यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारः, पुं, (आङ् + चर् + घञ्) व्यवहरः । तत्पर्य्यायः । चरित्रं २ चरितं ३ चारित्रं ४ चरणं ५ वृत्तं ६ शीलं ७ । इति हेमचन्द्रः ॥ स्नानाच- मनादिः । इति मानवे २ अध्याये ६९ श्लोक- टीकायां कुल्लूकभट्टः । व्यवहारः ॥ स तु विचारः । यथा वृहस्पतिः । “आचारेणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जितः पूर्ब्बं प्राङ्न्यायस्तु स उच्यते” ॥ इति व्यवहारतत्त्वं ॥ चरित्रं । एतद्विवरण सदा- चारशव्दे द्रष्टव्यं ॥ (रघुः । २ । १० । “आचार- लाजैरिव पौरकन्याः” ।)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचार¦ पु॰ आ + चर--भावे घञ।

१ आचरणेअमुष्ठाने स च[Page0631-a+ 38] अनुष्ठाननिवृत्त्यात्मकभावाभावरूपः तत्र सदाचारः वेद-स्मृत्यादिविहितः तत्र निषिद्धश्च कदाचारः इति भेदात्द्विविधः। सदाचारलक्ष्मोक्तं काशी॰।
“सदाचारे हि सर्वोऽर्थोनाचारात् रिष्यते पुनः। तस्मात् विप्रेण सततं भाव्यमा-चारशालिना। विद्वेषरागरहिता अनुतिष्ठन्ति यं द्विजाः। विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः”। प्रसङ्गादाचार-पदार्थो गिरूप्यते तत्र शा॰ सू॰ भा॰।
“चरणादितिचेन्नो-पलक्षार्थेति कार्ष्णाजिनिः” सू॰।
“अथापि स्यात्यां श्रुतिरनुशंयसद्भावप्रतिपादनायोहृता
“तद्यैह-रमणीयचरणा इति” सा खलु चरणाद्योन्यापत्तिं दर्शयतिनानुशयात्” अन्यच्चरणमन्योऽनुशयः
“चरणं चारित्रम्आचारःशीलमित्यनर्थान्तरम्। अनुशयस्तु भुक्तफलात्कर्म्म-णोऽतिरिक्तं कर्म्माभिप्रेतम्। श्रुतिश्च कर्मचरणे भेदेनव्यपदिशति
“यथाचारी तथा भवतीति यान्यनवद्यानिकर्म्माणि तानि सेवितव्यानि नेतराणि यान्यस्माकं सुच-रितानि तानिं त्वयीपास्यानीति च”। तस्माच्चरणाद्यो-न्यापत्तिश्रुतेर्नानुशयसिद्धिरितिचेन्नैष दोषः यतोऽनु-शयलक्षणार्थैवेषा चरणश्रुतिरिति कार्ष्णाजिनि-राचार्योमन्यते” भा॰।
“आनर्थक्यमिति चेन्न तदपेक्ष-त्वात्” शा॰ सू॰।
“स्यादेतत्कस्मात्पुनश्चरणशब्देन श्रौतंशीलं विहाय लाक्षणिकोऽनुशयः प्रत्याय्यते। ननु शीलस्यैवतु श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभ-योन्यापत्तिः फलं भविष्यति अवश्यञ्च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् अन्यथा ह्यानर्थक्यमेव शीलस्य प्रस-ज्येतेति चेन्नैष दोषः कुतः तदपेक्षत्वात् इष्टादि हि कर्म-जातं चरणापेक्षं न हि सदाचारहीनः कश्चिदधिकृतःस्यात्।
“आचारहीनं न पुनन्ति वेदा” इत्यादि स्मृतिभ्यःपुरुषार्थत्वादप्याचारस्य नानर्थक्यम्। इष्टादौ हि कर्म्म-जाते फलमारभमाणे तदपेक्षएवाचारस्तत्रैव कञ्चिदतिश-यमारप्स्यते कर्म च सर्व्वार्थकारीति श्रुतिस्मृतिप्रसिद्धिः। तस्मात्कर्म्मैव च शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारण-मिति कार्ष्णाजिनेर्मतम्। न हि कर्म्मणि संभवति शी-लाद्योन्यापत्तिर्युक्ता न हि पद्भ्यां पलायितुं पारयमाणो-जानुभ्यां रंहितुमर्हतीति” भा॰।
“सुकृतदुष्कृते एवेतिवादरिः” शा॰ सू॰
“वादरिस्त्वाचार्य्यः सुकृतदुकृते एव च-रणशब्देन प्रत्याय्येते इति मन्यते चरणमनुष्ठानं कर्मेत्य-नर्थान्तरम्। तथा ह्यविशेषेण कर्म्ममात्रे चरतिः प्रयुज्य-मानो दृश्यते यो हि इष्टादिलक्षणं पुण्यं कर्म करोति तं[Page0631-b+ 38] लौकिका आचक्षते धर्म्मं चरत्येष महात्मेति। आचारो-ऽपि धर्म्मविशेषएव। भेदव्यपदेशस्तु कर्म्म च रणयोर्ब्राह्मण-परिव्राजकन्यायेनाप्युपपद्यते। तस्माद्रमणीयचरणाः पुण्य-कर्म्माणः कपूयचरणा निन्दितकर्म्माण इति निर्णयः” मा॰। अत्र शीलाचारयोः पर्य्यायत्वोक्त्या
“वेदोऽखिलोधर्म्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधू-नामात्मनस्तुष्टिरेव च” मनुवचने शीलस्य पृथगुक्तिर्ब्राह्मणपरिव्राजकन्यायेनेति बोध्यम्। अतएवानन्तरंमनुनैव
“वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः। एतच्चतुर्विधं प्राहुः साक्षाद्धर्म्मस्य लक्षणम्” शील-स्याचारान्तर्भावाभिप्रायेण चतुष्कस्य धर्म्ममूलत्वमुक्तम्। शीलञ्च
“ब्रह्मण्यता देवपितृभक्तता, सौम्यता अपरोप-तापिता अनसूयता मृदुता, अपारुष्यं मैत्रता, प्रिय-वादित्वं कृतज्ञता, शरण्यता, कारुण्यं प्रशान्तिश्चेतित्रयोदशविधं शीलमिति” हारीतोक्तं तच्चाचार भेदएव। मेधातिथिस्तु शील समाधाविति धातोरूपमुक्त्वा
“शीलं समाधानम् समाधानञ्च मानसोव्यापारः यच्चेतसो-ऽन्यविषयेषु विक्षेपपरिहारेण शास्त्रार्थनिरूपणप्रवणतातच्छीलमुच्यते” इत्याह। तदप्याचार एवान्तर्भवति। तत्र सदाचाराणां वेदस्मृतिमूलकत्वेन तयोरेव तन्मू-लत्वं स्यान्नाचांराणामित्याङ्क्य यादृशाचारस्य धर्म्म-मूलत्वं तमाह मेधातिथिः।
“आचारोव्यवहारोऽनु-ष्ठानम्ं। यत्र श्रुतिस्मृतिवाक्यानि न सन्ति शिष्टाश्च धर्म्मे-बुद्ध्याऽनुतिष्ठन्ति तदपि वैदिकवत् प्रतिपत्तव्यम् यथाविवाहादौ कङ्कणधारणादि माङ्गलिकत्वेन यत् क्रियते। याच विवाहयिष्यमाणायाः कन्यायाः प्रख्यातवृक्षचतु-ष्पथादिपूजा देशभेदेनेत्यादि” एवं होलकाद्याचरणम्। ग्रन्थादौ देवतास्तुतिनमस्कारादिमङ्गलाचरणञ्च बोध्यम्। स्पष्टमुक्तं प्रयोगपारिजाते स्कन्धपु॰।
“न यत्र साक्षा-द्विधयो न निषेधाः श्रुतौ स्मृतौ। देशाचारकुलाचारैस्तत्रधर्म्मो निरूप्यते” अत्र न निषेधा इत्युक्तेः श्रुतिस्मृत्योर्विरोधे आचारस्य न प्रामाण्यमिति गम्यते। तच्चानु-पदं विवेक्तव्यम्। स च देशभेदात् कुलभेदात् पुरुष-मेदाच्च नानाविधः प्रातिस्विकरूपेण गणयितुमशक्यः। श्रुतिस्मृत्यविरुद्धः सर्व्वोऽपि सदाचारः धर्म्म मूलमतएवास्या-त्याज्यत्वमुक्तम्
“देशानुशिष्टं कुलधर्म्ममग्रां स्वजातिधर्म्मंन हि संत्यगेच्च”। एवं पित्र्याद्याचारोऽपि धर्म्ममूलतयाग्राह्यः
“येनास्य पितरोयाता येन याताः पितायहाः[Page0632-a+ 38] तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यते” मनूक्तेः। अत्र सम्मार्गमिति विशेषणात् कदाचारो न धर्म्ममूल-मिति गम्यते ततश्च षोडशिग्रहणाग्रहणयोरुदितानुदित-होमयोः वैकल्पिकयोरेव पित्राद्याचारस्य प्रामाण्यंतदज्ञाने आत्मतुष्टेः इति द्रष्टव्यम्। तदयं निर्गलि-तार्थः। यत्र श्रुतिस्मृतिद्वैधम् तत्र सदाचारदर्शनेनशास्त्रार्थं निश्चित्य सद्भिराचरितमार्गेणाचरणं प्रथमः कल्पः। तदसम्भवे तु पित्राद्याचारदर्शनेन एकतरपक्षाश्रयणंतस्याप्यज्ञाने आत्मतुष्टियेत्र तदेवाचरितव्यमिति। यत्र साक्षात् श्रुतिस्मृती मूलं नोपलभ्येते एवंविरुद्धार्थश्रुतिस्मृती वा नोलभ्येते तत्रापि सदाचारस्यधर्ममूलत्वम्
“न यत्र साक्षाद्विधयो न निषेधाः श्रुतौस्मृतौ” इति प्रागुक्तस्कान्दवाक्यात् यत्र तु विरु-द्धार्थश्रुतिस्मृती उपलभ्येते तत्र न सदाचारः प्रमा-णम् यथा दाक्षिणात्यानां शिष्टानां मातुलकन्यादिपरिणयनाद्याचारः। स त्वनाचारोऽपि तद्देशीयानां स्वल्प-दोषायेति व्यवस्थापितमनाचारशब्दे

१५

७ पृष्ठे दृश्यम्। सदाचारस्य च स्मृतेरिव न साक्षात् श्रुतिकल्पकताकिन्तु स्मृतिद्वारैवेति जैमिनीयन्यायमालायां प्रथमा-ध्याये निरूपितं तत्रैव विस्तरो दृश्यः। एवञ्च श्रुतेःस्मृत्युपजीव्यत्ववत् आचारस्य स्मृत्युपजीव्यतया ततोदुर्ब्ब-लत्वम् दुर्बलेन च तेन बलीयसोबाधायोगाच्च नाचारेणो-पजीव्यजातीयस्मृतिबाधोगुक्तः अतएव जैभिनिना
“विरोधे त्वनपेक्षमसति हानुमानमिति” सूत्रे उप-जीव्योपजीवकयोर्विरोधे उपजीवकस्यानपेक्षता अननु-ष्ठानम् असति तु विरोधे उपजीवकेन स्मृत्याचारपदा-र्थेन उपजीव्ययोः श्रुतिस्मृत्योरनुमानमित्युक्तम्” ततश्चस्मृतिविरोधे आचारस्य न प्रामाण्यमिति स्थितम्। अतएव दुर्बलत्वाभिप्रायेणैव भा॰ आ॰ प॰।
“धर्मंजिज्ञासामानानां प्रमाणं परमं श्रुतिः। द्वितीयं धर्म-शास्त्रञ्च तृतीयं लोकसंग्रहः” इति लोकाचारस्यतृतीयत्वं, श्रुतेः परमत्वोक्त्या च स्मृतेर्द्वितीयत्वमुक्तम्। स्पष्टमुक्तम्” प्रयो॰ पा॰ स्मृतौ।
“स्मृतेर्वेदविरोधे तुपरित्यागो यथा भवेत्। तथैव लौकिकाचारं स्मृति-बाधे परित्यजेत्”
“तदलाभे शिष्टाचारः प्रमाणम्” इतिवशिष्टेन शास्त्रालाभे एव शिष्टाचारस्य ग्राह्य-ताऽभिहिता। शिष्टाचारश्च यद्यपि देशभेदात्नानाविधः तथापि मनुना ब्रह्मार्वत्तदेशीयानामेव[Page0632-b+ 38] पारम्पर्य्यागताच्यरस्यैव सदाचारताया व्यवस्थापनात् तत्र-त्यपारम्पर्य्यक्रमगाताचारएव सदाचारः। ब्रह्मावर्त्तं परि-भाष्य यथाह मनुः
“तस्मिन् देशे य आचारः पारम्पर्य्य-क्रमागतः। वर्ण्णानां सान्तरलानां स सदाचार उच्यते” इति तथा
“कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः एषव्रह्मर्षिदेशोवै ब्रह्मावर्त्तादनन्तरम्। एतद्देशप्रसूतस्य। सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यांसर्वमानवाः” इति मनुना ब्रह्मर्षिदेशवासिविप्रसकाशात्सदाचारस्य शिक्षणीयत्वोपदेशात् तद्देशीयाचारोऽपि सदा-चार इति गम्यते। सदाचारोऽपि न केबलं शास्त्रामूलकःकिन्तु शास्त्रमूलकोऽपि तच्च शास्त्रं मानवादिसंहितादि। तत्र काशीखण्डे शास्त्रमृलकाः सदाचाराः समुच्चित्य-प्रशंसापूर्ब्बं केचित् दर्शिता यथा।
“लक्षणैः परिहीनोऽपि सम्यगाचारतत्परः। श्रद्धावाननसूयश्चनरोजीवेत्समाः शतम्। दुराचाररतोलोके गर्हणीयःपुमान् भवेत्। व्याधिभिश्चाभिभूयेत
“तथाल्पायुः सुदुः-खभाक्। त्याज्यं कर्म्म पराधोनं कार्य्यमात्मवशं सदा। दुःखी यतः पराधीनः सदैवात्मवशः सुखी। यस्मिन् कर्म्म-ण्यन्तरात्मा क्रियमाणे प्रसीदति। तदेव कर्म्म कर्त्तव्यं विप-रीतं न च क्वचित्। प्रथमं धर्म्मसर्वस्वं प्रोक्ता यन्नियमा-यमाः। अतस्तेष्वेव वै यत्नः कर्त्तव्योधर्म्ममिच्छता। सत्यंक्षमार्ज्जवं ध्यानमानृशस्यमहिं सनम्। दमः प्रसादोमा-धुर्य्यं भृदुतेति यमा दश। शौचं स्नानं तपोदानं मौनेज्या-व्ययनं ब्रतम्। उपोसनोपस्थदण्डोदशेति नियमाःस्मृताः। कामं क्रोधं मदं मोहं मात्सर्य्यं लोभमेव च। अमून् षट् वैरिणो जित्वा सर्वत्र विजयी भवेत्। शनैःशनैः सञ्चिनुयाद्धर्म्मं वल्मीकशृङ्गवत्। परपीडामकुर्व्वाणःपरलोकसहायकः। धर्म्मएव सहायी स्यादमुत्र न परि-च्छदः। पितृमातृसुतभ्रातृयोषिद्बन्धुजनादिकः। जा-येत चैकलः प्राणी प्रलीयेत तथैकलः। एकलः सुकृतं भुङ्क्ते-ऽश्नीयाद्दुष्कृतमेकलः। देहं पञ्चत्वमापन्नं त्यक्त्वासौ काष्ठ-लोष्ठवत्। बान्धवाविमुखायान्ति धर्म्मोयान्तमनुब्रजेत्। नित्यसञ्चिनुयाद्धर्म्मं ततोऽमुत्र सहायिनम्। धर्म्मं सहायिनलब्ध्वा सन्तरेद्दुस्तरं तमः। सम्बन्धानाचरेन्नित्यमुत्तमैरुत्तमैःसुधीः। अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत्। उत्तमा-नुत्तमानेव कुर्व्वन् हीनांश्च वर्ज्जयन्। ब्राह्मणः श्रेष्ठता-मेति प्रत्यवायेन शूद्रताम्। अनध्ययनशीलञ्च सदाचारविल-ङ्घिनम्। अलसं च दुरान्नादं ब्राह्मणं बाधतेऽन्तकः। [Page0633-a+ 38] ततोऽभ्यस्येत्प्रयत्नेन सदाचारं सदा द्विजः। तीर्थान्य-प्यभिलष्यन्ति सदाचारसमागमम्” इति। प्रशस्य
“रजनी-प्रान्त्ययामार्द्धं ब्राह्मः समयौच्यते। स्वहितं चिन्तयेत्-प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा। गजास्य” संस्मरेदादौ ततईशंसहाम्बया। श्रीकान्तं श्रीसमेतं तु ब्रह्राण्या कमलोद्भवम्इन्द्रादीन् सकलान्देवान् वशिष्ठादीन् मुनीनपि। गङ्काद्याःसरितः सर्व्वाः श्रीशेलाद्यखिलान् गिरीन्। क्षीरोदादीन्समुद्रांश्च मानसादिसरांसि च। वनानि नन्दनादीनि धेनूः। कामदुघादिकाः। कल्पवृक्षादिवृक्षांश्च धातून् काञ्चनसु-ख्यतः। दिव्याः स्त्रीरुर्व्वशीमुख्या गरुडादीन् पतत्त्रिणः। नागांश्च शेषप्रमुखान् गजानैरवतादिकान्। अश्वानुच्चैः-श्रवान् मुख्यान् कौस्तुभादीन् मणीन् शुभान्। अरेदरुन्ध-तीमुख्याः पतिब्रतवतीर्वधूः। नैमिषादीन्यरण्यानि पुरीःकाशीपुरीमुखाः। विश्वेशादीनि लिङ्गानि वेदानृक्प्रमुखानपि। गायत्रीप्रमुखान् मन्त्रान् योगिनः सनका-दिकान्। प्रणवादि महावीजं नारदादींश्च वैष्णवान्। शिवभक्तांश्च वाणादोन्‘ प्रह्लादादीन् दृढव्रतान्। वदान्यांश्चदधीच्यादीन् हरिश्चन्द्रादिभूपतीन्। जननीचरणौ स्मृत्वासर्व्वतीर्थोत्तमोत्तमौ। पितरं च गुरूंश्चापि हृदि ध्यात्वा-प्रसन्नधीः। ततश्चावश्यकं कर्त्तुं नैरृतीं दिशमाश्रयेत्। ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम्। तृणैराच्छाद्यवसुधां शिरः प्रच्छाद्य वाससा। कर्ण्णोपवीत्युदग्वक्तोदिवसे सन्ध्ययोरपि। विण्मूत्रे विसृजेन्मौनी निशायांदक्षिणामुखः। न तिष्ठन्नाप्सु नोविप्रगोवह्न्यनिलसंमुखः। न फालकृष्टे भूभागे न रथ्याऽसेव्यभूतले। नालोकयेद्दिशो-भागान् ज्योतिश्चक्रं नभोऽमलम्। वामेन पाणिना लिङ्गंधृत्वोत्तिष्ठेत् प्रयत्नवान्। अथो मृदं समादत्ते जन्तुकर्कर-वर्जिताम्। विहाय मूषिकोत्खातां शौचोच्छिष्टाञ्च ना-कुलाम्। गुह्ये दद्याम्मृदञ्चैकां पायौ पञ्चाम्बुसान्तराः। दश वामकरे चापि सप्त पाणिद्वये मृदः। एकैकां पादयो-र्दद्यात्तिस्रःपाण्योर्मृदः स्मृताः। इत्थं शौचं गृही कुर्य्या-इन्धलेपक्षयावधि। क्रमाद्द्विगुणमेतत्स्याद्वुह्मचार्य्यादिषुत्रिषु। दिवा विहितशौचानां रात्रावर्द्धं समाचरेत्। रात्र्यर्द्धंच तदर्द्धं च पथि चौरादिगर्हिते। तदर्द्धंयोषितां सुस्थे-न्यूनंचातो न कारयेत्। अपि सर्व्वैर्नदीतोयैर्मृत्कूटैश्चापि-गोमयैः। आपादमाचरन् शौचं भावदुष्टो न शुद्धि-भाक्। अर्द्धधात्रीफलोन्माना मृदः शौचे प्रकीर्त्तिताः। सर्व्वाश्चाहुतयोऽप्येवं ग्रासाश्चान्द्रायणेऽपि च” ततः[Page0633-b+ 38] आचमनप्रकारोऽभिहितः स च

६२

८ पृष्ठे दर्शिताः।
“अथो मुखविशुर्द्ध्यर्थं गृह्णीयाद्दन्तधावनम्। आचान्तोऽप्यशुचिर्यस्मादकृत्वा दन्तधावनम्। प्रतिपद्दर्शषष्ठीषु नवम्यांरविवासरे। दन्तानां काष्ठ संयोगे दहत्यासप्तमं कुलम्। अलाभे दन्त काष्ठानां निधिद्धेऽवाथ वासरे। गण्डूषा द्वा-दश ग्राह्या मुखस्य परिशुद्धये। कनिष्ठाग्रपरिमाण-सत्वचं निर्व्रणं दृढम्। द्वादशाङ्गुलमानञ्च साग्रं स्था-द्दन्तधावनम्। एकैकाङ्गुलिह्रासेन वर्ण्णेष्वन्थेषु तूदितम्। आम्राम्रातकधात्रीजमङ्कोठखदिरोद्भवम्। शम्यपामार्ग-खर्जूरीशेलुश्रोपर्ण्णिपीलुजम्। राजादनं च नारङ्गंकषायं कटुकण्टकम्। क्षीरवृक्षोद्भवं वापि प्रशस्तं दन्तधा-वनम्। जिह्वोल्लेखनिकां वापि कुर्य्याच्चापाकृतिं शुभाम्।
“अन्नाद्याय व्यूहयध्वं सोमोराजायमागमत्। स मे मुखंप्रमार्क्ष्येत यशसा च भगेन च। आयुर्बलं यशोबर्च्चः प्रजाः पशु-वसूनि च। ब्रह्म प्रज्ञां च मेधां च तन्नो धेहि वनस्पते”॥ मन्त्रावेतौ समुच्चार्य्य यः कुर्य्याद्दन्तधावनम्। वनस्पतिगतःसोमस्तस्य नित्यं प्रसीदति। मुखे पर्य्युषिते यस्माद्भवेन्न शुद्धि-भाङ्नरः। ततः कुर्य्यात्प्रयत्नेन शुद्ध्यर्थं दन्तधावनम्। उ{??}वासेऽपि नो दुष्येद्दन्तधावनममञ्जनम्। गन्वालङ्कारस-द्वस्त्र पुष्पमाल्यानुलेपनम्। प्रातः सन्ध्यां ततः कुर्य्याद्दन्तधा-बन पूर्बिकाम्। प्रातः स्नानं चरित्वाथ शुद्धे तीर्थे विशेषतः। प्रातः स्नानाद्यतः शुद्ध्येत्कायोऽयं मलिनः सदा। छिद्रितोनवभिश्छिद्रैः स्रवत्येष दिवानिशम्। उत्साहमेधासौ-भाग्यरूपसंपत्प्रवर्त्तकम्। मनःप्रसन्नताहेतुः प्रातः स्नानंविशिष्यते। प्रस्वेदलालाद्यास्विन्नो निद्राधीनोयतोनरः। प्रातः स्नानात्ततोऽर्हः स्यान्मन्त्रस्तोत्रजपादिषु। प्रातः प्रात-स्तु यत् स्नानं संजाते चारुणोदये। प्राजापत्यसमं प्राहु-स्तन्महाबविघातकृत्। प्रातः स्नानं हरेत्पापमलक्ष्मींग्लागिमेव च। अशुद्धित्वञ्च दुःस्वप्नं तुष्टिंपुष्टिं प्रय-च्छति। नोपसर्पन्ति वै दुष्टाः प्रातः स्नायिजनं क्वचित्। दृष्टादृष्टफलं तस्मात्प्रातः स्नानं समाचरेत्”। अन्यत्राध्यायेच
“अथवा प्रातरुत्थाय कृत्वावश्यकमेव च। शौचाचमन-बाधाय भक्षयेद्दन्तधावनम्। विशोध्य सर्व्वगात्राणि प्रातःसन्ध्यां समाचरेत्। वेदार्थानधिगच्छेच्च शास्त्राणिविविधानि च। अध्यापयेच्छुचीन् शिष्यान् हितषेधासमर्द्धितात्। उपेयादीश्वरं चापि योगक्षेमार्थसिद्धये। ततो मध्याह्नसिद्ध्यर्थं पूर्ब्बोक्तं स्नानमाचरेत्। स्नात्वामाध्याह्निकीं सन्ध्यामुपासीत विचक्षणः। देवतां परिपूज्याथ[Page0634-a+ 38] नैत्यिकं विधिमाचरेत्। पचनाग्निं समुज्ज्वाल्य वैश्वदेवंसमाचरेत्। निष्पावान् कोद्रवान् माषान् कलायांश्चनकां-स्त्यजेत्। तैलपक्वं च पक्वान्नं सर्वं लवणयुक् त्यजत्। आढ-कांश्च ससूरांश्च वर्त्तुलान् वर्वटीस्तथा। भुक्तशेषं पर्य्युषितं बैश्व-देवे विवर्ज्जयेत्। दर्भपाणिः समाचम्य प्राणायामं विधायच। पूष्णोदेवेति मन्त्रेण पर्य्युक्षणमथाचरेत्। प्रदक्षिणञ्चपर्य्युक्ष्य त्रिः परिस्तीर्य्य वै कुशान्। एषोहदेवमन्त्रेणवह्निं कुर्य्यात् सुसंमुखम्। वैश्वानरं समभ्यर्च्च्य वाज्यपुष्पाक्षतैरथ। भूराद्याश्चाहुतीस्तिस्रः स्वाहान्ताःप्रणवादिकाः। ओं भूर्भुवः स्वः स्वाहेति विप्रोदद्या-त्तथाहुतिम्। तथा देवकृतस्याद्याजुहुयाच्च षडा-हुतीः। यमाय तूष्णीमेकाञ्च तथा स्विष्टकृते द्वयम्। विश्वेभ्यश्चापि देवेभ्योभूमौ दद्यात्ततो बलीन्। सर्वेभ्यश्चापिभूतेभ्योनमोदद्यात्तदुत्तरे। तद्दक्षिणे पितृभ्यश्च प्राचीना-वीतिकोददेत्। निर्णेजनोदकार्थं चैशान्यां वै यक्ष्म-णार्च्चयेत्। ततो ब्रह्मादिदेवेभ्यो नमोदद्यात्तदुत्तरे। निवीती सनकादिभ्यः पितृभ्यस्त्वपसव्यवान्। हन्त षोडश-भिर्ग्रासैश्चतुर्भिः पुष्कलं स्मृतम्। ग्रासमात्रा भवेद्भिक्षागृहस्थसुकृतप्रदा। अध्वगः क्षीणवृत्तिश्च विद्यार्थीगुरुपोषकः। यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षुकाः। अतिथिः पान्थकोज्ञेयोऽनूचानः श्रुतिपारगः। मान्या-वेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम्। अपि श्वपाकेशुनि वा नैवान्नं निष्फलं भवेत्। अन्नार्थिनि समायातेपात्रापात्रं न चिन्तयेत्। शुनाञ्च पतितानाञ्च श्वपचांपापरोगिणाम्। काकानाञ्च कृमीणाञ्च बहिरन्नंकिरेद्भुवि।
“ऐन्द्रावरुणवायव्याः सौम्या वै नैरृताश्च ये। प्रतिगृह्णन्त्विमं पिण्डं काका भूमौ मयार्पितम्। द्वौ-श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां पिण्डंप्रदास्यामि स्यातामेतावहिंसकौ। देवा मनुष्याःपशवोरक्षोयक्षोरगाः खगाः। दैत्याः सिद्धाः पिशाचाश्च प्रेता-भूताश्च दानवाः। तृणानि तरवश्चापि मद्दत्तेनाभिला-षुकाः। कृमिकीटपतङ्गाद्याः कर्म्मबन्धा बुभुक्षिताः। तृप्त्यर्थमन्नं हि मया दत्तं तेषां मुदेऽस्तु वै”। इत्थं भूतबलिंदत्त्वा कालं गोदोहमात्रकम्। प्रतीक्ष्यातिथिमायान्तंविशेद्भोज्यगृहं ततः। अदत्त्वा वायसबलिं नित्यश्राद्धंसमाचरेत्। नित्यश्राद्धेषु सामर्थ्या त्त्रीन् द्वावेकमथापिवा। भोजयेत् पितृयज्ञार्थं दद्यादुद्धृत्य दुर्बलः। नित्यश्राद्धंदेवहीनं नियमादि विवर्ज्जितम्। दक्षिणारहितञ्चैतत्[Page0634-b+ 38] दातृभोक्तृव्रतोज्झतम्। पितृयज्ञं विधायेत्थ स्वच्छबुद्धिरना-तुरः। अदुष्टासनमध्यास्य भुञ्जीत शिशुभिः सह। सुगन्धिःसुमनाः स्रग्वी शुचिवासोद्वयान्वितः। प्रागास्य उदगा-स्योवाभुञ्जीत पितृसेवितम्। विधायाचमनन्तद्वदुपरिष्टा-दधस्तथा। आपोशानविधानेन कृत्वाऽश्नीयात् सुधीर्द्विजः। प्रदद्याद्भुवःपतये भुवनपतये तथा। भूतानांपतये स्वाहेत्युक्त्वा भूमौ बलित्रयम्। सकृच्चाप उपस्पृश्यप्राणाद्याहुतिपञ्चकम्। दद्याज्जठरकुण्डाग्नौ दर्भपाणिःप्रसन्नधीः। दर्भपाणिस्तु योभुङ्क्ते तस्य दोषो न बाधते। केशकीटादिसंभूतं तदश्नीयात् सदर्भकः। यावत्तद-न्नमश्नीयान्न ब्रूयात्तद्गुणागुणान्। भुञ्जते पितरस्तावद्या-वन्नोक्ता गुणागुणाः। अतोमौनेन योभुङ्क्ते स भुङ्क्तेकेवलामृतम्। अनुपीय ततः क्षीरं भक्ष्यं पानीयमेव वा। अमृतापिधानमसीत्येवं प्राश्योदकं सकृत्। पीत-शेषं क्षिपेद्भूमौ तोयं मन्त्रमिमं पठन्। सुप्रक्षालितहस्तस्य दक्षिणाङ्गुष्ठमूलतः।
“रौरवेऽपुण्यनिलये पद्मा-र्वुदनिवासिनाम्। उच्छिष्ठोदकमिच्छूनामक्षय्यमुपतिष्ठ-ताम्”। पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः। हस्तेनोदकमादाय मन्त्रमेतमुदीरयेत्।
“अङ्गुष्ठमात्रःपुरुषस्त्वङ्गुष्ठञ्च समाश्रितः। ईशः सर्वस्य जगतः प्रभुःप्रीणाति विश्वभुक्”। इत्यर्थं परिसंकल्प्य प्रक्षाल्य चरणौ-करौ। ततोऽन्नपरिपाकार्थं मन्त्रानेतानुदीरयेत्।
“अग्नि-राप्याययेद्धातून् पार्थिवान् पबनेरितः। दत्तावकाशोनभ-सां जरयत्वस्तु मे सुखम्। प्राणापानसमानानामुदानव्या-नयोस्तथा। अन्नं पुष्टिकरं चास्तु मयास्त्वव्याहतंसुखम्। समुद्रोवडवाग्निश्च व्रघ्नोब्रध्नस्य नन्दनः। मयाऽ-भ्यवहृतं यत्तदशेषं जरयन्त्विमे”। मुखशुद्धिं ततः कृत्वापुराणश्रवणादिभिः। अतिवाह्य दिवाशेषं ततः सन्ध्यांसमाचरेत्। गृहे गोष्ठे नदीतीरेसन्ध्या दशगुणा क्रमात्। संभेदे स्याच्छतगुणा ह्यनन्ता शिवसन्निधौ। उपासिताबहिः सन्ध्या दिवामैथुनपातकम्। शमयेदनृतोक्ताघं मद्य-गन्धजमेव च। पश्चिमास्योजपेत्तावद्यावन्नक्षत्रदर्शनम्। अतिथिं सायमायान्तमपि वा भूतृणोदकैः। सम्भाव्य प-रिकल्प्येत्थं निशः प्राक् प्रहरं सुधीः। इत्थं दिवा कर्म्मकृत्वा श्रुतेः पठनपाठनैः। एककाष्ठमयीं शय्यां नाति-तृप्तोऽथ संविशेत्। उद्देशतः समाख्यात एष नित्यतनो-विधिः। इत्थं समाचरन् विप्रोनावसीदति कर्हिचित्”। इत्थं नित्यधर्म्माचरणमुक्ता गृहस्थवर्ज्यावर्ज्यविशेषस्तत्रैवोक्तः[Page0635-a+ 38]‘ ऋतुकालाभिगमनं धर्म्मोऽयं गृहिणः परः। स्त्रीणां वरमनुस्मृत्य यथाकाम्यथ वा भवेत्। दिवाभिगमनं पुंसामना-युष्यंपरं मतम्। श्राद्धाहः सर्व्वपर्व्वाणि यत्नात् त्याज्यानि धीमता। तत्र गच्छन् स्त्रियं मोहात् धर्म्मात्प्रच्यवतेपरात्। ऋतुकालाभिगामी यः स्वदारनिरतश्च यः। सब्रह्मचारी धर्मज्ञोविज्ञेयः स गृहाश्रमी। ऋतुःषोडश-यामिन्यश्चतस्रस्तासु गर्हिताः। पुत्रास्तास्वपि या युग्माःअयुग्माः कन्यकाप्रजाः। त्यक्त्वा चन्द्रमसं दुःस्थं मघांमूलां विहाय च। शुचिः संनिर्विशेत्पत्नीं पुंनामक्ष विशे-षतः। शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधकम्। आर्षेविवाहे गोद्वन्द्वं यदुक्तं तन्न शस्यते। शुल्कमण्वपि कन्यायाःकन्याविक्रयपापकृत्। अपत्यविक्रयी कल्पं वसेद्विट्कृमि-भोजने। अतोनाण्वपि कन्यायाः उपजीवेत्पिता धनम्। स्त्रीधनान्युपजीवन्ति ये मोहादिह बान्धवाः। न ते परं निर-यगास्तेषामपि हि पूर्ब्बजाः। पत्या तुष्यति यत्र स्त्री तुष्येद्यत्र-स्त्रिया पतिः। तत्र तुष्टा महालक्ष्मीर्निवसेद्दानवारिणा”
“बाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा। कुविवाहःक्रियालोपः कुले पतनहेतवः। कुर्य्याद्वैवाहिके वह्नौ गृह्यंकर्म्मान्वहं गृही। पञ्चयज्ञक्रियां वापि पक्तिं दैनन्दिनी-मपि। गृहस्थाश्रमिणः पञ्चसूनाकर्म्म दिनेदिने। कण्डनी पेषणी चूल्ली उदकुम्भस्तु मार्ज्जनी। तासाञ्चपञ्चसूनानां निराकरणहेतवः। क्रतवः पञ्च निर्द्दिष्टागृहि-श्रेयोऽभिवर्द्धनाः। पठनं ब्रह्मयज्ञः स्यात्तर्पणञ्च पितृ-क्रतुः। होमोदैवो बलिर्भौतोऽतिथ्यर्च्चा क्रतवः क्रमात्। पितृप्रीतिं प्रकर्व्वाणः कुर्वीत श्राद्धमन्वहम्। अन्नोदकपयोमूलफलैर्वापि गृहाश्रमी। गोदानेषु च यत्पुण्यं पात्रायविधिपूर्वकम्। सत्कृत्य भिक्षवे भिक्षां दत्त्वा तत्फलमाप्नु-यात्। तपोविद्यासमिद्दीप्ते हुतं विप्रास्यपावके। तार-येद्विघ्नसंघेभ्यः पापाब्धेरपि दुस्तरात्। अनर्च्चितोऽतिथि-र्गेहात् भग्नाशो यस्य गच्छति। आजन्म सञ्चितात्पुत्यात् तत् क्षणात् स वहिर्भवेत्। सान्त्वपूर्ब्बाणिवाक्यानि शय्यार्थे भूस्तृणोदकैः। एतान्यपि प्रदेयानि सदामन्तुकतुष्टये। गृहस्थः परपाकाढ्यः प्रेतः सन्पशुपतां व्रजेत्। श्रेयः परार्थपुष्टस्य गृह्णीयादन्न-दोषतः। आदित्योढोऽतिथिः सायं सत्कर्त्तव्यः प्रयत्नतः। असत्कृतोऽन्थतोगच्छन् दुष्कृतं भूरि यच्छति। भुञ्जानोऽतिथिशेषान्नमिहायुर्धनभाग्भवेत्। प्रणोद्यातिथिमन्नाशी किल्विषी च गृहाश्रमी। वैश्वदेवान्तसंप्राप्तः[Page0635-b+ 38] सूर्य्योढोवाऽतिथिः स्मृतः। न पूर्घ्वकाल आयातो न चदृष्टचरः क्वचित्। बलिपात्रकरे विप्रेयद्यन्योऽतिथिरागतः। अदत्त्वा तं बलिं तस्मै यथाशक्त्यन्नमर्पयेत्। कुमाराश्च सुवा-सित्योगर्भिण्योऽतिरुजान्विताः। अतिर्थेरादितोऽप्येते भो-ज्या नात्र विचारणा। पितृदेवमनुष्येभ्योदत्त्वान्नाद्यमृतंगृही। स्वार्थं पचन्नघं भुङ्क्ते केवलं स्वोदम्भरिः। माध्या-ह्निकं वैश्वदेवं गृहस्थः स्वयमाच्रेत्। पत्नी सायं बलिं-दद्यात् सिद्धान्नैर्मन्त्रवर्जितम्। एतत्सायन्तनं नाम वैश्व-देवं गृहाश्रमे। सायं प्रातर्भवेदेवं वैश्वदेवं प्रयत्नतः। वैश्वदेवेन ये हीना आतिथ्ये न विवर्ज्जिताः। सर्वेते वृघला-ज्ञेया प्राप्तवेदा अपि द्विजाः। अकृत्वा वैश्वदेवं तु भुञ्जतेये द्विजाधमाः। इह लोकेऽन्नहीनाः स्युः काकयोनिंव्रजन्त्यथ। वेदोदितं स्वकं कर्म्मनित्यं कुर्य्यादतन्त्रितः। तद्धिकुर्व्वन् यथाशक्ति प्राप्नुयात् स्वर्गतिं पराम्। षष्ठ्यष्टम्यो-र्वसेत्पापं तैले मांसे सदैव हि। पञ्चदश्यां चतुर्दश्यां तथैवचभगे क्षुरे। उदयन्तं न चेक्षेत नास्तं यान्तं न मध्यगम्। न राहुणोपसृष्टं च नाम्बुसंस्थं दिवाकरम्। न वीक्षे-तात्मनोरूपमप्सुधावेन्न वर्षति। नोङ्घयेद्वत्सतन्त्रीं न नग्नो-जलमाविशेत्। देवतायतनं विप्रं धेनुं मधु घृतं मृदम्। जातिवृद्धं वयोवृद्धं विद्यावृद्धं तपस्विनम्। अश्वत्थं चैत्य-वृक्षं च गुरुं जलभृतं घटम्। सिद्धान्नं दधि सिद्धार्थंगच्छन् कुर्य्यात्प्रदक्षिणम्। रजस्वलां न सेवेत नाश्नीयात्सह भांर्य्यया। एकवासा न भुञ्जीत न भुञ्जीतोत्कठासने। नाश्नतीं स्त्रीं समोक्षेत तेजस्कामोद्विजोत्तमः। असंतर्प्यपितॄन् देवान् नाद्यादन्नं नरः क्वचित्। पक्वान्नं चापि-नो मांसं दीर्घकालं जिजीविषुः। न मूत्रं गोब्रजे कुर्य्या-न्न वल्मीके न भस्मनि। न गर्त्तेषु ससत्वेषु न तिष्ठन्न व्रज-न्नपि। गोविप्रसूर्यवाय्वग्नि चन्द्रार्काम्बु गुरूनपि। अभिपश्यन्नकुर्व्वीत मूत्रोच्चारविसर्ज्जनम्। तिरस्कृत्यावनीं लोष्ट्रकाष्ठपर्णतृणादिभिः। प्रावृत्य वाससा मौलिं मौनो विण्मू-त्रमुत्सृजेत्। यथासुखसुखोरात्रौदिने छायान्धका-रयोः। भीतिषु प्राणबाधायां कुर्य्यान्मलविसर्ज्जनम्। मुखेनोपधमेन्नाग्निन्नग्नां नेक्षेत योषितम्। नाङ्घ्री प्रता-पयेदग्नौ न वस्तु शुचि निक्षिपेत्। प्राणिहिंसां न कुर्व्वीतनाश्नीयात्सन्ध्ययोर्द्वयोः। न संविशेच्च सन्ध्यायां प्रत्यक्-सौम्यशिरा अपि। विण्मूत्रष्ठीवनं नाप्सु कुर्य्याद्दीर्घंजिजीविषुः। नाचक्षीत धयन्तीं गां नैन्द्रं चापं प्रदर्शयेत्। नैकः सुप्यात् क्वचित् शून्ये न शयानं प्रबोधयेत्। पन्थानं[Page0636-a+ 38] नैकको यायान्न वार्य्यञ्जलिना पिबेत्। न दध्युद्धृतसारं चभक्षयेद्दधि नो निशि। स्त्रीधर्म्मिणीं नाधिवसेत् नाद्यादातृप्ति रात्रिषु। तौर्य्यत्रिकप्रियोनस्यात् कांस्ये पादौ नधावयेत्। न धारयेदन्यभुक्तं वासश्चोपानहावपि। नभिम्नभाजनेऽश्नीयान्नाग्न्यादिपरिदूषिते। आरोहणं गवांपृष्ठे प्रेतधूमं सरित्तरम्। बालातपं दिवास्वापं त्यजेद्दीर्घंजिजीविषुः। स्नात्वा न मार्ज्जयेद्गात्रं विसृजेन्न शिखांपथि। हस्तौ शिरोन धुनुयान्नाकर्षेदासनं पदा। श्राद्धंकृत्वा परश्राद्धेऽश्नीयात् ज्ञानविवर्ज्जितः। दातुः श्राद्धफलंनास्ति भोक्ता किल्विषभुग्भवेत्। नोत्पाटयेल्लोमनखंदशनेन कदाचन। करजैः करजच्छेदं तृणच्छेदं विवर्ज्ज-येत्। शुभाय न यदायत्यां त्यजेत्तत्कर्म यत्नतः। अपद्वारेन गन्तव्यं स्ववेश्मपरवेश्मनोः। क्रीडेन्नाक्षैः सहासीत नधर्म्मघ्नैर्न रोगिभिः। न शयीत क्वचिन्नग्नः पाणौ भुञ्जीतनैव च। आर्द्रपादकरास्योऽश्नन्दीर्घकालं च जीवति। संविशेन्नार्द्रचरणोनोच्छिष्टः क्वचिदाब्रञेत् शयनस्थोन-चाश्नीयान्न पिबेन्न जपेद्द्विजः। सोपानत्कश्च नाचामेन्न तिष्ठन धारया पिबेत्। सर्व्वं तिलमयं नाद्यात्सायं शर्म्माभि-लाषुकः। न निरीक्षेत विण्मूत्रे नोच्छिष्टः संस्पृशेच्छिरः। नाधितिष्ठेत्तुषाङ्गार भस्मकेशकपालिकाः। पतितैः सह-संवासः पतनायैव जायते। श्रावंयेद्वैदिकं मन्त्रं न शू-द्राय कदाचन। ब्राह्मण्याद्धीयते विप्रः शूद्रोधर्म्माच्च ही-यते। धर्म्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत्। द्विजशुश्रूषणं घर्म्मः शूद्राणां हि परोमतः। कण्डूयनंन शिरसः पाणिभ्यां शुभदं मतम्। न ताडयेत् कराभ्यांच क्रोशनं केशलुञ्चनम्। अशास्त्रवर्त्तिनोभूपाल्लोभात् कृत्वाप्रतिग्रहम्। ब्राह्मणः सान्वयोयाति नरकानेकविश-तिम्। अकालविद्युत्स्तनिते वर्षर्तौ पांशुवर्षणे। महावा-तध्वनौ रात्रावनध्यायाः प्रकीर्त्तिताः। उत्कापाते चभूकम्पे दिग्दाहे मध्य{??}त्रिषु। सन्ध्ययोर्वृषलोपान्ते राज-चन्द्रस्य सूतके। द{??}ऽष्टकासु भूतानां श्राद्धिकं प्रतिगृह्यच। प्रतिपद्यपि पूर्ण्णायां गजकुम्भ्या कृतान्तरे। खरोष्ट्रक्रोष्टुविरुते समवाये एदत्यपि। उपाकर्म्मणि चोत्सर्गे नावि मार्गेतरौ जले। आरण्यकमधीत्यापि वाणसाम्नोरपि ध्वनौ। अनध्यायेषु चैतेषु नाधीयीत द्विजः क्वचित्। कृतान्तरा-यो न पठेदूकाखुश्वाहिबभ्रुभिः। भूताष्टम्योः पञ्चदश्योर्ब्र-ह्मचारी सदा भवेत्। अनायुप्यकरञ्चेह परदारोपसेव-नम्। पर्य्यर्द्धिभिः परित्यक्तमात्मानं नावमानयेत्। सदो-[Page0636-b+ 38] द्यमवतां यस्माच्छ्रियोविद्या न दुर्लभाः। सत्यं ब्रूयात् प्रियंब्रूयान्न ब्रूयात्सत्यमप्रियम्। प्रियं च नानृतं ब्रूयादेष धर्म्मो-घटोद्भव!। भद्रमेव वदेन्नित्यं भद्रमेव विचिन्तयेत्। भद्रैरेवहि संसर्गोनाभद्रैश्च कदाचन। रूपवित्तकुलैहीर्नान्सुधीर्नाधिक्षिपेन्नरान्। पुष्पवन्तौ न चेक्षेत त्वशुचिर्ज्योतिषा-ङ्गणम्। वातवेगं मनोवेगं जिह्वावेगञ्च वर्ज्जयेत्। उत्को चद्यूतदौत्यार्त्तद्रव्यं दूरात् परित्यजेत्। गोब्राह्मणाग्नी-नुच्छिष्टः पाणिना नैवसंस्पृशेत्। न स्पृशेदनिमित्तं चखानि स्वानि त्वनातुरः। गुह्यजान्यपि लोमानि तत्स्प-र्शादशुचिर्भवेत्। पादशौचोदकं मूत्रमुच्छिष्टान्नोदका-नि च। निष्ठीवनञ्च श्लेष्माणं गृहाद्दूरं विनिःक्षिपेत्। अहर्न्निशं श्रुतेर्जप्याच्छौचाचरनिषेवणात्। अद्रोहरत्या-गत्या च पूर्व्वजन्म स्मरेद् द्विजः। वृद्धान् प्रयत्नाद्वन्देतदद्यात्तेषां स्वमासनम्। विनम्रधमनिस्तस्मादनुयायाद्यतश्च-तान्। श्रुतिभूदेवदेवानां नृपसाधुतपखिनाम्। पतिब्र-तानां नारीणां निन्दां कुर्य्यान्न कर्हिचित्। न मनुष्यस्तुतिंकुर्य्यान्नात्मानमवनामयेत्। अभ्युद्यतं न प्रणुदेत्परमर्म्माणि-नोच्चरेत्। अधर्म्मादेधते पूर्ब्बं विद्वेष्टॄनपि संजयेत्। सर्वतोभद्रं पश्येच्च ततोनश्येच्च सान्वयः। उद्धृत्य पञ्च मृत्-पिण्डान् स्नायात् परजलाशये। अनुद्धृत्य च तत्कर्त्तुरेनसःस्यात्तुरीयभाक्। श्रद्धया पात्रमासाद्य यक्तिञ्चिद्दीयतेवसु। देशे काले च विधिना तदानन्त्याय कल्पते। भूप्रदो मण्डलाधीशः सर्वत्र सुखितोऽन्नदः। तोयदातासदा तृप्तो रूपवान् रूप्यदो भवेत्। प्रदीपदो निर्मलाक्षोगीदातार्य्यमलोकभाक्। स्वर्ण्णदाता च दीर्घायुस्तिलदः स्याच्चसुप्रजाः। वेश्मदोऽत्युच्चसौधेशोवस्त्रदश्चन्द्रलोभाक्। हयप्रदीदिव्ययानोलक्ष्मीवान् वृषभप्रदः। सुभार्य्यः शिविका-दाता सुपर्य्यङ्कप्रदोऽपि च। धर्मैः सर्वर्द्धिभाक् नित्यमभय-प्रदईशिता। ब्रह्मदोब्रह्मलोकेज्योब्रह्मदः सर्व्वदोमतः। उपायेनापि योब्रह्म दापयेत्सोपि तत्समः। श्रद्धया प्रतिगृह्णाति श्रद्धया यः प्रयच्छति। स्वर्गिणौ तावुभौ स्यातांपततोऽश्रद्धया ह्यधः। अनृतेन क्षरेद्द्यज्ञस्तपोविस्मयतःक्षरेत्। क्षरेत्कीर्त्तनतोदान मायुर्विप्रापवादतः। गन्धपुष्प-कुशान् शय्यां शाकं मांसं पयोदधि। मणिमत्स्यौ गृहं धान्यंग्राह्यमेतदुपस्थितम्। मधूदकं फलं मूलमेधांस्यभयद-क्षिणाम्। अभ्युद्यतानि ग्राह्याणि त्वेतान्यपि निकृष्टतः। दासनापितगोपालकुलमित्राद्धसीरिणः। भोज्यान्नाःशूद्रवर्गेऽमी तथात्मविनिवेदकः। इत्थमानृण्यमापाद्य दे-[Page0637-a+ 38] वर्षिपितृजादृणात्। माध्यस्थ्यमाश्रयेत् गेही सुते विष्व-ग्विसृज्य च। मृहेऽपि ज्ञानमभ्यस्येत्काशीं वाथ समाश्रयेत्। सम्यग्ज्ञानेन वा मुक्तिः किं न विश्वेशवेश्मनि?। सम्यग्-ज्ञानं भवेत् पुंसां कुत एकेन जन्मना?। वाराणस्यां ध्रुवा-मुक्तिः शरीरत्यागमात्रतः। अद्यश्वोवा परश्वोवा काला-द्वाथ परःशतात्। सत्वरं गत्वरोदेहः काश्यां चेदमृतीभवेत्। सा च वाराणसी लभ्य्{??} सदचारवता सता। मनसापि सदाचारमतो विद्वान्न लङ्घयेत्”। वसिष्ठस्मृतौ च
“आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भि-रङ्गैः। छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ताइवजातपक्षाः। आचारहीनस्य तु व्राह्मणस्य वेदाः षड-ङ्गाअखिलाः सपक्षाः। कां प्रीतिमुत्थापयितुं समर्थाअ-न्धस्य दाराइव दर्शनीयाः। नैनं छन्दांसि वृजिनात्ता-रयन्ति मायाविनं मायया वर्त्तमानम्। तत्राक्षरे सम्य-गधोयमाने पुनाति तद्व्रह्म यथावदिष्टम्। दुराचारोहिपुरुषोलोकें भवति निन्दितः। दुःखभागी च सततं व्याधि-तोऽल्पायुरेव च। आचारात् फलते धर्म्ममाचारात्फलते धनम्। आचारात् श्रियमाप्नोति आचारोहन्त्य-लक्षणम्। सर्व्वलक्षणहीनोऽपि यः सदाचारवान्नरः। श्रद्द धानोऽनसूयश्च शतं वर्षाणि जीवति। आहारनिर्हा-रविहारयोगाः सुसंवृता धर्म्मविदा तु कार्य्याः। वाग्वु-द्धिवीय्यांणि तपस्तथैव धनायुषी गुप्ततमे च कार्य्ये। उभेमूत्रपुरीषे तु दिवा कुर्य्यादुदङ्मुखः। रात्रौ कुर्य्याद्दक्षि-णास्य एवं ह्यायुर्न रिष्यते। प्रत्यग्निं प्रतिसूर्यञ्च प्रति गांप्रति च द्विजम्। प्रतिसोमोदकं सन्ध्यां प्रज्ञा नश्यतिमेहतः। न नद्यां मेहनं कार्य्यं न पथि न च भस्मनि। न गोमये नवा कृष्टे नोप्ते क्षेत्रे न शाद्वले। छायायामन्ध-कारे वा रात्रावहनि वा द्विजः। यथासुखमुखः कुर्य्यात्प्राणबाधाभयेषु च। उद्धृताभिरद्भिः कार्य्यं कुर्य्यान्न स्नान-मनुद्धृताभिरपि। न हरेन्मृत्तिकां विप्रः कूलात् ससिकतां तथा। अन्तर्जले देवगृहे वल्मीके मूषिकस्थले। कृत-शौचावशिष्टे च न ग्राह्याः पञ्च मृत्तिकाः। एका लिङ्गेकरे तिस्रौभाभ्यां द्वे तु मृत्तिके। पञ्चापाने दशैक-स्मिन्नुभयोः सप्त मृत्तिकाः। एतच्छौचं गृहस्थस्य द्विगुणंब्रह्मचारिणः। वानप्रस्थस्य त्रिगुणं यतीनान्तु चगुर्गुणम्। अष्टौ ग्रासा मुनेर्भक्तं वानप्रस्थस्य षोडश। द्वात्रिंशत्तुगृहस्यस्य अमितं ब्रह्मचारिणः। अनड्वान् ब्रह्मचारी चआहिताग्निश्च ते त्रयः। भुञ्जानाएव सिध्यन्ति नैषां[Page0637-b+ 38] सिद्धिरनश्नताम्। तपोदानोपहारेषु व्रतेषु नियमेषु च। इज्याध्ययनधर्म्मेषु योन शक्तः स निष्क्रयः। योगस्तपो-दमोदानं सत्यं शौचं दया श्रुतम्। विद्या विज्ञानमास्ति-क्यमेतद्व्राह्मणलक्षणम्। सर्वत्र दान्ताः श्रुतपूर्णकर्णा जिते-न्द्रियाः प्राणिबधे निवृत्ताः। प्रतिज्ञहे सङ्कुचिता गृह-स्थास्ते ब्राह्मणास्तारयितुं समर्थाः। असूयुः पिशुन-श्चेव कृतघ्नो दीर्घरोषकः। चत्वारः कर्म्मचाण्डाला जन्म-तश्चापि पञ्चमः। दीर्घवैरमसूयाञ्च अमत्यं ब्रह्मदूषणम्। पैशुन्यं निर्द्दयत्वञ्च जानीयाच्छूद्रलक्षणम्। किञ्चिद्वेदमयंपात्रं किञ्चित् पात्रं तपोमयम्। पात्राणामपि तत्पात्रंशूद्रान्नं यस्य नोदरे। शूद्रान्नरसपुष्टाङ्गोह्यधीयानोऽपिनित्यशः। हुत्वापि च जपित्वापि गतिमूर्द्ध्वां न विन्दतिशूद्रान्नेनोदरस्थेन यः कश्चिन्म्रियते द्विजः। स भवेच्छूकरोग्राम्यस्तख वा जायते कुले। शूद्रान्नेन तु भुक्तेनमैथुनं योऽधिगच्छति। यस्यान्नं तस्य ते पुत्रा नच स्वर्गा-र्हकोभवेत्। स्वाध्यायाढ्यं योनिमित्रं प्रशान्तं चैतन्यस्थंपापभीरुं बहुज्ञम्। स्त्रीयुक्तान्नं धार्म्मिकं गोशरण्यंव्रतैः क्षान्तं तादृशं पात्रमाहुः। आमपात्रे यथा न्यस्तंक्षीरं दधि घृतं मधु। विनश्येत् पात्रदौर्बल्यात्तच्च पात्रंरसाश्च ते। एवं गाञ्च हिरण्यञ्च वस्त्रमश्वं महीं तिलान्। अविद्वान् प्रतिगृह्णानो भस्मीभवति दारुवत्। नाङ्गंनखञ्चवादित्रं कुर्य्यात् नचापोऽञ्जलिना प्रिवेत्। न पादेनपाणिना वा राजानमपि हन्यात् न जलेन जलम्। नेष्टकाभिः फलानि पातयेत् न फलेन फलम्। न कल्क-पुटकोभवेत्। नम्लेच्छभाषां शिक्षेत। अथाप्युदाहरन्ति। न पाणिपादचपलो न नेत्रचपलोभवेत्। नचाङ्गचपलो-विप्र इति शिष्टस्य गोचरः। पारम्पर्य्यागतोयेषां वेदःसपरिवृंहणः। ते शिष्टा ब्राह्मणाज्ञेयाः श्रुतिप्रत्यक्षहेतवः। यन्न सन्तं नचासन्तं नाश्रुतं न बहुश्रुतम्। न सुवृत्तंन दुर्वृत्तं वेद कश्चित् स ब्राह्मण” एवंमन्वादि-संहितादौ बहव आचारा उक्तप्रायाः दर्शिताः। भावापरपर्य्यायः तन्त्रोक्ताचारश्च दिव्याचारवीराचार-पश्वाचारभेदात् त्रिविधः यथोक्तं तन्त्रसारे।
“अथ भावविधिं वक्ष्ये शृणुष्व कमलानने!। विना येनन सिध्येत्तु जन्मकोटिशतैरपि। भावस्तु त्रिविधो देवि!दिव्यवोरपशुक्रमात्। दिव्यवीरौ महाभावौ अधमःपशुभावकः। वैष्णवः पशुभावेन पूजयेत् परमेश्वरम्। शक्तिमन्त्रे वरारोहे! पशुभावो भयानकः। दिव्ये वीरे-[Page0638-a+ 38] महेशानि। जायते सिद्धिरुत्तमा। दिव्ये वीरे न भेदोऽस्ति-ताभ्यां भेदःपशोस्ततः। दिव्यवीरौ प्रवक्ष्यामि सर्वभावोत्तमो-त्तमौ। विना शक्तेर्न पूजास्ति मत्स्यं मांसं विना प्रिये!। मुद्राञ्च मैथुनञ्चापि विना नैव प्रपूजयेत्। स्त्रीभगंपूजनाधारं स्वर्ण्णरूप्यकमेव च। अभावे सर्वद्रव्याणा-मनुकल्पः कलौ युगे। अथ वा परमेशानि। मानसं सर्व्व-माचरेत्। स्नानन्तु मानसं प्रोक्तं वैदिके मानसं सदा। यत्र भुक्त्वा महापूजा मानसं भोजनन्तु तत्। स्वकीयांपरकीयां वा मानसन्तु रमेत् स्त्रियम्। मानसं मद्यमीनादिस्वीकुर्य्यात् साधकोत्तमः। स्वैरन्तु कुसुमं तद्वत् मानसंसमुपाचरेत्। मानसं भगरोमादि मानसं भगपूजनम्। सर्ब्बन्तु मानसं कुर्य्यात् तेन सिद्धिमुपालभेत्” इतिपिच्छिलातन्त्रे पूर्ब्बखण्डे दशमःपटलः। तद्विवरणंतत्तच्छब्दे दृश्यम्। आचारचन्द्रिका आचारचिन्तामणिःआचारदीपः आचारमाधवः आचारमयूस्वः आचारादर्शःआचारार्कः इत्यादायश्च ग्रन्याः आचारवेदनार्थाः भारत-वर्षे देशभेदे च प्रसिद्धाः। तत एवाचारभेदा अवसेयाः। निषिद्धाचारश्च अनाचारः सच अनाचारशब्दे

२५

७ पृष्ठेउक्तप्रायः। अधिकं निषिद्धशब्दे वक्ष्यते।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचार¦ m. (-रः)
1. An established rule of conduct, an ordinance, an in- stitute, a precept.
2. Custom, practice, usage. E. आङ् before चर् to go, घञ् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारः [ācārḥ], [आचार-भावे घञ्]

Conduct, behaviour, manner of action or of conducting oneself; सदाचारः good conduct; नीच˚ &c.; लोकाचारविवर्जिताः Pt.5.4 ignorant of the ways of the world.

Good conduct or behaviour; न शौचं नापि चाचारो न सत्यं तेषु विद्यते Bg. 16.7; Ms.1.19,5.4,3.165.

A custom, usage, practice; तस्मिन्देशे य आचारः पारंपर्यक्रमागतः Ms.2.18; Y. 1.343.

An established usage, fixed rule of conduct in life, customary law, institute or precept (opp. व्यवहार in law); आचार्य आचाराणाम् K.56; Ms.1.19; oft. as the first member of comp. in the sense of 'customary', 'usual', 'as is the custom', 'according to form', 'as a formality'; ˚पुष्पग्रहणार्थम् M.4; see ˚धूम, ˚लाज below; परिकर्मन् Ś.2.

(a) Any customary observance or duty; ˚प्रयतः V.3.2; गृहाचारव्यपदेशेन U.3. (b) A form, formality; आचार इत्यवहितेन मया गृहीता Ś.5.3; Mv.3.26. (c) The customary salutation or bow, usual formality; आचारं प्रतिपद्यस्व Ś.4; V.2; अविषयस्तावदाचारस्य Mv.2.

Diet.

A rule (of conduct). -Comp. -अङ्गम् title of the first of the twelve sacred books of the Jainas-चक्रिन् N. of a Vaiṣṇava sect. -चन्द्रिका N. of a work on the religious customs of the Śūdras -तन्त्रम् one of the four classes of the Tantras (with Buddhists).-दीपः [आचारार्थः नीराजनार्थो दीपः]

'a lamp of religious customs', title of a work.

a lamp waved about a person as a formality and token of auspiciousness.-धूमग्रहणम् inhaling smoke as a customary rite (as of the sacrificial ceremony) R.7.27; वधूमुखं क्लान्तयवाव- तंसमाचारधूमग्रहणाद् बभूव Ku.7.82. -पूत a. purified by customary observances, of pure conduct; तमातपक्लान्त- मनातपत्रमाचारपूतं पवनः सिषेवे R.2.13. -भेदः difference in the customary law. -भ्रष्ट, -पतित a. apostate, fallen from established usages or rules of conduct. -मयूखः 'Ray of religious customs'; N. of a work. -लाज (m. pl.) fried grain customarily showered upon a king or other important personage as a mark of respect (as when he passes through the streets of his capital); अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः R.2.1.-वर्जित, -व्यपेत, -हीन a.

irregular, out of rule.

outcast, who has renounced all customary observances. स्मृत्याचारव्यपेतेन Y.2.5; Ms.3.165. -वेदी [आचारस्य वेदीव] 'altar of religious customs', N. of Āryāvarta, the sacred region of the Āryas.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचार/ आ-चार m. ( ifc. f( आ). Ya1jn5. i , 87 , etc. )conduct , manner of action , behaviour , good behaviour , good conduct Mn. MBh. etc.

आचार/ आ-चार m. custom , practice , usage , traditional or immemorial usage (as the foundation of law) ib.

आचार/ आ-चार m. an established rule of conduct , ordinance , institute , precept

आचार/ आ-चार m. a rule or line MBh. iii , 166

आचार/ आ-चार m. = आचारिकbelow Sus3r.

आचार/ आ-चार m. (with Buddhists) agreeing with what is taught by the teacher Sarvad.

आचार/ आ-चार etc. See. आ-चर्.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Gandharva. Br. III. 7. ११.

"https://sa.wiktionary.org/w/index.php?title=आचार&oldid=490431" इत्यस्माद् प्रतिप्राप्तम्