यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकीर्णम्, त्रि, (आङ् + कॄ श विक्षेपे + क्तः ।) व्याप्तं । तत्पर्य्यायः । संकीर्णं २ सङ्कुलं ३ । इत्यमरः । सभाकीर्णं ४ । इति शब्दरत्नावली ॥ (यथा, रघुवंशे । प्रथमसर्गे ५० श्लोकः । “आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः” ॥) जलादिभिर्निरवकाशं । इति भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=आकीर्णम्&oldid=115042" इत्यस्माद् प्रतिप्राप्तम्