यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गुदी, स्त्री, (इङ्गुद + ङीष् ।) वृक्षविशेषः । इङ्गौट इति भाषा । जीयापुता इति तु वङ्गदेशीयाः प्रमादेन वदन्ति तस्य तु पुत्त्रजीव इत्यादीनि नामानि प्रसिद्धानि । तत्पर्य्यायः । तापसतरुः २ । इत्यमरः ॥ हिङ्गुपत्रः ३ विषकण्टः ४ अनिलान्तकः ५ गौरत्वक् ६ तनुपत्रः ७ शूलारिः ८ तापसद्रुमः ९ तीक्ष्णकण्टः १० तैलफलः ११ पूतिगन्धः १२ विगन्धकः १३ क्रोष्टुफलः १४ । (यथा रघुः १४ । ८१ । “ता इङ्गुदीस्नेहकृतप्रदीप- मास्तीर्णमेध्याजिनतल्पमन्तः” ॥) अस्या गुणाः । मदगन्धित्वं । कटुत्वम् । उष्णत्वम् । फेनिलत्वम् । लघुत्वम् । रसायनत्वम् । जन्तु- वातामयकफव्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायपूर्ब्बकं गुणानाह । “इङ्गुदोऽङ्गारवृक्षश्च तिक्तकस्तापसद्रुमः । इङ्गदः कुष्ठभूतादिग्रहव्रणविषक्रिमीन् ॥ हन्त्युष्णश्वित्रशूलघ्नस्तिक्तकः कटुपाकवान्” । इति भावप्रकाशः ॥) ज्योतिष्मतीवृक्षः । इति रत्नमाला ॥ नयाफट्की इति भाषा ।

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गुदी स्त्री।

इङ्गुदी

समानार्थक:इङ्गुदी,तापसतरु

2।4।46।1।1

इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ। पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः॥

अवयव : इङ्गुद्याः_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

"https://sa.wiktionary.org/w/index.php?title=इङ्गुदी&oldid=491714" इत्यस्माद् प्रतिप्राप्तम्