यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्धम्, त्रि, (न सिद्धम् । नञ्समासः ।) अपक्वं । अस्विन्नं । इति रत्नमाला ॥ सिद्धिरहितं ॥ (“स्वयमसिद्धः कथं परान् साधयेत्” इति न्यायः । न्यायमते, आश्रयासिद्धत्वादिभिर्दोषैर्दुष्टो हेतुः । यथा, भाषापरिच्छेदे । “अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययोपदिष्टश्च हेत्वाभासस्तु पञ्चधा” ॥)

"https://sa.wiktionary.org/w/index.php?title=असिद्धम्&oldid=114685" इत्यस्माद् प्रतिप्राप्तम्