अवाक्पुष्पी
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवाक्पुष्पी, स्त्री, (अवाक् अधोमुखं पुष्पमस्याः) शतपुष्पा । शलुफा इति ख्याता । मिश्रेया । इत्यमररत्नमाले ॥ मौरी इति भाषा । वृक्ष- विशेषः । हेठाहुली चोरहुली चोरखड्की इति भाषा । तत्पर्य्यायः । अधःपुष्पी २ मङ्गल्या ३ अमरपुष्पिका ४ । इति रत्नमाला ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवाक्पुष्पी स्त्री।
शतपुष्पा
समानार्थक:शतपुष्पा,सितच्छत्रा,अतिच्छत्रा,मधुरा,मिसि,अवाक्पुष्पी,कारवी
2।4।152।2।1
शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः। अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवाक्पुष्पी¦ अवाक् अधोमुखं पुष्पमस्याः। (सुलफा) शतपुष्पिकायाम्।