यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मीः, स्त्री, (न लक्ष्मी, नञत्र विरोधे ।) नरक- देवता । तत्पर्य्यायः । निरृतिः २ । इत्यमरः ॥ कालकर्णी ३ । इति शब्दरत्नावली ॥ काल- कर्णिका ४ । इति जटाधरः ॥ ज्येष्ठादेवी ५ इति पाद्मोत्तरखण्डं ॥ तस्या विवरणं ज्येष्ठाशब्दे द्रष्टव्यं ॥ * ॥ दीपान्वितामावास्यायां तस्याः पूजा- विधिर्यथा । तत्र प्रदोषे आदौ आचारादलक्ष्मी- पूजनं । इत्याचार्य्यचूडामणिप्रभृतयः ॥ गोमय- पुत्तलिकां निर्माय वामहस्तेन कृष्णपुष्पं गृहीत्वा ध्यायेत् । “अलक्ष्मीं कृष्णवर्णां द्विभुजां कृष्णवस्त्रपरीधानां लौहाभरणभूषितां शर्कराचन्दनचर्च्चितां गृह- सम्मार्ज्जनीहस्तां गर्दभारूढां कलहप्रियां” । इति ध्यात्वा विमुखेन “ओ~ अलक्ष्म्यै नमः” इत्यनेन निर्म्माल्येन कृष्णपुष्पेण संपूज्य प्रणमेत् । “(ओ~)अलक्ष्मीस्त्वं कुरूपासि कुत्सितस्थानवासिनी । सुखरात्रौ मया दत्तां गृह्ण पूजाञ्च शाश्वतीं ॥ दारिद्र्यकलहप्रिये देवि ! त्वं धननाशिनी । याहि शत्रोर्गृहे नित्यं स्थिरा तत्र भविष्यसि ॥ यदि त्वं मे महाभागे प्रीता भवसि सर्व्वदा । पुत्त्रबन्धुकलत्रेषु कदाचिन्नागमिष्यसि ॥ गच्छ त्वं मन्दिरं शत्रोर्गृहीत्वा चाशुभं मम । मदाश्रयं परित्यज्य स्थिरा तत्र भविष्यसि” ॥ ततः शूर्पवाद्येन सीमान्ते तां विसृजेत् । इति कृत्यचन्द्रिका ॥ * ॥ किञ्च, -- “एवं गते निशीथे तु नारी च स्वगृहाङ्गनात् । अलक्ष्मीश्च वहिष्कार्य्या अमन्त्रञ्च यथाविधि” ॥ इति कृत्यतत्त्वार्णवधृतब्रह्मपुराणं ॥ * ॥ “एवं गते निशीथे तु जने निद्रार्द्धलोचने । तावन्नगरनारीभिः शूर्पडिण्डिमवादनैः ॥ निष्काश्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गनात्” ॥ इति निर्णयसिन्धौ मदनरत्नधृतभविष्यपुराणं ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मी स्त्री।

नारकीया_अश्रीकरम्

समानार्थक:अलक्ष्मी,निरृति

1।9।2।2।3

सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः। प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मी¦ स्त्री विरोधार्थे नञ् त॰। लक्ष्मीविरुद्धायां निरृतौ
“आलक्ष्मीति” ख्यातायाम्।
“अलक्ष्मीः कालकर्ण्णि च” पुरा॰
“अलक्ष्मीरपक्रामति” सुश्रुतः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मी¦ f. (-क्ष्मीः) Misfortune, poverty. E. अ priv. and लक्ष्मी fortune.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मीः [alakṣmīḥ], f.

Evil fortune, bad luck, distress, poverty; कामान् दुग्धे विप्रकर्षत्यलक्ष्मीम् U.5.3.

The goddess of misfortune.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मी/ अ-लक्ष्मी f. evil fortune , bad luck , distress , poverty

अलक्ष्मी/ अ-लक्ष्मी ( mfn. )causing misfortune S3a1n3khGr2.

"https://sa.wiktionary.org/w/index.php?title=अलक्ष्मी&oldid=488742" इत्यस्माद् प्रतिप्राप्तम्