यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशमय¦ पु॰ आकाश + प्रायार्थे मयट्। आकाशप्रायेआत्मनि।
“स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयोवाङ्मयः प्राणमयः चक्षुर्मयः श्रोत्रमय आकाशमयो वायु-मयस्तेजोमयः अम्मयः पृथिवीमयः” शत॰ ब्रा॰।
“योऽयमात्मनः संसारसंबन्धः स वास्तवो न भवति किन्त्वौपाधिक एवेति तदुपाघीन् दर्शयितुमात्मनो वास्तवरूपमाहस वा इति। स प्रकृतः संसारी अयमविद्यातत्कार्य्यविनि-र्मुक्तः स्वप्रकाशोऽपरोक्षः आत्मा कूटस्थःसाक्षी चिद्धातुरेव-म्भूतः सोऽयमात्मा वै ब्रह्म अशनायाद्यतीतः परमात्मैव। ब्रह्मैव सन्नयमात्माऽविद्ययाऽब्रह्मवत् प्रतिपन्नः पुनः सम्यग्-ज्ञानात्तत्प्रध्वंसे ब्रह्मैवावतिष्ठतैति भावः। इदानींयत्प्रयुक्तमेवंविधब्रह्मात्मनो बन्धस्तानुपाधीनाह विज्ञा-नमय इति विज्ञानं बुद्धिस्तत्प्रायः बुद्धेरैक्याध्यासाद्धितद्धर्म्मस्य कर्त्तृत्वादेरात्मनि आरोपितत्वं तत्प्रायत्वम्। अस्मिन् प्रकरणे सर्वोऽपि मयट् प्रायार्थे न तु विकारार्थेतत्र तदसम्भवात्” शा॰ भाष्यम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशमय/ आ-काश--मय mfn. consisting of ether S3Br. xiv ( Br2A1rUp. )

"https://sa.wiktionary.org/w/index.php?title=आकाशमय&oldid=214335" इत्यस्माद् प्रतिप्राप्तम्