यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्यम्, क्ली, (अलस + ष्यञ् ।) अलसस्य भावः । अलसता । तत्पर्य्यायः । तन्द्रा २ कौसीद्यं ३ । इति हेमचन्द्रः ॥ मन्दता ४ मान्द्यं ५ कार्य्यप्रद्वेषः ६ । इति राजनिर्घण्टः ॥ (यदुक्तं । “आलस्यं श्रमग- र्भाद्यैर्जाड्यं जृम्भासितादिकृत्” इत्युक्तलक्षणो व्यभिचारिभावभेदः । सुश्रुते । “सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता । शक्तस्य चाप्यनुत्साहः कर्म्मण्यालस्यमुच्यते” ॥)

आलस्यः, त्रि, (अलस एव । अलस + स्वार्थे ष्यञ् ।) अलसयुक्तः । तत्पर्य्यायः । मन्दः २ तुन्दपरिमृजः ३ शीतकः ४ अलसः ५ अनुष्णः ६ । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्य पुं।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

2।10।18।2।3

पराचितपरिस्कन्दपरजातपरैधिताः। मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्य¦ न॰ अलसस्य भावः ष्यञ्। विहितक्रियाकरणायानुत्साहेआलस्यञ्च
“किमालस्यं च कः शोकऽ” इति यक्षप्रश्ने
“धर्म्म-निषिक्रयतालस्यं शोकस्त्वज्ञानमुच्यते” भा॰ व॰

३१

२ अ॰युधिष्ठिरेण लक्षितम्।
“शक्तस्य चाप्यनुत्साहः कर्म्मस्वालस्य-मुच्यते” सुश्रुतेन लक्षितञ्च बोध्यम्” सा॰ द॰ उक्ते व्यभि-चारिभावभेदे च
“आलस्यं श्रमगर्भाद्यैर्जाड्यं जृम्भासिता-दिकृत्” यथा
“न तथा भूषयत्यङ्गं न तथा भाषते सखीम्। जृम्भते मुहुरासीना बाला गर्भभरालसा” सा॰ द॰
“आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति” मनुः। भारतोक्तधर्मक्रियाशून्यत्वरूपम् अत्रालस्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्य¦ mfn. (-स्यः-स्यी-स्यं) Idle, slothful, apathetic. n. (-स्यं) Idleness, sloth. E. अलस idle, and यञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्य [ālasya], a. Idle, slothful, apathetic. -स्यम् [अलसस्य भावः, ष्यञ्]

Idleness, sloth, want of energy; प्रमादालस्य- निद्राभिः Bg.14.8. शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते Suśr.; आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः Bh.2.86. आलस्य 'want of energy' is regarded as one of the 33 subordinate feelings (व्यभिचारि भाव; for example: न तथा भूषयत्यङ्गं न तथा भाषते सखीम् । जृम्भते मुहुरासीना बाला गर्भभरालसा S. D.183.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलस्य n. idleness , sloth , want of energy MBh. Mn. Ya1jn5. Sus3r. etc.

आलस्य mfn. idle , slothful L.

"https://sa.wiktionary.org/w/index.php?title=आलस्य&oldid=491302" इत्यस्माद् प्रतिप्राप्तम्