यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्¦ स्मरणेऽधिपूर्व्वक एव कित् कित्करणमधीगर्थेत्यादौ विशेषा-र्थम् अदादि॰ पर॰ सक॰ अनिट्। अध्येति अध्यैषीत्अध्यगात् इत्यन्ये इण इवास्य तिङि रूपं न कृति। अघीयन्।
“ससीतयोराघवयोरधीयन्” भट्टिः। एतद्योगेकर्म्मणि संवन्धविवक्षायां षष्ठी। मातुरध्येति। प्रति-पदविहिततयाऽनया षष्ट्या न समासः मातुरध्ययनम्।
“कियत्स्विदिन्द्रो अध्येति कियन्मातुः कियत् पितुः” ऋ॰

४ ,

१७ ,

१२ ।
“रामस्य दयमानोऽसावध्येति तवलक्ष्मणः” भट्टिः सम्बन्धाविवक्षायां तु द्वितीया।
“अग्निस्वर्ग्यमध्येषि मृत्यो!” कठो॰।
“अयमारुणिः संप्रती-ममात्मानं वैश्वानरमध्येति” छा॰ उ॰।
“अधीहिभगवन्। ब्रह्मेति” छा॰ उ॰।

"https://sa.wiktionary.org/w/index.php?title=इक्&oldid=223565" इत्यस्माद् प्रतिप्राप्तम्