यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुमूलम्, क्ली, (इक्षोः मूलमिव मूलं यस्य ।) वृक्षवि- शेषः । तत्यर्य्यायः । इक्षुनेत्रं २ मोरटकं ३ वंश- नेत्रं ४ वंशमूलं ५ मोरटं ६ वंशपूरकं ७ । इति राजनिर्घण्टः ॥ (“अतीव मधुरो मूलः” इति सुश्रुतः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुमूल¦ पु॰ इक्षोर्मूलं ग्रन्थिरिव मूलं ग्रन्थिर्यस्य।

१ वंशवृक्षे।

६ त॰। इक्षुमूले

२ तद्ग्रन्थौ न॰।

इक्षुमूल¦ पु॰ इक्षुरसतुल्योमेहः। सुश्रुतोक्ते प्रमेहभेदे तद्भेदाविंशतिर्निदानसहितास्तत्रोक्ता यथा
“दिवास्वप्नव्यायामा-लस्यप्रसक्तं शीतस्निग्धमधुरमद्यद्रवान्नपानसेविनं पुरुषंजानीयात्प्रमेही भविष्यतीति। तस्य चैवं प्रवृत्तस्यापरिपक्वाएव वातपित्तश्लेष्माणो यदा मेदसा सहैकत्वमुपेत्य मूत्र-वाहिस्रोतांस्यनुसृत्याधो गत्वा वस्तेर्मुखमाश्रित्य निर्भिद्यन्तेतदा प्रमेहान् जनयन्ति। तेषान्तु पूर्ब्बरूपाणि हस्त-पादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां मधुर-शुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्तालुगलजिह्वादन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्चनखानाम्। तत्राविलप्रभूतमूत्रलक्षणाः सर्व्व एव सर्व्वं[Page0911-a+ 38] दोषसमुत्थाः सह पिडकाभिः। तत्र कफादुदकेक्षुसुरा-सिकताशनैर्लवणपिष्टसान्द्रशुक्रफेनमेहाः दश साध्या दोष-दूष्याणां समक्रियत्वात्। पित्तान्नीलहरिद्राम्लक्षारमञ्जि-ष्ठाशोणितमेहाः षट् याप्या दोषदूष्याणां विषमक्रिय-त्वात्। वातात्सर्पिर्वसाक्षौद्रहस्तिमेहाश्चत्वारोऽसाध्यतमामहात्ययिकत्वात्। तत्र वातपित्तमेदोभिरन्वितः श्लेष्माश्लेष्मप्रमेहान् जनयति वातकफशोणितमेदोभिरन्वितंपित्तं पित्तप्रमेहान्। कफपित्तवसामज्जमेदोभिरन्वितोवायुर्व्वातप्रमेहान्। तत्र श्वेतमवेदनमुदकमेही मेहतिइक्षुरसतुल्यमिक्षुमेही, सुरामेही सुरातुल्यं, सरु-जम् सिकतानुविद्धं सिकतामेही शनैः सकफ मृत्स्नंशनैर्मेही, विशदं लवणतुल्यं लवणमेही, हृष्टरोमा पिष्ट-रसतुल्यं पिष्टमेही, आविलं सान्द्रं सान्द्रमेही, शुक्रतुल्यंशुक्रमेही स्तोकं स्तोकं सफेनं फेनमेही मेहति। अत ऊर्द्धंपित्तनिमित्तान्वक्ष्यामः। सफेनमच्छं नीलं नीलमेही मेहतिसदाहं हरिद्राभं हरिद्रामेही, अम्लरसगन्धमम्लमेही, स्रुतक्षारप्रतिभं क्षारमेही, मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही। शोणितप्रकाशं शोणितमेही मेहति। अत जर्द्धं वात-निमित्तान्वक्ष्यामः। सर्पिः प्रकाशं सर्पिर्मेही मेहतिवसाप्रकाशं वसामेही, क्षौद्ररसवर्णं क्षौद्रमेही, मत्तमातङ्गवदनुप्रवृद्धं हस्तिमेही मेहति। मक्षिकोपसर्पणमालस्यंमांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्र-सेकच्छर्द्दिनिद्राकासश्वासाश्चेति श्लेष्मजानामुपद्रवाः। वृष-णयोरवदरणं वस्तिभेदो मेढ्रतोदो हृदिशूलमम्लीकाज्वरा-तीसारारोचका वमथुः परिधूमायनं दाहो मूर्च्छा पिपासानिद्रानाशः पाण्डुरोगः पीतविण्मुत्रनेत्रत्वञ्चेति पैत्ति-कानाम्। हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्ध-पुरोषत्वञ्चेति वातजानाम्। एवमेते विंशतिः प्रमेहाःसोपद्रवा व्याख्याताः। तत्र वसामेदोभ्यामभिपन्नशरीरस्यत्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते। तद्यथा। शराविका सर्षपिका कच्छपिका जालिनी विनतापुत्त्रिणी मसूरिका अलजी विदारिका विद्रधिका चेति। शरावमात्रा तद्रूपा निम्नमध्या शराविका। गौरसर्षप-संस्थाना तत्प्रमाणा च सर्षपी। सदाहा कूर्म्मसंस्थानाज्ञेया कच्छपिका बुधैः। जालिनी तीव्रदाहा तु मांस-जालसमावृता। महती पिडका नीला पिडका विनतास्मृता। महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्त्रिणी। मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका। रक्तासिता[Page0911-b+ 38] स्फोटवती दारुणा त्वलजी भवेत्। विदारी कन्दवद्वृत्ताकठिना च विदारिका। विद्रधेर्ल्लक्षणैर्युक्ता ज्ञेया विद्रधिकाबुधैः। ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तत्कृताः। गुदे हृदि शिरस्यंसे पृष्ठे मर्म्मणि चोत्थिताः। सोप-द्रवा दुर्ब्बलस्य पिडकाः परिवर्ज्जयेत्। कृत्स्नं शरीरंनिष्पीड्य मेदोमज्जवसायुतः। अधः प्रक्रमते वायुस्तेना-साध्यास्तु वातजाः। प्रमेहपूर्ब्बरूपाणामाकृतिर्यत्र दृश्यते। किञ्चिच्चाप्यधिकं भूत्रं तं प्रमेहिणमादिशेत्। कृत्स्नान्य-र्डानि वा यस्मिन् पूर्ब्बरूपाणि मानवे। प्रवृत्तभूत्रमत्यर्थंतं प्रमेहिणमादिशेत्। पिडकापीडितं गाढमुपसृष्ट-मुपद्रवैः। मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्त्तितः। स चापि गमनात् स्थानं, स्थानादासनमिच्छति। आसनाद्वृ-णुते शय्यां, शयनात् स्वप्नमिच्छति। यथाहि वर्ण्णानां पञ्चा-नामुत्कर्षापकर्षकृतेन संयोगविशेषेण शवलबभ्रुकपिलकपो-तमेचकादीनाम् वर्णानामनेकेषामुत्पत्तिर्भवति। एवमेव दो-षधातुमलाहारविशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण। भवति चात्र। सर्वएव प्रमेहास्तु कालेनाप्रतिकारिणः। मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि” तत्रैव चिकित्-सास्थाने सर्वप्रमेहस्य प्रकारान्तरेण द्वैविध्यमुक्तम्। यथा
“द्वौ प्रमेहौ सहजोऽपथ्यनिमित्तश्च भवतः तत्रसहजोमातृपितृवीजदोषकृतः। अहिताहारजोऽपथ्यनिमित्तः। तयोः पूर्व्वेणोपद्रुतः कृशोरूक्षोऽल्पाशी पिपासुर्भृशंपरिसरणशीलश्च भवति उत्तरेण स्थूलोबह्वाशी स्निग्धः-शय्यासनस्वप्नप्रायेणेति”
“तत्रोदकमेहिनं पारिजात-कषायं पाययेत् इक्षुमेहिनं वैजयन्ती कषायम्” च सुश्रु॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुमूल¦ n. (-लं)
1. A sort of tree; also इक्षुनेत्र।
2. The root of sugar-cane. E. इक्षु and मूल a root.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुमूल/ इक्षु--मूल n. a kind of sugar-cane

इक्षुमूल/ इक्षु--मूल n. the root of sugar-cane.

"https://sa.wiktionary.org/w/index.php?title=इक्षुमूल&oldid=223677" इत्यस्माद् प्रतिप्राप्तम्