुरुत्वकफ-संस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु। सर्व्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदयेसमुदीरयन्ति। संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतेभवति सोऽशुचिदर्शनाच्च” इति।
“गुल्मान् प्लीहोदरंकालं हलीसकमरोचकम्” इति सुश्रुतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोचक¦ m. (-कः) Indigestion, loss of appetite. E. अ neg. रोचक digestion.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोचक [arōcaka], a. (-चिका f.)

Not shining or bright.

Causing loss of appetite, producing loathing or disgust.-कः Loss of appetite; disgust, loathing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरोचक/ अ-रोचक mfn. not shining , Kaus3. , causing want of appetite or disgust Sus3r.

अरोचक/ अ-रोचक m. want or loss of appetite , disgust , indigestion Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=अरोचक&oldid=488522" इत्यस्माद् प्रतिप्राप्तम्