यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्शः, [स्] क्ली, (ऋ + असुन्, शुट् ।) स्वनाम- ख्यातपायुरोगः । तत्पर्य्यायः । दुर्नामकं २ । इत्य- मरः ॥ दुर्नाम ३ गुदकीलः ४ गुदाङ्कुरः ५ । इति राजनिर्घण्टः ॥ अनामकं ६ । इति शब्द- रत्नावली ॥ यथा । अथार्शोऽधिकारः । तत्रार्शसः सन्निकृष्टनिदानान्याह । “पृथग्दोषैः समस्तैश्च शोणितात् सहजानि च । अर्शांसि षट्प्रकाराणि विद्याद्गुदवलित्रये” ॥ केचिद्रुधिरस्यापि दोषत्वं मन्यन्ते । तन्मतमाश्रि- ग्राह । शोणितादिति । सहजानि शरीरेण सह जातानि । सङ्ख्याञ्चाह । षट्प्रकाराणीति । गुद- वलित्रये सार्द्धचतुरङ्गुलं गुदस्य मानं तस्यावयव- भूतास्तिस्रो वलयः शङ्खावर्त्तनिभा उपर्य्युपरि सन्ति । तासां नाम प्रवाहिणी विसर्जनी संव- रणी चेति । तत्र गुदौष्ठोऽर्द्धाङ्गुलमानस्तदूर्द्ध्व- मङ्गुलमाना प्रथमा वलिः । सार्द्धैकाङ्गुलमाना द्वितीया । तृतीया च तावती । उक्तञ्च । “अर्द्धाङ्गुलप्रमाणेन गुदौष्ठं परिचक्षते । गुदौष्ठादङ्गुलं चैकं प्रथमान्तु वलिं विदुः ॥ सार्द्धैकाङ्गुलमानेन पृथगन्ये प्रकीर्त्तिताः” ॥ * ॥ अथ वातार्शसो विप्रकृष्टं निदानमाह । “कषायकटुतिक्तानि रूक्षशीतलघूनि च । प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथूनसेवनं ॥ लङ्घनं देशकालौ च शीतौ व्यायामकर्म्म च । शोको वातातपस्पर्शो हेतुर्व्वातार्शसां मतः” ॥ समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः । सिद्धं छागीपयो दद्याद् गुदजे शोणितात्मके” ॥ समङ्गा लज्जालुः । मोचाह्वो मोचरसः । तिरीटो लोध्रः । चन्दनमत्र रक्तं । समङ्गादिदुग्धं ॥ ७ ॥ “भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः । बन्धनात् सुदृढं सूत्रं छिनत्त्यर्शोभगन्दरं” ॥ क्षारसूत्रं ॥ ८ ॥ “नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि । क्रियामर्शःसु कुर्व्वीत तत्र तत्र यथोदितां ॥ चर्म्मकीलन्तु संछिद्य दहेत् क्षारेण चाग्निना । वेगावरोधस्त्रीपृष्ठयानान्युत्कटकाशनं ॥ यथास्वं दोषलञ्चान्नमर्शसः परिवर्ज्जयेत्” । इत्यर्शोऽधिकारः ॥ * ॥ इति भावप्रकाशः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्शस् नपुं।

गुदरोगः

समानार्थक:दुर्नामक,अर्शस्

2।6।54।2।6

व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्. कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

अर्शस् वि।

मूलव्याधिः

समानार्थक:अर्शोरोग,अर्शस्

2।6।59।1।4

दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतोऽर्शसः। वातकी वातरोगी स्यात्सातिसारोऽतिसारकी॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्श(र्स)स्¦ न॰ ऋ--असुन् शुठ् (सुठ् दन्तादिरित्यन्ये)। बलिकाकारे गुह्यस्थरोगभेदे यथाह सुश्रुतः
“षड-र्शंसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानिचेति॥ तत्रानात्मवतां यथोक्तैः प्रकोपणैर्ब्धिरुद्धाध्यशन-स्त्रीप्रसङ्गोत्कटुकासनपृष्ठयानवेगविधारणादिभिर्व्विशेषैः प्रकुपिता दोषा एकशो द्विशः समस्ताः शोणितसहिता वायथोक्तं प्रसृताः प्रधानधमनीरनुप्रपद्याऽधोगत्वा गुदमा-गम्य प्रदुष्य बलीर्म्मांसप्ररोहान् जनयन्ति विशेषतोमन्दा-ग्नेस्तथा तृणकाष्ठोपललोष्ट्रवस्त्रादिभिः शीतोदकसंस्पर्श-नाद्वा कन्दाः परिवृद्धिमासादयन्ति तान्यर्शांसीत्याचक्षते॥ तत्र स्थूलान्द्रप्रतिबद्धमर्द्ध पञ्चाङ्गुलं गुदमाहुस्तस्मिन् बलय-स्तिस्रोऽध्यर्द्धाङ्गुलान्तरभूताः प्रवाहणी विसर्ज्जनी संवरणीचेति। चतुरङ्गुलायताः सर्वास्तिर्य्यगेकाङ्गुलोच्छ्रिताः॥ श{??}-वर्त्तनिभाश्चापि उपर्य्युपरि संस्थिताः। गजतालुनिभाश्चापिवर्णतः सम्प्रकीर्त्तिताः॥ रोमान्तेभ्यो यवाध्यर्द्धं गुदौष्ठःपरिकीर्त्तितः॥ प्रथमा तु गुदौष्ठादङ्गुलमात्रे। तेषान्तुभविष्यतां पूर्व्वरूपाणि, अन्ने न श्रद्धा कृच्छ्रात्पक्तिरम्लीकासक्थिसदनमाटोपः कार्श्यमुद्गारबाहुल्यमक्ष्णोश्च श्वयथुरन्द्र-कूजनं गुदपरिकर्त्तनमाशङ्का पाण्डुरोगग्रहणी दोषशो-षणं कासश्वासौभ्रमस्तन्द्रा निद्रेन्द्रियदौर्ब्बल्यञ्च। जाते-[Page0381-a+ 38] ष्वेतानि रूपाणि प्रव्यक्ततराणि भवन्ति॥ तत्र मारुतात्प-रिशुष्कारुणवर्णानि विषममध्यानि कदम्बपुष्पतुण्डिकेरी-नाडीमुखसूचीमुखाकृतीनि च भवन्ति। तैरुपहतः सशूलंसंहतमुपवेश्यते कटीपृष्ठपार्श्व मेढ्रगुदनाभिप्रदेशेषु चास्यवेदना गुल्माष्ठोलाप्लीहोदराणि चास्य तन्निमित्तान्येवभवन्ति, कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषोभवति। पित्तान्नीलाग्राणि तनूनि विसप्र्पीणि पीतावभासानियकृत्प्रकाशानि शुकजिह्वासंस्थानानि यवमध्यानि जलौ-कोवक्त्रसदृशानि प्रक्लिन्नानि च भवन्ति तैरुपहतः सरुधिर-मतिसार्य्यते ज्वरदाहपिपासासूर्च्छाश्चोपद्रवा भवन्ति,पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति। श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानिस्निग्धानि पाण्डूनि करीरपनसास्थिगोस्तनाकाराणि नभिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति तैरुपहतःसश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्य्येत शोफशीतज्वरारोचकाविपाकशिरोगौरवाणि चास्य तन्निमित्तान्येवभवन्ति, शुक्लत्वङ्नस्वनयनदशनवदनमूत्रपुरीषश्च पुरुषोभवति॥ रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृ-शानि पित्तलक्षणानि च यदावगाढपुरीषप्रपीडितानिभवन्ति तदात्यर्थं दुष्टमनल्पमसृक् सहसा विसृजन्ति तस्यैवा-तिप्रवृत्तौ शोणितातियोगोपद्रवा भवन्ति॥ सन्निपातजानिसर्व्वदोषलक्षणयुक्तानि॥ सहजानि दुष्टशोणितशुक्रनिमि-त्तानि तेषां दोषत एव प्रसाधनं कर्त्तव्य विशेषतश्चात्रदुर्दर्शनानि परुषाणि पाण्डूनि दारुणान्यन्तर्मुखानितैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजःक्षीणरेताः क्षामस्वरः क्रोधनोऽल्पाग्निर्ध्राणशिरोऽक्षिश्रवण-रोगवान् सततमन्द्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिःपीड्यते॥ ”
“अर्श आद्या महारोगा अतिपापाद्भवन्तिहि”। शाता॰ स्मृ॰। पृषो॰ सलोपः। अर्शमप्यत्र न॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्शस्¦ n. (-र्शः) Hœmorrhoids, piles. E. ऋ to go, असुन् Una4di affix, and शुट् inserted.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्शस् [arśas], n. [ऋ-असुन् व्याधौ शुट् च Uṇ.4.195] Piles; नाशयित्री बलासस्यार्शस$उपचितामसि Vāj.12.97. -Comp. -घ्न a. destroying piles.

(घ्नः) N. of the plant शुरण (Mar. सुरण), so called because it is said to cure piles.

one part of buttermilk with three parts of water.

(घ्नी) N. of the plant Curculigo Archioides Lin. (Mar. देव़डंगरी).

the marking nut plant (भल्लातक). -युज् a. afflicted with piles. -हित a. curing piles. (-तः) the marking nut plant; (Mar. बिब्बा).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्शस् n. piles , hemorrhoids VS. xii , 97 , etc.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arśas is the name of a disease mentioned in the Vājasaneyi Saṃhitā[] with consumption and other ailments. It appears to designate ‘hæmorrhoids,’ as in the later medical literature.

  1. xii. 98.

    Cf. Zimmer, Altindisches Leben, 398;
    Roth, St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=अर्शस्&oldid=472885" इत्यस्माद् प्रतिप्राप्तम्