आचारः
यन्त्रोपारोपितकोशांशः सम्पाद्यताम्
कल्पद्रुमः सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आचारः, पुं, (आङ् + चर् + घञ्) व्यवहरः । तत्पर्य्यायः । चरित्रं २ चरितं ३ चारित्रं ४ चरणं ५ वृत्तं ६ शीलं ७ । इति हेमचन्द्रः ॥ स्नानाच- मनादिः । इति मानवे २ अध्याये ६९ श्लोक- टीकायां कुल्लूकभट्टः । व्यवहारः ॥ स तु विचारः । यथा वृहस्पतिः । “आचारेणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जितः पूर्ब्बं प्राङ्न्यायस्तु स उच्यते” ॥ इति व्यवहारतत्त्वं ॥ चरित्रं । एतद्विवरण सदा- चारशव्दे द्रष्टव्यं ॥ (रघुः । २ । १० । “आचार- लाजैरिव पौरकन्याः” ।)
Apte सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आचारः [ācārḥ], [आचार-भावे घञ्]
Conduct, behaviour, manner of action or of conducting oneself; सदाचारः good conduct; नीच˚ &c.; लोकाचारविवर्जिताः Pt.5.4 ignorant of the ways of the world.
Good conduct or behaviour; न शौचं नापि चाचारो न सत्यं तेषु विद्यते Bg. 16.7; Ms.1.19,5.4,3.165.
A custom, usage, practice; तस्मिन्देशे य आचारः पारंपर्यक्रमागतः Ms.2.18; Y. 1.343.
An established usage, fixed rule of conduct in life, customary law, institute or precept (opp. व्यवहार in law); आचार्य आचाराणाम् K.56; Ms.1.19; oft. as the first member of comp. in the sense of 'customary', 'usual', 'as is the custom', 'according to form', 'as a formality'; ˚पुष्पग्रहणार्थम् M.4; see ˚धूम, ˚लाज below; परिकर्मन् Ś.2.
(a) Any customary observance or duty; ˚प्रयतः V.3.2; गृहाचारव्यपदेशेन U.3. (b) A form, formality; आचार इत्यवहितेन मया गृहीता Ś.5.3; Mv.3.26. (c) The customary salutation or bow, usual formality; आचारं प्रतिपद्यस्व Ś.4; V.2; अविषयस्तावदाचारस्य Mv.2.
Diet.
A rule (of conduct). -Comp. -अङ्गम् title of the first of the twelve sacred books of the Jainas-चक्रिन् N. of a Vaiṣṇava sect. -चन्द्रिका N. of a work on the religious customs of the Śūdras -तन्त्रम् one of the four classes of the Tantras (with Buddhists).-दीपः [आचारार्थः नीराजनार्थो दीपः]
'a lamp of religious customs', title of a work.
a lamp waved about a person as a formality and token of auspiciousness.-धूमग्रहणम् inhaling smoke as a customary rite (as of the sacrificial ceremony) R.7.27; वधूमुखं क्लान्तयवाव- तंसमाचारधूमग्रहणाद् बभूव Ku.7.82. -पूत a. purified by customary observances, of pure conduct; तमातपक्लान्त- मनातपत्रमाचारपूतं पवनः सिषेवे R.2.13. -भेदः difference in the customary law. -भ्रष्ट, -पतित a. apostate, fallen from established usages or rules of conduct. -मयूखः 'Ray of religious customs'; N. of a work. -लाज (m. pl.) fried grain customarily showered upon a king or other important personage as a mark of respect (as when he passes through the streets of his capital); अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः R.2.1.-वर्जित, -व्यपेत, -हीन a.
irregular, out of rule.
outcast, who has renounced all customary observances. स्मृत्याचारव्यपेतेन Y.2.5; Ms.3.165. -वेदी [आचारस्य वेदीव] 'altar of religious customs', N. of Āryāvarta, the sacred region of the Āryas.