यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमुख¦ न॰ आमुखयति अभिमुखीकरोति दर्शनार्थं परि-षदोऽनेन आमुख + णिच्--करणे अच्। नाटकाङ्गभेदे
“तल्ल-क्षणभेदोदाहरणानि” सा॰ द॰ यथा
“नटी विदूषकोवापिपारिपार्श्विक एव वा। सूत्रधारेण सहिताः संलापंयत्र कुर्वते। चित्रैर्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपि-भिर्म्मिथः। आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापिसा। सूत्रधारसदृशत्वात् स्थापकोऽपि सूत्रधारौच्यते। तस्यानुचरः पारिपार्श्विकः। तस्मात् किञ्चिदूनोनटः”। [Page0767-a+ 38] तस्य भेदाः पञ्च यथाह तत्रैव
“उद्घात्यकः कथोद्घातःप्रयोगातिशयस्तथा। प्रवर्त्तकापलगिते पञ्च प्रस्तावनाभिदाः। तत्र। पदान्यन्यगतार्थानि तदर्थगतये नराः। योजयन्ति पदैरन्यैः स उद्घात्यक उच्यते

१ । यथा मुद्रा-राक्षसे सुत्र॰।
“क्रूरग्रहः सकेतुश्चन्द्रमसंपूर्णमण्डलमिदा-नीम्। अभिभवितुमिच्छति बलात्”। अनन्तरंनेपथ्ये आःकएष मयि जीवति सति चन्द्रगुप्तमभिभवितुमिच्छति। अ-त्रान्यार्थवन्त्यपि पदानि हृदिस्थार्थावगत्या अर्थान्तरे संग-मय्य पात्रप्रवेशः। सूत्रधारस्य वाक्यं वा समादायार्थ-मस्य वा। भवेत् पात्रप्रवेशश्चेत् कथोद्घातः स उच्यते

२ । वाक्यं यथा रत्नावल्याम्।
“द्वीपादन्यस्मादपिघटयति विधिरभिमुखीभूतः” इत्यादि। सूत्रधारेण पठितेनेपथ्ये एवमेतत् कः सन्देहः द्वीपादन्यस्मादपीत्यादिपठित्वा यौगन्धरायणस्य प्रवेशः। वाक्यार्थं यथा वेण्याम्।
“निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डु-तनयाः संह माधवेन। रक्तप्रसाधितभुवः क्षतविग्रहाश्चस्वस्था भवन्तु कुरुराजसुताः सभृत्याः” इति सूत्र-धारेण पठितस्य वाक्यस्यार्थं गृहीत्वा नेपथ्ये। आःदुरात्मन्! वृथामङ्गलपाठक! कथं
“स्वस्था भवन्तु मयि जी-{??}अति धार्त्तराष्ट्राः। ततः सूत्रधारोनिष्क्रान्तः भीमसेनस्यप्रवेशः। यदि प्रयोगएकस्मिन् प्रयोगोऽन्यः प्रयुज्यते। तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा

३ । यथा कुन्दमा-लायाम्। नेपथ्ये
“इतैतोऽवतरत्वार्य्या” सूत्र॰ कोऽयंस्वलु आर्य्याह्वानेन साहायकं मे सम्पादयति विलोक्यकष्टमतिकरुणं वर्त्तते।
“लङ्केश्वरस्य भवने सुचिरं स्थितेतिरामेण लोकपरिवादभयाकुलेन। निर्वासितां जनपदा-दपि गर्भगुर्ब्बीं सीतां वनाय परिकर्षति लक्षणोऽयम्”। अत्र नृत्यप्रयोगार्थं स्वभार्य्याह्वानमिच्छता सुत्रधारेण
“सीतांवनाय परिकर्षति लक्ष्मणोऽयमिति” सीतालक्ष्मणयोः प्रवेशंसूचयित्वा निष्क्रान्तेन स्वप्रयोगमतिशयानएव प्रयोगःप्रयोजितः। कालं प्रवृत्तमाश्रित्य सूत्रधृक् यत्र वर्ण-येत्। तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्त्तकम्

४ । यथा
“आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तःशरत्समय एषविशुद्धकान्तः। उत्खाय गाढतमसं घनकालमुग्रं रामोदशा-स्यमिव सम्भृतबन्धुजीवः”। ततः प्रविशतियथा निर्द्दिष्टोरामः। यत्रैकत्र समावेशात् कार्य्यमन्यत्प्रसाध्यते। प्रयोगे स्वलुतज्ज्ञेयं नाम्नावलगितं बुधैः

५ । यथा शाकुन्तले। सूत्र॰नटींप्रति
“तवास्मि गीतिरागेण हारिणा प्रसभं हृतः। एष[Page0767-b+ 38] राजेव दुष्मन्तः शारङ्गेणातिरंहसा”। ततोराज्ञः प्रवेशः। योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि। अत्र आ-मुखे उद्घात्यकालगितयोरितराणि वीथ्यङ्गानि वक्ष्यमा-णानि। नखकुट्टस्तु
“नेपथ्योक्तं श्रुतं यत्र त्वाकाशवचनंतथा। समाश्रित्यापि कर्त्तव्यमामुखं नाटकादिषु”। एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत्। तेनार्थमथ-पात्रं वा समाक्षिप्यैव सूत्रधृक्। प्रस्तावनान्ते निर्गच्छे-त्ततोवस्तु प्रयोजयेत्। तत्र पूर्व्वं पूर्ब्बरङ्गः सभार्चनमतः परम्। कयनं कविसंज्ञादेर्नार्टकस्याभिधा ततः। रङ्गं प्रसाद्य मषुरैः श्लोकैः काव्यार्थसूचकैः। रूपकस्यकवेराख्यां गोत्राद्यपि च कीर्त्तयेत्। ऋतुञ्च कञ्चित्प्रायेणभारतीं वृत्तिमाश्रितः। तस्याः प्ररोचना वीथी”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमुख¦ n. (-खं)
1. Prelude, prologue.
2. Commencement. ind. To the face. E. आङ् before मुख face or beginning.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमुखम् [āmukham], 1 Commencement.

(In dramas) A prologue, prelude (प्रस्तावना); (every Sanskrit play is introduced by आमुख. It is thus defined in S. D. नटी विदू- षको वा$पि पारिपार्श्वक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावना$पि सा ॥ 287. -खम् ind. To the face.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमुख/ आ-मुख n. commencement L.

आमुख/ आ-मुख n. prelude , prologue Sa1h.

"https://sa.wiktionary.org/w/index.php?title=आमुख&oldid=491074" इत्यस्माद् प्रतिप्राप्तम्