इक्षुरसः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इक्षुरसः, पुं, (इक्षोरिव रसो यस्य ।) काशतृणं । इति भावप्रकाशः ॥ (इक्षुवृक्षस्य रसः । अस्य गुणाः क्रमेण यथा; दन्तपीडितेक्षुरसगुणाः । जीवन- हितकारित्वं, हिमत्वं, शुक्रकारित्वं, तृप्तिजनकत्वं, वायुरक्तपित्तनाशित्वं, स्वादुत्वं, रक्तवर्द्धकत्वं धातु- वर्द्धकत्वञ्च यथा भावप्रकाशः । “दन्तद्धिष्पीडितस्येक्षो रसः पित्तास्रनाशनः । शर्करासमवीर्य्यः स्यादविवादी कफप्रदः” ॥ यन्त्रनिष्पीडितरसगुणाः, रक्तशुक्रकारित्वम्, शी- तलत्वं, सारकत्वं, दाहजनकत्वं, किञ्चित् पित्त- वायुनाशित्वं, क्षीरविष्टम्भदाहकारित्वञ्च यथा, भावप्रकाशे, -- “मूलाग्रजन्तुग्रन्थ्यादिपीडनात् मलसंकरात् । किञ्चित्कालं विधृत्याथ विकृतिं याति यान्त्रिकः ॥ तस्मात् विदाही विष्टम्भी गुरुः स्यात् यान्त्रिको रसः । पर्य्युषितेक्षुरसगुणाः । वान्तिहरत्वं, वातज- नकत्वं, जाड्यप्रतिश्यायरोगदातृत्वं, कफवायुकारि- त्वञ्च । यथा भावप्रकाशे । “रसः पर्य्युसितो नेष्टो ह्यम्लो वातापहो गुरुः । कफपित्तकरः शोषी भेदनश्चातिमूत्रलः” ॥ * ॥ पक्वेक्षुरसगुणाः । गुरुत्वं । सुतीक्ष्णत्वं । कफ- वातनाशित्वं । स्निग्धत्वं । अतिपाके विदाहत्वं । पित्तास्रदोषशोषकारित्वञ्च । यथा भावप्रकाशे । “पक्वो रसो गुरुः स्निग्धः सुतीक्ष्णः कफवातनुत् । गुल्मानाहप्रशमनः किञ्चित् पित्तहरः स्मृतः” ॥ * ॥ इक्षुरसविकारगुणाः । यथा भावप्रकाशे । “इक्षोर्विकारास्तृड्दाहमूर्च्छापित्तास्रनाशनाः । गुरवो मधुरा बल्याः स्निग्धाः वातहराः सराः । वृष्या मोहहराः शीता वृंहणा विषहारिणः” ॥)