अवधूत
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवधूतः, पुं, (अव + धू + क्तः ।) सन्न्यासाश्रमी । तद्विधानं सन्न्यासिशब्दे द्रष्टव्यं । तद्भेदा यथा । देव्युवाच । “द्विविधावाश्रमौ प्रोक्तौ गार्हस्थ्यो भैक्षुकस्तथा । किमिदं श्रूयते चित्रमवधूताश्चतुर्विधाः ॥ एतद्वेदितुमिच्छामि तत्त्वतः कथय प्रभो । चतुर्व्विधावधूतानां लक्षणानि विशेषतः ॥ सदाशिव उवाच । ब्रह्ममन्त्रोपासका ये ब्राह्मणक्षत्रियादयः । गृहाश्रमे वसन्तोऽपि ज्ञेयास्ते यतयः प्रिये ॥ पूर्णाभिषेकविधिना संस्कृता ये च मानवाः । शैवावधूतास्ते ज्ञेयाः पूजनीयाः कुलार्च्चिते ॥ ब्रह्मावधूतः शैवाश्च साग्रिमाचारवर्त्तिनः । विदध्युः सर्व्वकर्म्माणि शश्वदीरितवर्त्मना ॥ विना ब्रह्मार्पितञ्चैते तथा चक्रार्पितं विना । निषिद्धमन्नं तोयञ्च न गृह्लीयुः कदाचन ॥ ब्रह्मावधूतकौलानां कौलानामभिषेकिणां । प्रागेव कथितो धर्म्म आचारश्च वरानने ॥ स्नानं संन्यासनं पानं दानञ्च दाररक्षणं । सर्व्वमागममार्गेण शैवब्रह्मावधूतयोः” ॥ इति महानिर्व्वाणतन्त्रे १४ उल्लासः ॥ * ॥ अन्यच्च । शङ्कर उवाच । “शृणु देवि प्रवक्ष्यामि अवधूतो यथा भवेत् । वीरस्य मूर्त्तिं जानीयात् सदा तत्त्वपरायणः ॥ यद्रूपं कथितं सर्व्वं सन्न्यासधारणं परं । तद्रूपं सर्व्वकर्म्माणि प्रकुर्य्याद्वीरवल्लभं ॥ दण्डिनो मुण्डनं चामावास्यायामाचरेद्यथा । तथा नैव प्रकुर्य्यात्तु वीरस्य मुण्डनं प्रिये ॥ असंस्कृतं केशजालमुक्तालम्बिकचोच्चयं । अस्थिमाला विभूषा वा रुद्राक्षानपि धारयेत् ॥ दिगम्बरो वा वीरेन्द्रश्चाथ वा कौपिनी भवेत् । रक्तचन्दनसिक्ताङ्गं कुर्य्याद्भस्माङ्गभूषणं” ॥ रति निर्व्वाणतन्त्रे १४ पटलः ॥ * ॥ अपिच । “नृकरोटिं विधार्य्यञ्च काष्ठदण्डं तथा प्रिये । परशुञ्चाजिनञ्चैव योगीव धारयेत् सदा ॥ खट्टाङ्गं धारयेद्योगी वासरूपकवाससी । कपाले धारयेच्चन्द्रं चन्दनाद्यैर्व्विशेषतः ॥ ईषत् पिङ्गलकं वस्त्रं धारयेत् सर्व्वदा सुत” । सुत इति शिवस्य सम्बोधनं । सुदर्शनाख्यं यच्चक्रं तत्तु संधारयेद्बुधः ॥ विपञ्चीं कपिलञ्चैव मड्डडिण्डिमझर्झरान् । वादयन् डमरुं योगी यत्र कुत्राश्रमे स्थितः” ॥ इति योगसारे २ परिच्छेदः ॥ * ॥ अपरञ्च । “क्षमा दानं तपो ध्यानं बालभावेन शैलजे । शिवोऽहं भैरवानन्दो मुक्तोऽहं कुलनायकः ॥ एवं भावपरो मन्त्री हेतुयुक्तः सदाशिवः । ओम् तत् सदिति मन्त्रेण कर्म्मकर्त्तव्यतामाह । “ओ~ तत्सन्मन्त्रमुच्चार्य्य सोऽहमस्मीति चिन्तयन् । कुर्य्यादात्मोचितं कर्म्म सदा वैराग्यमाश्रितः ॥ कुर्व्वन् कर्म्माण्यनासक्तो नलिनोदलनीरवत् । यतेतात्मानमुद्धर्त्तुं तत्त्वज्ञानविवेकतः” ॥ * ॥ सर्व्वेषामोम् तत्सदिति निर्देशेन कर्म्मफलमाह । “ओ~ तत्सदिति मन्त्रेण यो यत्कर्म्म समाचरेत् । गृहस्थो वाप्युदासीनस्तस्याभीष्टाय तद्भवेत्” ॥ * ॥ तन्मन्त्रक्रियमाणकर्म्मणः सम्पूर्णत्वमपि । “जपहोमप्रतिष्ठा च संस्काराद्यखिलाः क्रियाः । ओ~ तत्सदिति निष्पन्नाः संपूर्णाः स्युर्न संशयः ॥ किमन्यैर्ब्बहुभिर्म्मन्त्रैः किमन्यैर्भूरिसाधनैः । ब्राह्म्येणानेन मन्त्रेण सर्व्वकर्म्माणि साधयेत् ॥ सुखसाध्यमबाहुल्यं संपूर्णफलदायकं । नास्त्येतस्मान्महामन्त्रादुपायान्तरमम्बिके ॥ पुरप्रदेशे देहे वा लिखित्वा धारयेदिमं । गेहे तस्य महातीर्थं देहः पुण्यमयो भवेत् ॥ निगमागमतन्त्राणां सारात् सारतरो मनुः । ओ~ तत्सदिति देवेशि तवाग्रे सत्यमीरितं ॥ चतुर्व्विधानां तत्त्वानामन्येषामपि वस्तुनां ॥ मन्त्रान्यैः शोधनेनालं स्याच्चेदेतेन शोधितं ॥ पश्यन् सर्व्वत्र सद्रूपं जपंस्तत् सन्महामनुं । स्वेच्छाचारः शुद्धचित्तः स एव भुवि कौलराट् ॥ जपादस्य भवेत् सिद्धो मुक्तः स्यादर्णचिन्तनात् । साक्षाद्ब्रह्ममयो देही सार्थमेनं जपेन्मनुं ॥ त्रिपदोऽयं महामन्त्रः सर्व्वकारणकारणं । साधनादस्य मन्त्रस्य भवेन्मृत्युञ्जयः स्वयं ॥ युग्मयुग्मपदं वापि प्रत्येकं पदमेव वा । जप्त्वैतस्य महेशानि साधकः सिद्धिभाग्भवेत्” । इति मन्त्रप्रशंसा ॥ * ॥ शैवावधूतस्य सर्व्वकर्म्मा- नधिकारमाह । “शैवावधूतसंस्कारविधूताखिलकर्म्मणः । नापि दैवे नवा पित्र्ये नार्षे कृत्येऽधिकारिता” ॥ * ॥ अथ परमहंसः । “चतुर्णामवधूतानां तुरीयो हंस उच्यते । त्रयोऽन्ये योगभोगाढ्या मुक्ताः सर्व्वे शिवोपमाः ॥ हंसो न कुर्य्यात् स्त्रीसङ्गं न विधत्ते परिग्रहं । प्रारब्धमश्नन् विहरेत् निषेधविधिवर्जितः ॥ त्यजेत् स्वजातिचिह्नानि कर्म्माणि गृहमेधिनां । तुरीयो विचरेत् क्षौणीं निःसङ्कल्पो निरुद्यमः ॥ सदात्मभावसन्तुष्टः शोकमोहविवर्ज्जितः । निर्निकेतस्तितिक्षुः स्यान्निःसङ्गो निरुपद्रवः ॥ नार्पणं भक्ष्यपेयानां न तस्य ध्यानधारणा । मुक्तो विमुक्तो निर्द्वन्द्वो हंसाचारपरो यतिः ॥ इति ते कथितं देवि ! चतुर्णां कुलयोगिनां । लक्षणं सविशेषेण साधूनां मत्स्वरूपिणां ॥ एतेषां दर्शनात् स्पर्शादालापात् परितोषणात् । सर्व्वतीर्थफलावाप्तिर्जायते मनुजन्मनां” ॥ इति महानिर्व्वाणतन्त्रं ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवधूत¦ त्रि॰ अव + धू--क्त।
१ कम्पिते
“पवनावधूतवसनान्तयै-कया” माघः
“विदधेऽबधूतसुरसद्मसम्पदम्” माघः। कृष्णयजुर्वेदान्तर्गते
२ उपनिषद्भेदे।
३ अभिभूते,
४ निव-र्त्तिते,
“अवधूतं रक्षो अवधूता अरातयः” शत॰ ब्रा॰
५ अनादृते च।
“यो विलङ्घ्याश्रमान् वर्ण्णान् आत्मन्येवस्थितः पुमान्। अतिवर्ण्णाश्रमी योगी अवधूतः सउच्यते” इत्युक्तलक्षणे वर्ण्णाश्रमधर्मत्यागिनि
६ सन्न्यासिनिपु॰।
“अक्षरत्वात् वरेण्यत्वात् धूतसंसारबन्धनात्। तत्त्वमस्यर्{??}सिद्धत्वादवधूतोऽभिधीयते। यथा रविः सर्वर-सान् प्रभुङ्क्ते हुताशनश्चापि हि सर्व्वभक्षकः। तथैवयोगी विषयान् प्रभुङ्क्ते न लिप्यते पुण्यपापैश्च शुद्धः” इति च तन्निरुक्तिलक्षणे एवमवधूतगीतशब्दे तल्लक्षणं दृश्यम्।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवधूत¦ mfn. (-तः-ता-तं)
1. Compelled.
2. Discarded.
3. Shaken, removed, tossed.
4. Trodden upon.
5. Separated from worldly feeling and obligation. E. अव, and धूत shaken.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवधूत [avadhūta], p. p.
Shaken, waved. Māl.9.18.
Discarded, rejected, despised; R.19.43.
Insulted, humiliated. हृतदारो$वधूतश्च नाहं जीवितमुत्सहे Mb.3.282.36.
Excelled, surpassed; लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः Ratn.2.8.
Attacked, overcome.
Separated from worldly attachments. -तः An ascetic who has renounced all worldly attachments and connections; यो विलङ्घ्याश्रमान्वर्णानात्मन्येव स्थितः पुमान् । अतिवर्णाश्रमी योगी अवधूतः स उच्यते ॥ or अक्षरत्वात् वरेण्यत्वात् धूतसंसारबन्ध- नात् । तत्त्वमस्यर्थसिद्धत्वादवधूतो$भिधीयते ॥ सदाप्लुतो$धःशयनो$वधूतः Bhāg.3.1.19. अवधूतोपेक्षिते च कम्पिते चाश्रमान्तरे । Nm.
Smelling sense, nose, नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते । अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ Bhāg.4.25.48.-Comp. -वेश a. undressed, naked.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवधूत/ अव-धूत mfn. shaken off (as evil spirits) VS. i , 14
अवधूत/ अव-धूत mfn. removed , shaken away BhP. etc.
अवधूत/ अव-धूत mfn. discarded , expelled , excluded MBh. etc.
अवधूत/ अव-धूत mfn. disregarded , neglected , rejected Das3. etc.
अवधूत/ अव-धूत mfn. touched R. vi , 82 , 62
अवधूत/ अव-धूत mfn. shaken , agitated (especially as plants or the dust by the wind) , fanned MBh. etc.
अवधूत/ अव-धूत mfn. that upon which anything unclean has been shaken out or off(See. अवक्षुत) Mn. v , 125 MBh. xiii , 1577
अवधूत/ अव-धूत mfn. unclean BhP.
अवधूत/ अव-धूत mfn. one who has shaken , off from himself worldly feeling and obligation , a philosopher( ब्रह्म-विद्) BhP. Ra1jat.
अवधूत/ अव-धूत m. N. of a शैवphilosopher
अवधूत/ अव-धूत n. rejecting , repudiating MBh. iv , 352 (= Hariv. 4717 ).
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the friend who accompanied पुरञ्जन to the Saurabha kingdom, through the entrances Nalini and नालिनि. फलकम्:F1: भा. IV. २५. ४८.फलकम्:/F Allegorically sense of smell. फलकम्:F2: Ib. IV. २९. ११.फलकम्:/F Taught spiritual wisdom to Yadu. फलकम्:F3: Ib. XI. 7. २४-9.फलकम्:/F