आकाश
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकाशः, पुं, क्ली, (आ समन्तात् काशन्ते दीप्यन्ते सूर्य्यादयो यत्र । आ + काश् + घञ् ।) पञ्च- भूतान्तर्गतभूतविशेषः । स तु शून्यः । तत्पर्य्यायः । द्योः २ द्यौः ३ अभ्रं ४ अब्भं ५ व्योम ६ पुष्करं ७ अम्बरं ८ नभः ९ अन्तरीक्षं १० अन्तरिक्षं ११ गगनं १२ अनन्तं १३ सुरवर्त्म १४ खं १५ वियत् १६ विष्णुपदं १७ विहायः १८ । इत्यमरः ॥ नाकः १९ अनङ्गः २० नभसं २१ मेघवेश्म २२ महाविलं २३ । इति जटाधरः ॥ मरुद्वर्त्म २४ मेघवर्त्म २५ त्रिपिष्टपं २६ । इति शब्दरत्ना- वली ॥ न्यायमते अस्य सामन्यगुणाः सङ्ख्यादि- पञ्च । विशेषगुणः शब्दः । स तु नित्यः अश- रीरी च । अस्येन्द्रियं कर्णः । सत्वेकः किन्तु उपाधिभेदेन नाना भवति । (“शब्दः श्रोत्रेन्द्रियञ्चापि छिद्राणि च विविक्तता । वियतः कथिता एते गुणागुणविचारिभिः” ॥ तथा च भाषापरिछेदे । “आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः । इन्द्रियं तु भवेत् श्रोत्रमेकः सन्नप्युपाधितः” ॥) वेदान्तमते स जन्यः ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकाश पुं।
आकाशः
समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी
1।2।1।3।3
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।
पदार्थ-विभागः : , द्रव्यम्, आकाशः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकाश¦ पुंन॰ समन्तादाकाशन्ते सूर्य्यादयोऽत्र।
१ स्वनामख्यातेद्रव्यभेदे। स च न्यायादिमते नित्यः सर्वमूर्त्तसंयोगी शब्द-मात्रविशेषगुणकः संण्वापरिमाणपृथक्त्वसंयोगविभागरूप-सामान्यगुणकश्च। तत्सत्त्वे प्रमाणञ्च मुक्ता॰ दर्शितम्यथा
“शब्दोविशेषगुणः चक्षुर्ग्रहणायोम्यबहिरिन्द्रिय-ग्राह्यजातिमत्त्वात्, स्पर्शवत्। शब्दोद्रव्यससवेतःगुणत्वात् संयोगवत् इत्यनुमाने शब्दस्य द्रव्यसम-वेतत्वे सिद्धे शब्दो न स्पर्शवद्विशेषगुणः अग्निसं-योगासमवायिकारणकत्वाभावे सति अकारणगुणपूर्ब्बक-प्रत्यक्षत्वात्, सुखवत्। पाकजरूपादौ व्यभिचारवारणायसत्यन्तं, पटरूपादौ व्यभिचारवारणाय अकारणगुण-पूर्ब्बकेति, जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्य-क्षेति। शब्दोन दिक्कालमनोगुणः विशेषगुणत्वात्, नात्म-विशेषगुणः बहिरिन्द्रियग्राह्यत्वात् रूपवत् इत्थञ्चशब्दाधिकरणं नवमं द्रव्यं गगननामकं सिध्यतीति। न चवाय्ववयवेषु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्ब्बकःशब्दौत्पद्यतामिति वाच्यम् अयावद्द्रव्यभावित्वेन वायु-विशेषगुणत्वाभावात्”।
“व्याख्यातञ्च दिनक॰
“शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति द्रव्या-श्रितत्वात् इत्येवंरूपं बोध्यम्। दर्शितं सूचितम्। अत्रानुमानेस्वरूपासिद्धिं परिहर्त्तुमाह तथाहीति घटादौ व्यभिचार-वारणाय चक्षुर्ग्रहणायोग्येति आत्मनि व्यभिचारवारणाय-बहिरिन्द्रियग्राह्येति रसत्वादौ व्यभिचारवारणाय-जातिमदिति एतच्चानुमानमग्रिमद्रव्यसमवेतत्वसाधकानु-माने स्वरूपासिद्धिनिरासायेति बोध्यम्। गुणत्वादितिएतदनुमानेनोक्तपरिशेषानुमानहेतौ विशेष्यासिद्धिर्निरस्ता। विशेषणासिद्ध्युद्धारमाह शब्दोन स्पर्शवद्विशेषगुण इति। न स्पर्शवतोद्रव्यस्य पृथिव्यादिचतुष्टयस्य विशेषगुण इत्यर्थः। अकारणगुणपूर्ब्बकप्रत्यक्षत्वादिति अकारणगुणपूर्ब्बकत्वेसति प्रत्यक्षत्वादित्यर्थः। हेतुसत्त्वं प्रतिपादयितुंपाकज इति। जलपरमाण्विति अनित्यानां पार्थिवरूपा-[Page0592-b+ 38] दीनां केषाञ्चिदग्निसंयोगासमवायिकारणत्वात् केषा-ञ्चित्कारणपूर्व्वक्त्वादत्रोपेक्षा। न दिक्कालेति शब्द इत्यनु-वर्त्तते बहिरिन्द्रियेति। मनसोऽन्यदिन्द्रियं बहिरिन्द्रियंतेन प्रत्यक्षत्वादित्यर्थः। एतेनानात्मगुणग्राहकेन्द्रियत्वंबाह्येन्द्रियत्वं तच्च मनस्यप्यतिप्रसक्तं तेनापि रूपादि-ग्रहणादिति निरस्तम्। इत्थञ्च अनेन प्रकारेण पृथिव्या-द्यष्टद्रव्यानाश्रितत्वसिद्धौ च। सिद्ध्यति इति पूर्ब्बोक्तपरि-शेषानुमानेन सिद्ध्यतीत्यर्थः। नन्वेतत्सर्वं तदोपपद्येत यदिशब्दस्य विशेषगुणत्वे किञ्चित्प्रमाणं स्यात् तत्रैवच न मानंपश्याम इति चेत् न शब्दोविशेपगुणः लौकिकप्रत्यासत्त्ये-न्द्रियग्राह्यत्वे सति लौकिकप्रत्यासत्त्या द्वीन्द्रियग्रहण-योग्यताराहित्ये च सति गुणत्वव्याप्यजातिमत्त्वादित्यनु-मानस्यैव तत्र प्रमाणत्वात् प्रभात्वमादाय व्यभिचारवारणायगुणत्वव्याप्येति गुरुत्वत्वमादाय व्यभिचारवारणाय प्रथमं स-त्यन्तं, संख्यात्वमादाय व्यभिचारवारणाय द्वितीयं सत्यन्तम्। सांसिद्धिकद्रवत्वस्नेहधर्माधर्ममावनासु प्रकृतहेतोरभावेऽपितत्र हेत्वन्तरेणैव विशेषगुणत्वं साधनीयमिति भावः। पूर्व्वोक्तानुमाने बाधं स्वरूपासिद्धिं च आशङ्कते न चेति। वायाविति तथा च स्पर्शवद्वायुगुणत्वस्य तत्र सत्त्वात्तदभाव-साधने बाध इति भावः। कारणगुणपूर्ब्बकत्वकथनं तुअकारणगुणपूर्ब्बकत्वघटितहेतोरसिद्धिप्रदर्शनार्थम्। अपा-वद्द्रव्यभावित्वेनेति स्वाश्रयनाशजन्यनाशप्रतियोगि यद्यत्तद्भिन्नत्वेनेत्यर्थः। ननु तथाप्याकाशे प्रत्यक्षमेव प्रमाणंकिमिति नोपन्यस्तमिति चेन्न चाक्षुषत्वे प्रयोजकस्य महत्त्वेसत्युद्भूतरूपवत्त्वस्याकाशेऽसंभवेन चक्षुषः प्रमाणत्वासम्भ-वात्। ननु यदि आकाशे न चाक्षुषस्तदेह पक्षीति चाक्षुषे-ऽधिकरणत्वेन किंभासत इति चेदालोक एवेति कल्प्यम्”। निष्क्रमणप्रवेशनाद्युत्क्षेपणधर्म्मवत्त्वादाकाशसिद्धिरिति सां-ख्यादयोमन्यन्ते” सांख्यमताभिप्रायेणैव सुश्रुते।
“आन्तरीक्षास्तु शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तताचेत्युक्तम्”।
“शब्दःश्रोत्रेन्द्रियञ्चापि छिद्राणि च विविक्तता। वियतोदर्शिता एते गुणा गुणाविचारिभिरिति” च वेदान्ति-भिरुक्तमिति वेदितव्यम्। तदेतन्मतंवै॰ सूत्रे निराकृतम् यथा
“निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम्
२ ॰। तदलिङ्गमेक-द्रव्यत्वात् कर्म्मणः
२१ । कारणान्तरानुकॢप्तिवैधर्म्याच्च
२२ । संयोगादभाबः कर्म्मणः
२३ । कारणगुणपूर्व्वकः कार्य्यगुणोदृष्टः
२४ । कार्य्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः
२५ परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः
२६ । [Page0593-a+ 38] परिशेषाल्लिङ्गमाकाशस्य
२७ । द्रव्यत्वनित्यत्वे वायुनाव्याख्याते
२८ । तत्त्वम्भावेन
२९ । शब्दलिङ्गाविशेषा-द्विशेषलिङ्गाभावाच्च
३० । ” सू॰
“इतिशब्दः प्रकारार्थःउत्क्षेपणादीन्यपि कर्म्माणि सगृह्लाति स्पर्शवद्द्रव्य-सञ्चारो, निष्क्रमणं, प्रवेशनञ्च तत्कार्य्यमाकाशस्यलिङ्गमिति सांख्याः
२० । तदेतद् दूषयितुमाह। निष्क्रमणप्रवेशनादिकर्म्म न तावत् समवायिकारणतयाआकाशमनुमापयति कर्म्मण एकद्रव्यत्वात् एकमात्रमूर्त्त-समवायिकारणकत्वात् न कर्म्मापि व्यासज्यवृत्तीत्युक्तं नवाऽमूर्त्तवृत्तीति
२१ । ननु चासमवायिकारणतयैवाकाशमनु-मापयिष्यति निष्क्रमणप्रवेशनादीत्यत आह। अनुकॢप्ति-र्लक्षणम् अनुकल्प्यते ज्ञाप्यतेऽनेनेति व्युत्पत्त्या, कारणा-न्तरस्य असमवायिकारणस्य याऽनुकॢप्तिर्लक्षणं तद्वैध-र्म्म्यादित्यर्थः। द्रव्यन्तावदसमवायिकारणं न भवत्येवअसमवायिकारणता च कारणैकार्थप्रत्यासत्त्या कार्य्यैकार्थ-प्रत्यासत्त्या च, प्रथमा तन्तुरूपाणां पटरूपं प्रति, इयञ्चा-समवायिकारणता महतीति संज्ञां लभते गुरुप्रतिपत्तिक-त्वात्, द्वितीया च यथा आत्ममनःसंयोगस्य ज्ञानादिकंप्रति, इयञ्चासमवायिकारणता लघ्वीति संज्ञां लभते लघु-प्रतिपत्तिकत्वात्, आकाशस्य तु निष्क्रमणप्रवेशनादौकर्म्मणि न समवायिकारणता नाप्यसमवायिकारणतातथाच न कर्म्माकाशसत्त्वे लिङ्गमिति
२२ । ननु निमित्त-कारणमस्तु कर्म्मण्याकाशम्, दृश्यते ह्याकाशे पक्षि-काण्डादीनां सञ्चारमत आह। मूर्त्तसंयोगेन कर्म्मकार-णस्य वेगगुरुत्वादेः प्रतिबन्धात् कर्म्मणोऽभावोऽनुत्पादो नत्वाकाशाभावात् तस्याव्यापकत्वात्, तस्मादाकाशान्वयोऽ-न्यथासिद्ध एव नाकाशनिमित्ततां साधयतीत्यर्थः
२३ । एवंसांख्यमते दूषिते शब्दमाकाशे लिङ्गमुपपादयिष्यन् परि-शेषानुमानाय पीठमारचयन्नाह। पृथिव्यादिलक्षणे कार्य्येये विशेषगुणा रूपादयस्ते कारणगुणपूर्व्वका दृष्टाः शब्दो-ऽपि विशेषगुणः जातिमत्त्वे सति वाह्यैकेन्द्रियमात्र-ग्राह्यत्वात् रूपादिवत् तथाच तादृशं कार्य्यं नोपलभ्यतेयत्र कारणगुणपूर्व्वकः शब्दः स्यादित्यर्थः
२४ । ननु वीणा-वेणुमृदङ्गशङ्खपटहादौ कार्य्ये शब्द उपलभ्यते तथाचतत्कारणगुणपूर्व्वकः स्यादत आह। भवेदेवं यथा तन्तु-कपालादिषु रूपरसाद्यनुभूयते तत्सजातीयञ्च रूपरसाद्यन्तरंपटघटादावुपलभ्यते तथा वीणावेणुमृदङ्गाद्यवयवेषु यःशब्द उपलब्धस्तत्सजातीयश्चेत् वीणावेणमृदङ्गादावप्युप-[Page0593-b+ 38] लभ्येत नचैवम्, प्रत्युत निःशब्दैरेवावयवैर्वोणाद्यारम्भ-दर्शनात् नोरूपैस्तु तन्तुकपालादिभिः पटघटाद्यारम्भस्या-दर्शनात् किञ्च यदि शब्दः स्पर्शवतां विशेषगुणः स्यात्तदा तत्र तार--तारतर--मन्द--मन्दतरादिभावो नानुभूयेतनह्येकावयव्याश्रिता रूपादयो वैचित्र्येणानुभूयन्ते तस्मा{??}स्पर्शवद्विशेषगुणः शब्दः
२५ । नन्वात्मगुणो मनोगुणो वाशब्दी भविष्यतीत्यत आह। शब्दो यद्यात्मगुणः स्यात्तदाऽहं सुखी यते जाने इच्छामीत्यादिवत् अहं पूर्य्येअहं वाद्ये अहं शब्दवानित्यादि धीः स्यात् नत्वेवमस्ति,किन्तु शङ्खः पूर्य्यते, वीणा वाद्यते इति प्रतियन्ति लौकिकाः। किञ्च शब्दो नात्मगुणः बाह्येन्द्रियग्राह्यत्वात् रूपादि-वत्, अपि च शब्दो यद्यात्मयोग्यविशेषगुणः स्याद्वधि-रेणाप्युपलभ्येत दुःखादिवत्। तस्मात् सुष्ठूक्तं परत्र सम-वायादिति, अमनोगुणत्वे हेतुमाह प्रत्यक्षत्वादिति,नात्ममनसोर्गुण इति समासे कर्त्तव्ये यदसमासकरणंतेन तुल्यन्यायतया प्रत्यक्षत्वादित्यनेनैव हेतुना दिक्का-लयोरपि गुणत्वं शब्दस्य प्रतिषिद्धमिति सूचितम्
२६ । यदर्थमयं परिकरस्तदाह शब्द इति शेषः। अत्रापिशब्दः क्कचिदाश्रितो गुणत्वात् रूपादिवदिति सामान्यतो-दृष्टोदष्टद्रव्यातिरिक्तद्रव्य सिद्धिः। गुणश्चायं बाह्यैके-न्द्रियग्राह्यजातीयत्वात् रूपादिवत् अनित्यत्वे सतिविभुसमवेतत्वात् ज्ञानादिवत् अनित्यत्वञ्च साधयिष्यते। परिशेषसिद्धस्य द्रव्यस्यावयवकल्पनायां प्रमाणा-भावान्नित्यत्वं, सर्व्वत्र शब्दोपलब्धेर्विभुत्वम्
२७ । शब्दलिङ्गस्य द्रव्यस्य द्रव्यत्वनित्यत्वे अतिदेशेन साधयन्नाह। अद्रव्यवत्त्वाद्यथा वायोर्नित्यत्वं तथाकाशस्यापि, गुण-वत्त्वाद्यथा वायोर्द्रव्यत्वं तथाकाशस्यापीत्यर्थः
२८ । तत्किं बहून्याकाशानि एकमेव वेत्यत आह। व्याख्यात-मिति विपरिणतेनान्वयः। भावः सत्ता सा यथैका तथा-काशमप्येकमेवेत्यर्थः
२९ । नन्वनुगतप्रत्ययमहिम्ना सत्तायाएकत्वं सिद्धम् आकाशे कथमेकत्वं तद्दृष्टान्तेन सेत्स्यती-त्यत आह। तत्त्वमाकाशस्य सिद्धमित्यर्थः। वैभवे सति सर्वेषांशब्दानां तदेकाश्रयतयैवोपपत्तावाश्रयान्तरकल्पनायां क-ल्पनागौरवप्रसङ्गः अन्यदपि यदाकाशं कल्पनीयं तत्रापिशब्द एव लिङ्गं तच्चाविशिष्टं न च विशे षसाधकं भेदसाधकंलिङ्गान्तरमस्ति। आत्मनां यद्यपि ज्ञानादिकमविशिष्टमेवलिङ्गं तथापि व्यवस्थातो लिङ्गान्तरादात्मबानात्व-सिद्धिरिति वक्ष्यते”
३० उप॰। इत्थं च तस्य नित्यत्वं[Page0594-a+ 38] निरवयवद्रव्यत्वादिति सिद्धम्। सांख्यादयस्तु शब्दतन्मात्रत-स्तदुत्पत्ति मुररीचक्रुः
“प्रकृतेर्महान् महतोऽहङ्कारोऽह-ङ्कारात् पञ्चतन्मात्राणि” इत्युपक्रम्य
“पञ्चभ्यः पञ्चभूतानि” इत्युक्तेः। वेदान्तिनस्तु अविद्यासहकृतब्रह्मणएव सकाशात्तदुत्पत्तिमङ्गीचक्रुः तस्य चोत्पत्तिमत्त्वे
“तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः” इति श्रुतिर्मानम्। यतो वा इमानि भूतानि जायन्तेइत्यादिश्रुत्या ब्रह्मणः सर्व्वभूतकारणत्वान्यथानुपत्त्याऽपितस्योत्पत्तिमत्त्वम्। श्रुतेर्गौणोत्पत्तिपरत्वं च आशङ्गा-पूर्ब्बकं शा॰ सूत्रभाष्ययोर्निराकृतं यथा।
“नवियदश्रुतेःसू॰
“वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतयउपलभ्यन्ते। केचिदाकाशस्योत्पत्तिमामनन्ति केचिन्न। तथा केचिद्वायोरुत्पत्तिमामनन्ति केचिन्न। एवं जीवस्यप्राणानाञ्च। एवमेव क्रमादिद्वारकोऽपि विप्रतिषेधःश्रुत्यन्तरेषु लक्ष्यते। विप्रतिषेधाच्च परपक्षाणामनपेक्षत्वंस्थापितं तद्वत् स्वपक्षस्यापि विप्रतिषेधादेवानापेक्षत्वमा-शङ्क्येतेत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मिलत्वाय परःप्रपञ्च आरभ्यते। तदर्थ निर्मिलत्वे च फलं यथोक्ताश-ङ्कानिवृत्तिरेव। तत्र प्रथमं तावदाकाशमाश्रित्य विचिन्त्यतेकिमस्योत्पत्तिरस्त्युत नास्तोति। तत्र तावत् प्रतिपद्यते। न वियदश्रुतेरिति न खल्वकाशमुत्पद्यते कस्मात् अश्रुतेःनह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति। छान्दोग्ये हि
“सदे-व सोम्येदमग्र आसीदेकमेवाद्वितीयमिति” सच्छब्दवाच्यंब्रह्म प्रकृत्य
“तदैक्षत तत्तेजोऽसृजतेति च पञ्चानां महा-भूतानां मध्यमं तेजआदिं कृत्वा त्रयाणां तेजोऽबन्नानामु-त्पत्तिः श्राव्यते। श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानो-त्पत्तौ। न चात्र श्रुतिरस्त्याकाशोत्पत्तिप्रतिपादिनी तस्मा-न्नास्त्याकाशस्योत्पत्तिरिति” भा॰
“अस्ति तु” सू॰। तुशब्दःपक्षान्तरपरिग्रहे। मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिःश्रुत्यन्तरे त्वस्ति। तैत्तिरीयकाः समामनन्ति
“सत्यं ज्ञानमनन्तंब्रह्मेति” प्रकृत्य
“तस्माद्वा एतस्मादात्मन आकाशः सम्भूत” इति। ततश्च श्रुत्योर्विप्रतिषेधः क्वचित्तेजःप्रमुखा सृष्टिःक्वचिदाकाशप्रमुखेति। नन्वेकवाक्यताऽनयोः श्रुत्यो-र्युक्ता। सत्यं युक्ता न तु सावगन्तुं शक्यते कुतः
“तत्ते-जोऽसृजतेति” सकृच्छ्रु तस्य स्रष्टुः स्रष्टव्यद्वयेन सम्ब-न्धानुपपत्तेः तत्तेजोऽसृजत तदाकाशमसृजतेति। ननुसकृच्छ्रुतस्य कर्त्तुः कर्त्तव्यद्वयेन सम्बन्धो दृश्यते यथा ससूपं पक्त्वौदनं पचतीति। एवं तदाकाशं सृष्ट्वा ते-[Page0594-b+ 38] जोऽसृजतेति योजयिष्यामः। नैवं युज्यते प्रथमजत्वं हिछान्दोग्ये तेजसोऽवगम्यते तैत्तिरीयके त्वाकाशस्य। नचो-भयोः प्रथमजत्वं सम्भवति। एतेनेतरश्रुत्यक्षरविरो-घोऽपि व्याख्यातः। तस्माद्वा एतस्मादात्मन आकाशःसम्भूत इत्यत्रापि तस्मात् आकाशः सम्भूतस्तस्मात्तेजःसम्भूतमिति सकृच्छुतस्यापादानस्य सम्भवनस्य च विय-त्तेजोभ्यां युगपत्सम्बन्धानुपपत्तेः। वायोरग्निरितिच पृथगाम्नानात्। अस्मिन् विप्रतिषेधे कश्चिदाह।
“गौण्यसम्भवात्” सू॰। नास्ति वियत उत्पत्तिः अश्रुतेरेव। या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणीभवितुमर्हति। कस्मात्? असम्भवात्। नह्याकांशस्योत्-पत्तिः सम्भावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिषुजीवत्सु। ते हि कारणसामग्र्यसम्भवादाकाशस्योत्-पत्तिं वारयन्ति। समवाय्यसमवायिनिमित्तकारणेभ्योहि किल सर्व्वमुत्पद्यमानमुत्पद्यते। द्रव्यस्य चैकजाती-मनेकञ्च द्रव्यं समवायि कारणम्भवति। नचाकाशस्यैकजा-तीथमनेकञ्च द्रव्यमारम्भकमस्ति यस्मिन् समवायिकारणेऽसमवायिकारणे च तत्संयोगे आकाशमुत्पद्येत। तद-भावात्तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेवाकाशस्यभवति। उत्पत्तिमताञ्च तेजःप्रभृतीनां पूर्ब्बोत्तरकालयो-र्विशेषः सम्भाव्यते प्रागुत्पत्तेः प्रकाशादिकार्य्यं नबभूव पश्चाच्च मवतीति। आकाशस्य पुनर्न पूर्ब्बोत्तरकाल-योर्विशेषः सम्भावयितुं शक्यते। किं हि प्रागुत्पत्तेर-नवकाशमशुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम्। पृथिव्यादिवैधर्म्म्याच्च विभुत्वादिलक्षणादाकाशस्याजत्वसिद्धिः। तस्माद्यथा लोके आकाशं कुरु आकाशो-जात इत्येवं जातीयको गौणः प्रयोगो भवति यथा चघटाकाशः करकाकाशो गृहाकाश इत्येकस्याप्याकाशस्यैवं-जातीयको भेदव्यपदेशो भवति। वेदेऽपि आरण्याना-काशेष्वालभेरन्निति। एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्याभा॰
“शब्दाच्च” सू॰। शब्दःखल्वप्याकाशस्याजत्वं ख्याप-यति। अत आह
“वायुश्चान्तरिक्षञ्चैतदमृतमिति” न चामृतस्योत्पत्तिरुपपद्यते।
“आकाशवत् सर्व्वगतश्च नित्यइति” चाकाशेन ब्रह्मणोनित्यत्वसर्व्वगतत्वाभ्यां धर्म्माभ्या-मुपसिमानः आकाशस्यापि तौ धर्म्मौ सूचयति। न चतादृशस्योत्पत्तिरुपपद्यते। यथाऽनन्तोयमाकाश एवमनन्त-आत्मा वेदितव्य इति चोदाहरणम्। आकाशशरीरं ब्रह्मआकाशआत्मेति। नह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मण-[Page0595-a+ 38] स्तेन विशेषणं सम्भवति नीलेनेवोत्पलस्य। तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते” भा॰।
“स्याच्चैकस्यब्रह्मशब्दवत्” सू॰। इदंपदोत्तरं सूत्रम्। स्यादेतत् कथंपुनरेकस्य सम्भूतशब्दस्य तस्माद्वा एतस्मादात्मन आकाशःसम्भूत इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्त्तमानस्यमुख्यत्वं आकाशे च गौणत्वमिति। अत उत्तरमुच्यते। स्याच्चैकस्यापि सम्भूतशब्दस्य विषयविशेषवशाद्गौणोमुख्यश्चप्रयोगः ब्रह्मशब्दवत्। यथैकस्यापि ब्रह्मशब्दस्य
“तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्म” इत्यस्मिन्नधिकारेऽन्नादिषु गौणःप्रयोग आनन्दे च मुख्यः यथा च तपसि ब्रह्मविज्ञान-साधने ब्रह्मशब्दोभक्त्या प्रयुज्यते अञ्जसा तु विज्ञेये ब्रह्मणितद्ववत्। कथं पुनरनुत्पत्तौ नभसः
“एकमेवाद्वितीय” मि-तीयं प्रतिज्ञा समर्थ्यते। ननु नभसा द्वितीयेन सद्वितीयंब्रह्म प्राप्नोति, कथञ्च ब्रह्मणि विदिते सर्व्वं विदितं स्या-दिति। तदुच्यते। एकमेवेति तावत्कार्य्यापेक्षयोपपद्यते। यथा लोके कश्चित् कुम्भकारकुले पूर्ब्बेद्युर्मृदं दण्ड-चक्रादीनि चोपलभ्यापरेद्युश्च नानाविधान्यमत्राणि प्रसा-रितान्युपलभ्य ब्रूयात् मृदेवेहैकाकिनी पूर्ब्बेद्युरासी-दिति। स च तयावधारणया मृत्कार्य्यजातमेव पूर्ब्बेद्यु-र्नासीदित्यभिप्रेयात् न चक्रदण्डादि तद्वत्। अद्वितीयश्रुतिरधिष्ठात्रन्तरं वारयति यथा मृदोऽमत्रप्रकृतेःकुम्भकारोऽधिष्ठाता दृश्यते नैवं ब्रह्मणोजगत्प्रकृतेरन्योऽधि-ष्ठितास्तीति। न च नभसापि द्वियीयेन सद्वितीयं ब्रह्म-प्रसज्यते। लक्षणान्यत्वनिमित्तं हि नानात्वं न चप्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति। क्षीरोदकयोरिवसंसृष्टयोर्व्यापित्वामूर्त्तत्वादिधर्म्मसामान्यात्। सर्गकालेतु ब्रह्म जगदुपादयितुं यतते स्तिमितमितरत्तिष्ठति ते-नान्यत्वमवसीयते। तथाकाशशरीरं ब्रह्मेत्यादि श्रुति-भ्योपि ब्रह्माकाशयोरभेदोपचारसिद्धिः। अतएव चब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः। अपि च सर्वं कार्य्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते ब्र-ह्मणा चाव्यतिरिक्तदेशकालमेवाकाशं भवतीत्यतो ब्रह्मणातत्कार्य्येण च विज्ञातमेवाकाशं भवति यथा क्षीरपूर्णे घटे-कतिचिदबिवन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीताभवन्ति। न हि क्षीरग्रहणादब्विन्दुग्रहणं परिशिष्यतेएवं ब्रह्मणा तत्कार्य्यैश्चाव्यतिरिक्तदेशकालत्वाद्गृहीत-मेव ब्रह्मग्रहणेन नभो भवति। तस्माद्भाक्तं नभसः सम्भ-वश्रवणमिति एवं प्राप्ते इदमाह।
“प्रतिज्ञाऽहानिरव्यति-[Page0595-b+ 38] रेकात्शब्देभ्य”। सू॰
“येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातंविज्ञातमिति”
“आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदंसर्वं विदितमिति”
“कस्मिन्नु भगवोविज्ञाते सर्वमिदं विज्ञातंमवतीति” न काचन सद्बहिर्वा विद्यास्तीति
“चैवंरूपा प्रति-वेदान्तं प्रतिज्ञा विज्ञायते तस्याः प्रतिज्ञाया एवमहा-निरनुपरोधः स्यात् यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्यविज्ञेयाद्ब्रह्मणः स्यात्। व्यतिरेके हि सत्येकविज्ञानेन सर्वंविज्ञायत इतीयं प्रतिज्ञा हीयेत। सचाव्यतिरेक एवमुपपद्यतेयदि कृत्स्नं वस्तुजातमेकस्मात् ब्रह्मण उत्पद्यते। शब्देभ्यश्चप्रकृतिविकारव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते। तथाहि
“येनाश्रुतं श्रुतं भवतीति” प्रतिज्ञाय मृदादिदृष्टान्तैःकार्य्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते। तत्साध-नायैव चोत्तरे शब्दाः
“सदेव सोम्येदमग्र आसीत्”
“एकमेवाद्वितीयं ब्रह्म”
“तदैक्षत तत्तेजो सृजते” इत्येवंकार्य्यजातंब्रह्मणः प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति
“ऐतदात्म्यमिदं सर्व्वम्” इत्यारम्या प्रपाठकपरिसमाप्तेः। तद्तद्याकाशं न ब्रह्मकार्यंस्यात् न ब्रह्मणि विज्ञाते आकाशं विज्ञायेत ततश्च प्रतिज्ञा-हानिः स्यात्। न च प्रतिज्ञाहान्या वेदस्याप्रामाण्ययुक्त कर्त्तुम्। तथा च प्रतिवेदान्तं ते ते शब्दास्तेन तेनदृष्टान्तेन तामेव प्रतिज्ञां ज्ञापतन्ति
“इदं सर्वं यदयमात्मा”
“ब्रह्मैवेदममृतं पुरस्तात्” इत्येवमादयः। तस्मात् ज्वलना-दिवदेव गगनमप्युत्पद्यते। यदुक्तमश्रुतेर्न वियदुपद्यत इतितदयुक्तं वियदुत्पत्तिविषयस्य श्रुत्यन्तरस्य दर्शितत्वात्
“तस्माद्वा एतस्मादात्मन आकाशः सम्भूत” इति। सत्यंदर्शितं विरुद्धन्तु
“तत्तेजोऽसृजत” इत्यनेन श्रुत्यन्तरेण। न एकवाक्यत्वात् सर्वश्रुतीनाम्। भवत्वेकवाक्यत्वमविरु-द्धानाम् इह तु विरोध उक्तः। सकृच्छ्रुतस्थ स्रष्ठुः स्रष्टव्यद्वयसम्बन्धासम्भवात्, द्वयोश्च प्रथमजत्वासम्भवाद्विकल्पासम्भवाच्चेति। नैष दोषः तेजःसर्गस्य तैत्तिरीयकेतृतीयत्वश्रवणात्
“तस्माद्वा एतस्मादात्मन आकाशःसम्मूतः आकाशाद्वायुः वायोरग्रिरिति”। अशक्या हीयंश्रुतिरन्यथा परिणेतुम्। शक्या तु परिणेतु छान्दोग्यश्रुतिःतदाकाशं वायुञ्च सृष्ट्वा
“तत्तेजोऽसृजतेति”। न हीयंश्रुतिस्ते जोजनिप्रधाना सती श्रुव्यन्तरप्रसिद्धामाकाश-स्योत्पत्तिं वारयितु शक्नाति एकस्य वाक्यस्य व्यापार-द्वयासम्भवात्। स्रष्टा त्वेकोपि क्रमेणानेक स्रष्टव्यंसृजेत् इत्येकवाक्यत्वकल्पनायां सम्भवन्त्यां न विरुद्धार्थत्वेनश्रतिर्हातव्या। नचास्माभिः सकृच्छ्रतस्य स्रश्चु। स्रष्टव्यद्वय[Page0596-a+ 38] सम्बन्धोऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात्। यथा च
“सर्वं खल्विदं ब्रह्म तज्जलान्” इत्यत्र साक्षादेवसर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्त-रविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति एवं तेजसो-पि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुख-सुत्पत्तिक्रमं वारयितुमर्हति। ननु शमविधानार्थमेत-द्वाक्यं
“तज्जलानिति शान्त उपासीतेति” श्रुतेः नैतत्सृष्टि-वाक्यं न तस्मादेतत्प्रदेशान्तरप्रसिद्धं क्रममनुरोद्धुमर्हति।
“तत्तेजोसृजतेत्येतत्सृष्टिवाक्यं तस्मादत्र यथाश्रुति क्रमो-ग्रहीतव्य इति। नेत्युच्यते। न हि तेजःप्राथम्यानुरो-धेन श्रुत्यन्तरप्रसिद्धोवियत्पदार्थः परित्यक्तव्यो भवतिपदार्थधर्म्मत्वात् क्रमस्य। अपि च तत्तेजोऽसृजतेति नात्रक्रमस्य वाचकः कश्चित् शब्दोऽस्ति अर्थात्तु क्रमोगम्यते स चवायोरग्निरित्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्य्यते। विकल्पसमुच्चयौ तु वियत्ते जसोः प्रथमजत्वविषयौ असम्भवान-भ्युषगमाभ्यां निवारितौ। तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः। अपि च छान्दोग्ये
“येनाश्रुतं श्रुतं भवतितो” त्येतां प्रतिज्ञांवाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातामपि वियदुत्पत्ता-वुपसंख्यातव्यं किमङ्ग पुनस्तेत्तिरीयके समाख्यातं न संगृ-ह्यते। यच्चोक्तमाकाशस्य सर्वेणानन्यदेशत्वात् ब्रह्मणातत्कार्य्यैश्च सह विदितमेव तद्भवति अतो न प्रतिज्ञा ही-वते। न च
“एकमेवाद्वितीयमिति” श्रुतिकोपो भवति क्षीरोद-कवत् ब्रह्मनभमोरव्यतिरकोपपत्तेरिति। अत्रोच्यते न क्षी-रोदकन्यायेनेदमेकविज्ञानेन सर्व्वविज्ञानं नेतव्यम्। मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यावेनैवेदं सर्व-विज्ञानं नेतव्यमिति गम्यते। क्षीरोदकन्यायेन सर्वविज्ञानंकल्प्यमानं न सम्यग्विज्ञानं स्यात्। न हि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्ज्ञानगृहीतत्वमस्ति। न च वेदस्यपुरुषाणामिव मायालोकवञ्चनादिभिरर्थावधारणमुपपद्यते। सावधारणा चेयम्
“एकमेवाद्वितीयमिति” श्रुतिः क्षीरो-दकन्यायेन नीयमाना पीड्येत। न च स्वकार्य्यापेक्षयैवेदंवस्त्वकदेशविषयं सर्वविज्ञानमेकाद्वितीयतावधारणञ्चेतिन्याय्यम्। मृदादिष्वपि हि तत्सम्भवान्न तदपूर्ब्बवदुपन्य-सितव्यम्भवति
“श्वेतकेतो यन्नुसोम्येदं महामना अनूचान-मानीस्तब्धोऽस्युत तमादशमप्राक्षोयेनाश्रुतं श्रुतम्भवती” त्या-दिना। तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्यब्रह्मकार्य्यत्वापेक्षयोपन्यस्यत इति द्रष्टव्यम्। यत् पुनरेत-दुकमसम्भवाद्गौणी गगनस्योत्पत्तिश्रुतिरिति। अत्र[Page0596-b+ 38] व्रूमः
“यावद्विकारन्तु विभागो लोकवत्” सू॰। तु शब्दीऽ-सम्भवाशङ्काव्यावृत्त्यर्थः। न खल्वाकाशोत्पत्तावसम्भवाशङ्काकर्त्तव्या यतोयावत् किञ्चित् विकारजातं दृश्यतेघटघटिकोदञ्चनादि वा कटककेयूरकुण्डलादि वासूचीनाराचनिस्त्रिंशादि वा तावानेव विभा-गोलोके लक्ष्यते नत्वविकृतं किञ्चित् कुतश्चिद्विभ-क्तमुपलभ्यते। विभागश्चाकाशस्य पृथिव्यादिभ्योऽ-वगम्यते तस्मात् सोऽपि विकारो भवितुमर्हति। एतेन दि-क्कालमनःपरमाणूनां कार्य्यत्वं व्याख्यातम्। नन्वात्मापिआकादिभ्यो विभक्त इति तस्यापि कार्य्यत्वं घटादिवत्प्राप्नोति, न
“आत्मन आकाशः सम्भूत इति श्रुतेः। यदिह्यात्मापि विकारः स्यात्तस्मात् परमन्यन्न श्रुतमित्याका-शादि सर्व्वं कार्य्यं निरात्मकमात्मनः कार्य्यत्वे स्यात् तथाच शून्यवादः प्रसज्येत। आत्मत्वादेवात्मनो निराकरणशङ्कानुपपत्तिः। नह्यत्मागन्तुकः कस्यचित्, स्वयंसिद्ध-त्वात्। नह्यत्मात्मनः प्रमाणमपेक्ष्य सिध्यति। तस्य हिप्रत्यक्षादीनि प्रमाणान्यन्यसिद्धये उपादीयन्ते। नह्याका-शादयः पद्रार्थाः प्रमाणनिरपेक्षाः स्वयंसिद्धाः केनचि-दभ्युपगम्यन्ते। आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात् सिद्ध्यति। नचेदृशस्य नराकिरणंसम्भवति। आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम्। य एव हि निराकरणकर्त्ता तदेव तस्य स्वरूपम्। नह्यग्ने-रौष्ट्यमग्निना निराक्रियते। तथाहमेवेदं जानामि वर्त्तमानंवस्तु अहमेवातीततरञ्चाज्ञासिषम् अहमेवानागततरञ्च ज्ञा-स्यामीत्यतीतानागतवर्त्तमानभावेनान्यथाभवत्यपि ज्ञातव्येन ज्ञातुरन्यथाभावोऽस्ति सर्वदा वर्त्तमानस्वभावत्वात्। तथा भस्मीभवत्यपि देहे नात्मन उच्छेदोवर्त्त मानस्वभाव-त्वादन्यस्वभावत्वं वा न सम्भावयितुं शक्यम्। एवमप्रत्याख्येयस्वभावत्वादेवाकार्य्यत्वमात्मनः कार्यत्वञ्चाकाशस्य। यत्तूक्तं स्वसमानजातीयमनेकं कारणद्रव्यं व्योम्नोनास्तीतितत्प्रत्युच्यते। न तावत् स्वसमानजातीममेवारभते न भिन्नजा-तीयमिति नियमोऽस्ति न हि तन्तूनां तत्संयोगानाञ्चसमानजातीयत्वमस्ति द्रव्यत्वगुणत्वाभ्युपगमात्। न च निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति। स्यादेतत् समवायिकारणविषयएव समानजातीयत्वाभ्युप-गमो न कारणान्तरविषय इति तदप्यनैकान्तिकम्। सूत्रगो-बालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते। तथासूत्रैरूर्णादिभिश्च विचित्रान् कम्बलान् वितन्वते। सत्त्व-[Page0597-a+ 38] द्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमान-र्थक्यम् सर्वस्य सर्वेण समानजातीयत्वात्। नाप्यनेकमेवा-रभते नैकमिति नियमोऽस्ति अणुमनसोराद्यकर्मारम्भा-भ्युपगमात्। एकैकोहि परमाणुर्मनश्चाद्यं स्वकर्म्मारभते नद्रव्यान्तरैः संहत्येत्यभ्युपगम्यते। द्रव्यारम्भ एवानेकद्रव्या-रम्भकत्वनियम इति चेन्न परिणामाभ्युपगमात्। भवेदेषनियमो यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकम-भ्युपगम्येत तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यंनामाभ्युपगम्यते तच्च क्वचिदनेकं परिणमते मृद्वीजाद्यङ्कु-रादिभावेन क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन। नेश्वरशासनमस्ति अनेकमेव कारणं कार्यं जनयतीति। अतः शास्त्रप्रामाण्यादेकस्माद्ब्रह्मण आकाशादि महाभू-तोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते। तथा चोक्तं
“उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धीति”। यच्चोक्त-माकाशोत्पत्तौ न पूर्ब्बोत्तरकालयोर्विशेषः सम्भावयितुंशक्यत इति तदयुक्तं येनैव हि विशेषेण पृथिव्यादिभ्योव्यतिरिच्यमाणं नभः स्वरूपवदिदानीमध्यवसोयते स एवविशेषः प्रागुत्पत्तेर्नासीदिति गम्यते। यथा च न ब्रह्म-स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत्
“अस्थूलमन-ण्वित्यादि” श्रुतिभ्यः एवमाकाशस्वभावेनापि न स्वभाववत्अनाकाशमिति श्रुतेरवगम्यते। तस्मात् प्रागुत्पत्तेरना-काशमच्छिद्रमिति स्थितम्। यदप्युक्तं पृथिव्यादिवैधर्म्या-दाकाशस्याजत्वमिति तदप्यसत्। श्रुतिविरोधे सत्युत्प-त्त्यसम्भवानुमानस्याभासत्वोपपत्तेः उत्पत्त्यनुमानस्य चदर्शितत्वात् अनित्यमाकाशमनित्यगुणाश्रयत्वात् घटादिव-दित्यादिप्रयोगसम्भवाच्च। आत्मनानैकान्तिकमिति चेन्नतस्यौपनिषदं प्रति अनित्यगुणाश्रयत्वासिद्धेः। विभुत्वादीना-ञ्चाकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात्। यच्चैतदुक्तंशब्दाच्चेति। तत्रामृतत्वश्रुतिस्तावद्वियति
“अमृता दिवौकसइतिवद्द्रष्टव्या उत्पत्तिप्रलययोरुपपादित्वात्।
“आका-शवत् सर्व्वगतश्च नित्यः” इत्यपि प्रसिद्धमहत्त्वेनाकाशे-नोपमानं क्रियते निरतिशयमहत्त्वाय नाकाशसमानत्वाय। यथेषुरिव सविता धावतीति क्षिप्रगतित्वायोच्यते नेषुतुल्य-गतित्वाय तद्वत्। एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता।
“ज्यायानाकाशादिति” श्रुतिभ्यश्च ब्रह्मणः सकाशात् आका-शस्योनपरिमाणत्वसिद्धिः।
“न तस्य प्रतिमास्तीति चब्रह्मणोऽनुपमानत्वं दर्शयति।
“अतोऽन्यदार्त्तमिति” चब्रह्मणोऽन्येषामाकाशादीनामार्त्तत्वं दर्शयति। तपसि[Page0597-b+ 38] ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसम्भवश्रुत्यनुमानाभ्यां परिहृतम्। तस्मादब्रह्मकार्यं वियदितिसिद्धम्”। तस्य जन्यत्वेऽपि आप्रलयस्थायित्वात् गौणनित्यत्वम्। वैशे-षिकाणां नित्यत्वानुमानं तु बलवदागमविरुद्धत्वात् नरक-पालशुचित्वानुमानवत् बाधितमिति द्रष्टव्यम्। सांख्यमतेदिक्कालयोराकाशएवान्तर्भावः अतएव सां॰ कौमुद्याम्कालरूपतत्त्वान्तरं निराकृतं यथा
“कालश्च वैशेषिकाभिमतएकोन अनागतादिव्यवहारभेदं प्रवर्त्तयितुमर्हतीति तस्मा-दयं यैरुपादिभेदैरनागतादिभेदं प्रतिपद्यते सन्तु त एवो-पाधयोऽनागतादिव्यवहारहेतवः कृतमत्रान्तर्गडुना कालेनेति सांख्याचार्य्याः तस्मान्न कालरूपतत्त्वान्तराभ्युपगमइति” सूत्रे तु आकाशप्रकृतिकत्वं तयोरुक्तम् यथा
“दिक्कालावाकाशादिभ्यः” सू॰। नित्यौ यौ दिक्वालौतावाकाशप्रकृतिभूतौ प्रकृतेर्गुणविशेषावेव। अतो दिक्काल-योर्विभुत्वोपपत्तिः।
“आकाशवत् सर्वगतश्च नित्य” इत्यादिश्रुत्युक्तं विभुत्वं चाकाशस्योपपन्नम्। यौ तु खण्डदिक्कालौतौ तु तत्तदुपाधिसंयोगादाकाशादुत्पद्येते इत्यर्थः। आदिशब्देनोपाधिग्रहणमिति। यद्यपि तत्तदुपाधि-विशिष्टाकाशमेव खण्डदिक्कालौ तथापि विशिष्टस्यातिरिक्तताभ्युपगमवादेन वैशेषिकनयेनास्य कार्य्यतावत् तत्कार्य्य-त्वमत्रोक्तम्” सां॰ भा॰। पदार्थखण्डने शिरोमणिनाअस्य ईश्वरस्वरूपानतिरेक उक्तः
“दिक्कालावीश्वरान्नाति-रिच्येते गगनमपि तथेति”। सौगतमतसिद्धेआवरणाभावरूपे निरुपाख्ये
२ पदार्थभेदे च। तदेतत्मतम्” शा॰ सू॰ भाष्ययोर्निराकृतम्
“आकाशे चाभावात्” सू॰।
“यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशञ्च निरु-पाख्यमिति तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निरा-कृतम् आकाशस्येदानीं निराक्रियते। आकाशे चायुक्तो-निरुपाख्यत्वाभ्युपगमः प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव-वस्तुत्वप्रतिपत्तेरविशेषात् आगमप्रामाण्यात्तावदात्मनःआकाशःसम्भूतैत्यादि श्रुतिभ्यः आकाशस्य वस्तुत्वसिद्धिः। विप्रतिपन्नानपि प्रति शब्दगुणानुमेयत्वं वक्तव्यं गन्धादीनांगुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात्। अपि चाव-रणाभावमात्रमाकाशमिच्छतस्तव एकस्मिन्सुपर्ण्णे पतत्यावर-णस्य विद्यमानत्वात् सुपर्ण्णान्तरस्य पित्सतोऽनवकाशत्वप्रसङ्गःयत्रावरणाभावस्तत्र पतिष्यतीति चेत् येनावरणाभावो विशि-ष्यते तत्तर्हि वस्तु भूतमेवाकाशं स्यान्नावरणाभावमात्रम्[Page0598-a+ 38] अपि चावरणाभावमात्रमाकाशं मन्यमानस्य सौगतस्यस्वाभ्युपगमविरोधः प्रसज्येत। सौगते हि समये पृथिवी-भगवन्! किंसन्निश्रयेत्यस्मिन् प्रश्नप्रतिवचनप्रवाहेपृथिव्यादीनामन्ते वायुः किंसन्निश्रय इत्य स्य प्रश्नस्य प्रति-वचनं भवति वायुराकाशसन्निश्रय इति तदाकाशस्यावस्तुत्वेन समञ्जसं स्यात् तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम्। अपिच निरोधद्वयमाकाशञ्च त्रयमप्येतन्निरुपाख्यमवस्तु नित्यञ्चेतिविप्रतिषिद्धं नह्यवस्तुनोनित्यत्वमनित्यत्वं वा सम्भवति वस्त्वा-श्रयत्वाद्धर्म्मधर्म्मिव्यवहारस्य। धर्म्म धर्मिभावे हि घटादिव-द्वस्तुत्वमेव स्यात् न निरुपाख्यत्वम्” भा॰। आ समन्तात्काशते अच्।
“रतिमाकाशभवा सरस्वती” कु॰
“आकाशगङ्गापयसः पतेताम्” माघः आकाशात्तु विकु-र्व्वाणात् सर्व्वशब्दवहः शुचिः मनुः”
“घटसंवृतआकाशेनीयमाने यथा घटे” सां॰ प्र॰ भा॰
“आकाशो जायतेतस्मात् तस्य शब्दगुणः स्मृतः” मनुः। रूपादिषु मध्येशब्दमात्रग्राहकतया श्रोत्रस्याकाशात्मकत्वेऽपि कर्ण्णशस्कु-न्तीरूपोपाधिभेदान्नानात्वमौपाधिकमेकस्यादिशः प्राचीत्वा-दिवत् एकस्य कालस्य क्षणादित्ववच्च।
३ परब्रह्मणि
“आकाशोहवै नामरूपयोर्निर्वर्हिता ते यदन्तरा तदन्वेष्टच्यंतद्वाव विजिज्ञासितव्यम्” श्रुतिः
“यावानयमाकाशस्तावान-यमन्तर्हृदयाकाश” इति छा॰ उ॰।
“आकाशस्तल्लिङ्गात्” शा॰ सू॰।
“आकाशवत् सर्वगतश्च नित्यः” श्रुतिः गीताच।
४ छिद्रे गणितादिप्रसिद्धे
५ शून्याङ्के च।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकाश¦ mn. (-शः-शं)
1. The fifth element, æther, the sky or atmosphere.
2. Brahm as indentical with æther.
3. Space, vacuity. E. आङ् and काशृ to shine, घञ् affix; every where shining; Akash is the subtle and æthereal fluid, supposed to fill and pervade the universe, and to be the peculiar vehicle of life and sound.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकाशः [ākāśḥ] शम् [śam], शम् [समन्तादाकाशन्ते सूर्यादयो$त्र Tv.]
The sky आकाशभवा सरस्वती Ku.4.39; ˚ग, ˚चारिन् &c.
Ether (considered as the fifth element).
The subtle and ethereal fluid pervading the whole universe; one of the 9 dravyas or substances recognized by the Vaiśe- ṣikas. It is the substratum of the quality 'sound'; शब्दगुणमाकाशम्; cf. also श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् Ś.1.1; अथात्मनः शब्दगुणं गुणज्ञः पदं (scil. आकाशम्) विमानेन विगाहमानः R.13.1.
Free space or vacuity; यश्चायमन्त- रात्मन्नाकाशः Bṛi. Up.
Space, place in general; सपर्वत- वनाकाशां पृथिवीम् Mb.; भवनाकाशमजायताम्बुराशिः Bv.2.165. open space (not covered or surrounded by anything); मुनयः सलिलाहारा वायुभक्षास्तथापरे । आकाशनिलयाश्चैव तथा स्थण्डि- लशायिनः ॥ Rām.3.6.4.
Brahman (as identical with ether); आकाशस्तल्लिङ्गात् Br. Sūt.1.1.22; यावानयमाकाश- स्तावानयमन्तर्हृदयाकाशः Ch. Up.8.1.3.
Light, clearness.
A hole.
A dot, zero (in Math.). आकाशे in the air; आकाशे लक्ष्यं बद्ध्वा fixing the look on some object out of sight. आकाशे in the sense of 'in the air' is used in dramas as a stage-direction when a character on the stage asks questions to some one not on the stage, and listens to an imaginary speech supposed to be a reply, which is usually introduced by the words किं ब्रवीषि, किं कथयसि &c.; दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् । परोक्षान्तरितं वाक्यं तदाकाशे निगद्यते ॥ Bharata; cf. आकाशभाषितम् below; (आकाशे) प्रियंवदे, कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । (श्रुतिमभिनीय) किं ब्रवीषि &c. Ś.3. This is a contrivance used by poets to avoid the introduction of a fresh character, and it is largely used in the species of dramatic composition called भाण where only one character conducts the whole play by a copious use of आकाशभाषित. -Comp. -अनन्त्यायतनम् the abode of infinity or of infinite space; N. of a world with the Buddhists. -अस्तिकायः N. of a category with the Jainas; धर्माधर्माकाशास्तिकायास्ते Sarva. S.3.
ईशः an epithet of Indra.
(in law) any helpless person (such as a child, a woman, a pauper) who has no other possession than the air. आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः Ms.4.184. -कक्षा 'the girdle of the sky', horizon. -कल्पः Brahman. -गः a. moving through the atmosphere. (-गः) a bird. (-गा) the heavenly Ganges. -गङ्गा [आकाशपथवाहिनी गङ्गा] the celestial Ganges; नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे R.1.78; cf. also उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् Si.3.8.-गर्भी m. N. of a Bodhisattva. -चमसः the moon.-ज a. produced in the sky. -जननिन् m. a casement, loophole, an embrasure (left in castle walls); प्रगण्डीः कारयेत्सम्यगाकाशजननीस्तदा Mb.12.69.43.
दीपः, प्रदीपः a lamp lighted in honour of Lakṣmī or Viṣṇu and raised on a pole in the air at the Divāli festival in the month of Kārtika.
a beacon-light, a lantern on a pole. -पथिकः The sun; Ks. -प्रतिष्ठितः N. of a Buddha.-बद्धलक्ष (in Nāṭaka) fixing the gaze on some object out of sight; ततः प्रविशति आकाशबद्धलक्षः उन्मत्तवेषो राजा V.4.
भाषितम् speaking off the stage, a supposed speech to which a reply is made as if it had been actually spoken and heard; किं ब्रवीषीति यन्नाटये विना पात्रं प्रयुज्यते । श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाशभाषितम् S. D.425.
a sound or voice in the air. -मण्डलम् the celestial sphere.-मांसी [आकाशभवा मांसी] N. of a plant क्षुद्रजटामांसी).-मुखिन् pl. N. of Śaiva sect, the adherents of which keep their faces turned towards the sky. -मुष्टिहननाय Ā. To be foolish like one who beats the air with his fist; Sarva. S. -मूली the equatic plant (कुम्भिका) Pistia Stratiotes (Mar. शेवाळ).
यानम् a heavenly car, a balloon. cf. वायुबन्धकवस्त्रेण सुबद्धो यानमस्तके । उदानस्य लघुत्वेन बिभर्त्याकाशयानकम् ॥ गरुत्मद्धंसैः कङ्कालैरन्यैः पक्षिगणैरपि । आकाशे वाहयेद् यानं विमानमिति संज्ञितम् ॥ -अगस्त्यसंहिता.
moving or travelling through the sky; आकाशयानेन प्रविशति enter passing through the sky (frequently occurring in dramas).
one who moves through the air.-रक्षिन् m. a watchman on the outer battlements of a castle (आकाश इव अत्युच्चप्राचीरोपरि स्थित्वा रक्षति). -वचनम् = ˚भाषितम् q. v. -वर्त्मन् n.
the firmament.
the atmosphere, air. -वल्ली a sort of creeper, a parasitical plant (अमरवेल; Mar बांडगूळ). -वाणी a voice from heaven, an incorporeal speech (अशरीरिणी वाणी). -शयनम् Sleeping in the open air; निवृत्ताकाशशयनाः Rām.3.16.12.-सलिलम् rain; dew. -स्थ a. abiding in the sky. aerial. -स्फटिकः a kind of crystal supposed to be formed in the atmosphere (two kinds सूर्यकान्त and चन्द्रकान्त); hail (करका).
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकाश/ आ-काश m. (Ved.) or (later) n. ( ifc. f( आ). )a free or open space , vacuity AitBr. S3Br. MBh. etc.
आकाश/ आ-काश m. the ether , sky or atmosphere Naigh. S3Br. Mn. etc.
आकाश/ आ-काश n. (in philos.) the subtle and ethereal fluid (supposed to fill and pervade the universe and to be the peculiar vehicle of life and of sound) Veda1ntas. etc.
आकाश/ आ-काश n. ब्रह्म(as identical with ether) L.
आकाश/ आ-काश n. = आकाश-भाषितbelow Comm. on S3ak.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a god to be worshipped in housebuilding. M. २५३. २४; २६५. ३९.
(II)--with दिक्; a स्थान of Rudra; son, Sarga. Vi. I. 8. 7-११.