यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थः, पुं, (अश्वत्थं जलमस्यास्ति । मूले सिक्त- त्वात् । अर्श-आद्यच् । अशृत्थवत् कामकर्म्मवाते- रितनित्यप्रचलितस्वभावत्वात् आशुविनाशित्वेन श्वोऽपि स्थास्यतीति विश्वासानर्हत्वाच्च मायामयः संसारवृक्षः । शाल्मलिवटाद्यपेक्षया न श्वश्चिरं तिष्ठति अश्वैव तिष्ठति वा । स्था गतिनिवृत्तौ । पृषोदरादित्वात् पूर्ब्बोत्तरपदान्ताद्योः सकारयो- स्तकारौ सुपिस्थ इति कः ।) स्वनामख्यातवृक्ष- विशेषः । पिपर इति पश्चिमदेशीयभाषा । तत्- पर्य्यायः । बोधिद्रुमः २ चलदलः ३ पिप्पलः ४ कुञ्जराशनः ५ । इत्यमरः ॥ अच्युतावासः ६ चल- पत्रः ७ पवित्रकः ८ शुभदः ९ बोधिवृक्षः १० याज्ञिकः ११ गजभक्षकः १२ श्रीमान् १३ क्षीर- द्रुमः १४ विप्रः १५ मङ्गल्यः १६ श्यामलः १७ गुह्य- पुष्पः १८ सेव्यः १९ सत्यः २० शुचिद्रुमः २१ धनु- वृक्षः २२ । अस्य गुणाः । सुमधुरत्वं । कषायत्वं । शीतलत्वं । कफपित्तविनाशित्वं रक्तदाहशमन- कारित्वञ्च ॥ तत्पक्वफलस्य गुणाः । सद्यो योनि- दोषहारित्वं । शीतलत्वं । अतिहृद्यत्वं । पित्तर- क्तविषार्त्तिदाहच्छर्द्दिशोषारुचिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ (“अश्वत्थोडुम्बरप्लक्षन्यग्रोधानां फलानि च । कषायमधुराम्लानि वातलानि गुरूणि च” ॥ इति चरकः ॥ अश्वत्थदेवायतनश्मशान- बल्मीकसन्ध्यासु चतुष्पथेषु । याम्ये सपित्रे परिवर्ज्जनीया ऋक्षे नरा मर्म्मसु ये च दष्टाः” ॥ इति सुश्रुतः ॥) अथाश्वत्थवन्दनकालमन्त्राः । “अश्वत्थं वन्दयेन्नित्यं पूर्ब्बाह्ले प्रहरद्वये । अत ऊर्द्ध्वं न वन्देत अश्वत्थन्तु कदाचन ॥ (ओ~) चक्षुस्पन्दं भुजस्पन्दं तथा दुःस्वप्नदर्शनं । शत्रूणाञ्च समुत्थानमश्वत्थ शमयाशु मे ॥ अश्वत्थरूपी भगवान् प्रीयतां मे जनार्दनः । त्वां दृष्ट्वा नश्यते पापं दृष्ट्वा लक्ष्मीः प्रवर्त्तते ॥ प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोऽस्तु ते” ॥ इति स्मृत्यर्थसारे हलायुधधृतवचनं ॥ गर्द्दभाण्ड- वृक्षः । इति विश्वः ॥ “बाधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रो गजाशनः । पिप्पलो दुर्ज्जरः शीतः पित्तश्लेष्मव्रणास्रजित् ॥ गुरुस्तुवरको रूक्षो वर्ण्यो योनिविशोधनः” ॥ * ॥ अथ पिप्पलभेदः । गजहण्डु इति हिन्दिभाषा । “पारिशोन्यः फलीशश्च कपिचूतः कमण्डलुः । गर्द्दभाण्डः कन्दरालकपीतनसुपार्श्वकाः ॥ फलीशो दुर्ज्जरः स्निग्धः क्रिमिशुक्रकफप्रदः । यथाश्वत्थतले बिप्र धर्म्मकर्म्म विधीयते । न्यूनातिरिक्तता न स्यात्तस्मिन् कर्म्मणि जैमिने ॥ तत्र तीर्थानि सर्व्वाणि त्रिस्रोतादीनि जैमिने । यत्राश्वत्थतरुस्तिष्ठेत् एकोऽपि शाखिनां वरः ॥ अश्वत्थपूजको यस्तु स एव हरिपूजकः । अश्वत्थमूर्त्तिर्भगवान् स्वयमेव यतो द्विज ॥ तरुज्ञानाद्द्विजश्रेष्ठ योऽश्वत्थं हन्ति मूढधीः । संसारे नास्ति तत्कर्म्म यत् कृत्वा स च शुध्यति ॥ अश्वत्थो वृक्षराजोऽयं हरिमूर्त्तिः प्रकीर्त्तितः । तस्मादश्वत्थहन्तॄणां त्राता कोऽपि न विद्यते ॥ अश्वत्थं पश्यतो विप्र स्पृशतः स्मरतस्तथा । देहस्थं पातकं तस्य हरेत् प्रणमतो हरिः ॥ विलोक्याश्वत्थहन्तारं यः शक्तो न निवारयेत् । तन्नेत्रयुग्मं वडिशैर्यमेनोत्पाट्यते स्वयं ॥ अश्वत्थच्छेदनं मूढ मा कुर्विति वदेन्न यः । तस्य जिह्वां छुरिकया स्वयं कृन्तति भास्करिः ॥ अश्वत्थशाखामेकां यः स्वल्पामपि निहन्ति यः । स कोटिब्रह्यहत्यानां फलं प्राप्नोति मानवः ॥ यत्पापं ब्रह्महत्यायां गुरुस्त्रीगमने च यत् । सुरापाने तथास्तेये न्यासापहरणे तथा ॥ यत्पापं भ्रूणहत्यायां गोहत्यायां द्विजोत्तम । स्त्रीहत्यायाञ्च यत्पापं परस्त्रीगमने तथा ॥ शरणागतहत्यायां हत्यायां सुहृदां तथा । विश्वासवाक्याकथने परहिंसाविधौ च यत् ॥ यत् पापं परनिन्दायां हरिवासरभोजने । अश्वत्थच्छेदनाद्घोरं तत् पापं प्राप्यते जनैः ॥ विष्णुमूर्त्तेर्ज्जनो मोहादश्वत्थस्य निहन्ता यः । तत्तुल्यः पातकी कोऽपि न श्रुतः क्षितिमण्डले ॥ वदाम्यश्वत्थमाहात्म्यं सर्व्वपापप्रणाशनं । साक्षादेव स्वयं विष्णुरशत्थोऽखिलविश्वराट् ॥ तद्भक्तिं कुर्वतः पुंसो विद्यते नाशुभं क्वचित् । अश्वत्थं सेवते यस्तु विष्णबुद्ध्या नरोत्तमः ॥ तस्य प्रसन्नो भगवान् ददाति परमं पदं” । इति पाद्मे क्रियायोगसारे अश्वत्थसेचनं नाम ११ अध्यायः ॥ (अस्थिररूपः संसारवृक्षः । यथा, गीतायाम् । “ऊर्द्ध्वमुलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्” ॥ विस्तरस्तु गीतायाः पञ्चदशेऽध्याये द्रष्टव्यः ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थ पुं।

पिप्पलवृक्षः

समानार्थक:बोधिद्रुम,चलदल,पिप्पल,कुञ्जराशन,अश्वत्थ

2।4।21।1।1

अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः। तस्मिन्दधिफलः पुष्पफलदन्तशठावपि॥

अवयव : अश्वत्थस्य_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थ¦ पु॰ न श्वश्चिरं शाल्मलिवृक्षादिवत् तिष्ठति स्था--कपृ॰ नि॰।

१ स्वनामख्याते वृक्षे,
“बोधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रोगजाशनः। पिप्पलो दुर्जरःशीतः पित्तश्लेष्मव्रणास्र-जित्। गुरुस्तुवरकीरूक्षोबल्योयोनिविशोधनः” भा॰ प्र॰। [Page0506-b+ 38]
“अश्वत्थः सर्ववृक्षाणाम् गीता” तस्य विष्णुरूपित्वेनसर्व्वामङ्गलनाशकत्वम् अश्वत्थोत्पत्तिः
“पार्वतीशिवयो-र्देवैः सुरतं कुर्वतोः किल। अग्निं ब्राह्मणवेशेनप्रेष्य विघ्नं कृतं पुरा। शशाप पार्वती क्रुद्धा सर्वा-नेव दिवौकसः” इस्युपक्रम्य
“तस्मान्मम सुखभ्रंशात् यूयंवृक्षत्वमाप्स्यथ” पार्वतीशापमुक्त्वा
“तस्माद्वृक्षत्वमापन्नाब्रह्मविष्णुमहेश्वराः। तस्मादिमौ विष्णुमहेश्वरावुभौबभूवतुर्बोधिवटौ मुनीश्वराः!”। बोधिस्त्वयं चार्किदिनंविनैव त्वस्पृश्यतामापदलक्ष्यीयोगात्” पद्मपु॰ क्रिया॰

१६

० अध्या॰ उक्ता।
“तस्य शनिवारमात्रे स्पृश्यता-कारणमप्युक्तं तत्रैव

१६

१ अध्या॰। लक्ष्म्या ज्येष्ठ-भगिन्या अलक्ष्म्या सह उद्दालकस्य विवाहमुक्त्वा पत्या
“यावदागमनं मम तावत् अश्वत्थमूले त्वं निषीद” इत्युक्तयाअलक्ष्म्या तत्रैव स्थितया बहुतिथे काले गतेऽपि पत्यु-रागमनमनालोक्य क्रन्दितं, तच्श्रुत्वा च लक्ष्म्या कनिष्ठ-भगिन्या नोदितो विष्णुस्तत्रागत्य तामुवाच यथा।
“लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः। आश्वासयन्नलक्ष्मों तामिदं वाक्यमथाब्रवीत्। अश्वत्थ-वृक्षमासाद्य सदाऽलक्ष्मीः स्थिरा भव। ममांशसम्भवोह्येषआवासस्ते मया कृतः। मन्दवारे सदा ह्येनं लक्षमीरत्रागमिष्यति। अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल” एवञ्च अलक्ष्म्याः सर्वदावासादन्यदिने तस्यास्पृश्यत्वंमन्दवारे लक्ष्मीसमागमाच्च स्पृश्यत्वमिति मर्य्यादा कृता।
“अश्वथरूपो भगवान् विष्णुरेव न संशयः। रुद्ररूपोवटस्तद्वत् पलाशो ब्रह्मरूपधृक्। दर्शनस्पर्शनादेव ते वैपापहराः स्मृताः” तत्रैवोक्तम् अश्वत्थस्पर्शस्तु शनिवारेएव प्रागुक्तवचनात्। तस्य वैशाखे सेचनफलं पद्मपु॰क्रिया॰

११ अव्या॰। यथा
“वैशाखे सेचयेन्नित्यं विष्णु-मश्वत्थरूपिणम्। चतुर्वर्गफलावाप्तिहेतवे वैष्णवोजनः। गण्डूषमात्रतोयेन कुर्य्याद्योऽश्वत्थसेचनम्। सोऽपियाति परं स्थानं विमुक्तः पापकोटिभिः” तन्मूलबन्धफलम्तत्रैव
“अश्वत्थमूलं विप्रर्षे! यो बध्नाति शिलादिभिः। अश्वत्थरूपी भगवान् किं तस्मै न हि यच्छति”। तत्प्रणामफलं तत्रैव।
“अश्वत्थद्रुममालोक्य प्रणामं कुरुतेतु यः। आयुर्वृद्धिर्भवेत्तस्य वर्द्धन्ते सर्वसम्पपदः”। अत-एव दुःस्वप्नदर्शनादौ
“अश्वत्थरूपी भगवान् दुःखप्नं शमया-शु मे” इति मन्त्रेण प्रणामोविहितः।
“तन्मूले धर्म्मकर्माचरणप्रशंसा तत्रैव।
“यदाश्वत्थतले विप्र! धर्मकर्म विधी-[Page0507-a+ 38] यते। न्यूनातिरिक्तता न स्यात्तस्मिन् कर्मणि जैमिने!। तत्र तीर्थानि सर्व्वाणि तिस्रोतादीनि सन्ति वै!”। तत्-पूजनफलं तत्रैव।
“अश्वत्थपूजकोयस्तु सएव हरिपूजकः। अश्वत्थरूपी भगवान् स्वयमेव यतो हरिः”॥ तस्य तच्छा-खायाश्च छेदने निषेधः तत्रैव।
“तरुज्ञानात् द्विजश्रेष्ठ!योऽश्वत्थं हन्ति मुढधीः। संसारे नास्ति तत् कर्म यत् कृत्वास च शुध्यति। अश्वत्थोवृक्षराजोऽयं हरिमूर्त्तिः प्रकी-र्त्तितः। तस्मादश्वत्थहन्तॄणां त्राता कोऽपि न विद्यते। अश्वत्थशाखामेकां च स्वल्पामपि छिनत्ति यः। स कोटिब्रह्महत्यानां फलं प्राप्नोति मानवः” इति च। अन्यान्यपितच्छेदने पापानि तत्रैवोक्तानि दृश्यानि। तच्छाखा-च्छेदनमयज्ञार्थमेव निषिद्धं यज्ञार्थच्छेदने तु न दोषःपशुहिंशावत्तस्यापि विहितत्वात्
“अर्कः पलाशखदिरःअपामार्गोऽथा पिप्पल” इत्यादिना जीवहोमे तस्यैव समिधोविधानात्।

२ नन्दीवृक्षरूपे अश्वत्यभेदे च
“नन्दीवृक्षोऽश्वत्थभे-दः प्ररीही गजपादपः। स्थालीवृक्षःक्षयतरुः क्षीरी च स्याद्व-नस्पतिः। नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवरौष्णकः। कटु-पाकरसग्राहीविषपित्तकफास्रनुत्” भा॰ प्र॰।

३ गर्द्दभाण्डवृक्षे (वेलियापिप्पल) तद्गुणादि गर्द्दभाण्डशब्दे दृश्यम्।

४ संसारकृक्षे तस्य चिरस्थायित्वाभावत् तथात्वम्।
“ऊर्द्ध्व-मूलमधःशाखमश्वत्थं प्राहुरव्ययम्” गीता तद्विवरणमधः-शाखशब्दे। अश्व इव तिष्ठति स्था--क पृ॰।

५ अश्विनीनक्षत्रेतस्याश्वशीर्षाकारस्याश्लेषाशब्दे उक्तत्वात्तथात्वम्। अश्वत्थ-नक्षत्रेण युक्तः कालः इत्यण् तस्य संज्ञायां लुप्।
“अश्वत्थो मूहूर्त्तः” सि॰ कौ॰। असंज्ञायान्तु आश्वत्थ-महः आश्वत्थी रात्री। चतुरर्थ्यां काशा॰ इल। अश्वत्थिलः उत्क॰ छ अश्वत्थीयः तत्सन्निकृष्टदेशादौत्रि॰। अश्वत्थेन युक्ता पौर्ण्णमासी अण्। तस्य पौर्ण्ण-मास्यामपि
“अग्रहायण्यश्वत्थाट्ठक्” पा॰ निर्द्देशात्नि॰ लुप् अश्वत्थयुक्तायां पौर्ण्णमास्याम्। लुपि व्यक्तिवचनोक्तेः पुस्त्वम्। तत्र भवः ठक्। आश्वत्थिकः। चान्द्राश्विनमासे।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थ¦ m. (-त्थः)
1. The holy fig tree, (Ficus religiosa.)
2. The fruit of the tree
3. The time at which it bears. f. (-त्था) Day of fullmoon. E. अ neg. श्व a future period, and थ from स्था to remain; of less dura- tion than the Vata or Indian fig; there are several other etymolo- gies.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थः [aśvatthḥ], [न श्वश्चिरं शाल्मलीवृक्षादिवत् तिष्ठति स्था-क पृषो. नित्यस. Tv.]

The holy fig tree; ऊर्ध्वमूलो$वाक्शाख एषो$श्वत्थः सनातनः Kaṭh.; the tree of this world; ऊर्ध्वमूलमधःशाखम- श्वत्थं प्राहुरव्ययम् Bg.15.1. (Mar. पिंपळ).

A kind of the Aśvattha tree (नन्दीवृक्ष; Mar. नांदुरखी.)

N. of another tree गर्दभाण्ड (Mar. लाखी पिंपरी)

The constellation Aśvinī.

The time indicated or presided over by Aśvinī अश्वत्थो मुहूर्तः Sk. on संज्ञायां श्रवणाश्वत्थाभ्याम् P.IV. 2.5.

A vessel made of the अश्वत्थ tree (Ved.).

The fruit of the sacred fig-tree; अश्वत्थस्य फलमश्वत्थः Sk.

The time at which it bears fruit; अश्वत्थफलयुक्तः कालो$प्यश्वत्थः P.IV.3.48 Sk.

An epithet of the Sun.

N. of a people; Bṛi. S.14.3. -त्था The day of the full moon in the month of Āśvina, (in which month the fruits of the sacred fig-tree generally become ripe). -त्थी [क्षुद्रो$श्वत्थः अल्पार्थे ङीप्] A small fig-tree. -Comp. -कुणः [अश्वत्थस्य पाकः पील्वादि ˚कुणप् P.V.2.24] the fruitseason of the holy fig-tree. -फला N. of a tree (Mar. लघुशेरणी). -भेदः N. of a tree (स्थालीवृक्ष) Faicus Benjamina. (Mar. पाडळी ?)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थ/ अश्व--त्थ See. ss.vv. below.

अश्वत्थ m. ( त्थ= स्थ" under which horses stand ") the holy fig tree , Ficus Religiosa AV. S3Br. etc.

अश्वत्थ m. a vessel made of its wood RV. i , 135 , 8 ; x , 97 , 5

अश्वत्थ m. the upper (or male) अरणिmade of its wood AV. vi , 11 , 1 S3Br. xi Ka1tyS3r.

अश्वत्थ m. the plant Thespesia Populneoides L.

अश्वत्थ m. N. of a नक्षत्र(also called श्रोणा) Pa1n2. 4-2 , 5 and 22

अश्वत्थ m. a N. of the sun MBh. iii , 151

अश्वत्थ m. pl. N. of a people VarBr2S.

अश्वत्थ mfn. " relating to the नक्षत्रअश्वत्थ" , (with मुहूर्त)the moment in which the moon enters that नक्षत्रPa1n2. 4-2 , 5 Sch.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the sacred tree under which कृष्ण is said to have sat in contemplation on the eve of his departure to Heaven. फलकम्:F1:  भा. III. 4. 3 & 8; Br. III. ११. ३५ & १०९; १३. २९; IV. ४३. १७; वा. ३५. ३३; ९१. ४४.फलकम्:/F Growing out of शमि tree; by attrition पुरूरवस् created fire and made it threefold for sacrificial purposes. फलकम्:F2:  Vi. IV. 6. ८५-94.फलकम्:/F
(II)--the तीर्थ sacred to वन्दनीय. M. १३. ५१.
(III)--a follower of माया. M. १७९. ६९.
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थ पु.
एक पात्र का नाम, ऋ.वे. 1.135.8; एक यज्ञीय वृक्ष (पीपल) का नाम, देखें-अरणि।

"https://sa.wiktionary.org/w/index.php?title=अश्वत्थ&oldid=489612" इत्यस्माद् प्रतिप्राप्तम्