यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष य सर्पणे । गतौ । इति कविकल्पद्रुमः ॥ (दिवां- परं-सकं-सेट् ।) ह्रस्वादिः । य इष्यति । सर्पणं गतिः । इति दुर्गादासः ॥

इष उ श वाञ्छे । इति कविकल्पद्रुमः ॥ (तुदां- परं-अकं-सेट् । उ एषित्वा इष्ट्वा । वेमसह- लुभेत्यादिसूत्रेणैवेष्टसिद्धेऽप्यस्योदनुबन्धस्तत्सूत्रे इ षगाभीक्ष्ये इष्य सर्पणे इत्येतयोरप्राप्तये विशे- षणार्थः । न च पिबादिग्रहणवत्तत्र इच्छ इति ग्रहणेनैवेष्टसिद्धिरिति वाच्यं लाघवाभावे प्राचीन- मतस्यैव न्याय्यत्वात् । श इच्छती इच्छन्ती । अस्यैव इच्छादेशः । इच्छति धनं लोकः । इति दुर्गादासः ॥

इष ग आमीक्ष्ण्ये । पौनःपुन्येन करणे । इति कवि- कल्पद्रुमः ॥ (क्र्यादिं-परं-अकं-सेट् ।) ग इष्णाति पण्डितः । पुण्यं पुनःपुनः करोतीत्येर्थः । इति दुर्गादासः ॥

इषः, पुं, (इष्यते गम्यतेऽस्मिन् जिगीषुभिरिति । इष + क ।) आश्विनमासः । इत्यमरः ॥ (यथा, शतपथब्राह्मणे । ४ । ३ । “यच्छरद्दूर्गस ओषधयः पच्यन्ते ते ने हैताविषश्चोर्गश्च” । इषर्जौ शरत्” । इति सुश्रुतः ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष पुं।

आश्विनमासः

समानार्थक:आश्विन,इष,आश्वयुज

1।4।17।2।2

स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः। स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष¦ गतौ सर्पणे च दिवा॰ पर॰ सक॰ सेट्।

१ इष्यति, ऐष्यत्। ऐषीत् इषितः एषित्वा।
“इष्यन् वाचमुपवक्तेव होतः” ऋ॰

९ ,

६४ ,

९ ।
“योऽभिवात इषितः प्रवाति” अथ॰

१० ,

८ ,

३५ ।
“स तत्कृषीषितस्तूयमग्ने” अथ॰

६ ,

३५ ,

५ ।
“हिन्वानो वाचमिष्यसि” ऋ॰

९ ,

६४ ,

९ । इच्छा-[Page0986-a+ 38] यामपि
“अप इष्य होतरित्थप इच्छ होतरित्यैवेतदाह” शत॰ ब्रा॰

३ ,

९ ,

३ ,

१५ । गतौ तुदादिरपि इषति निरु॰। अनु + अन्वेषणे गवेषणे
“अन्विष्यन्तस्ततःसीताम्” रामा॰
“यावदेनामन्वेष्यामि” शकु॰।
“न रत्नमन्विष्यति मृग्यतेहि तत्” कुमा॰।
“तस्यान्विष्यन् वेतसगूढं प्रभवं सः” रघुः। स्वार्थे णिच्। तत्रैव
“राममन्वेषयामि” सा॰ द॰। प्र + प्रेरणे।
“अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्” भा॰ व॰

१६ अ॰।
“गत्वा प्रैषीच्चरावणम्” भट्टिः
“अ-ध्वर्युप्रेषितोमैत्रावरुणः प्रेष्यति” आश्व॰ गृ॰।
“शौनःशेफं च प्रेष्यति” कात्या॰

१३ ,

६ ,


“अग्नीषोमाभ्यां छागस्यवपायै मेदसे प्रेष्य” शत॰ ब्रा॰

३ ,

८ ,

२ ,

२७ । घञ्प्रैष्यः। ण्यत् प्रैषः। स्वार्थेणिच्। प्रेषयति प्रेषयामास।
“स च मां प्रेषयामास” रामा॰। परि + सत्कारपूर्व्वकनियोजने पर्य्येष्यति स्वार्थे णिच् पर्य्येषितः पर्य्येषणा।

इष¦ वाञ्छायाम् तुदा॰ पर॰ सक॰ सेट् वेट् क्त्वः।

१ इच्छति,
“इच्छामि संबर्द्धितमाज्ञयाते” कुमा॰। इच्छेत्
“यदीच्छे-द्विपुलान् भोगान्” मल॰ त॰ पु॰।
“राजान्तेवासि-याज्येभ्यः सीदन्नोच्छेद्धनं क्षुधा” या॰ स्मृ॰। ऐच्छत्ऐषीत्
“ऐषीः पुनर्जन्मजयाय यत्त्वम्” भट्टिः इयेष
“इयेषसा कर्त्तुमबन्ध्यमात्मनः” कुमा॰ ईषतुः। इच्छन्
“किमच्छन्कस्य कामाय किमर्थमनुसंज्वरेत्” श्रुतिः। एषिता--ऐष्टा एषित्वा--इष्ट्वा। भावे श इच्छा
“आत्मजन्या भवे-दिच्छा” न्यायका॰। इष्टः
“इष्टोऽसि मे सखा चेति” गीता। कर्मणि इष्यते
“त्रिरात्राच्छुद्धिष्यते” स्मृतिः। एष्टव्यः एषि-तव्यः।
“एष्टव्या बहवः पुत्रायद्येकोऽपि गयां व्रजेत्” पु॰। अनु + अन्वेषणे।
“तं खलन्त इवान्वीषुः” शत॰ ब्रा॰।
“हन्ततमात्मानमन्विच्छामो यमन्वेष्टा” छा॰ उ॰।
“अनु-पदसन्वेष्टा” पा॰
“वयं तत्त्वान्वेषात् मधुकर! हतस्त्वंखलु कृती” शकु॰प्रति + प्रतिग्रहे प्रतीच्छति (प्रतिगृह्णाति)।
“ततःप्रतीच्छ प्रहरेति वादिनी” नैष॰
“स्नुषां प्रतीच्छमे कन्याम्” प्राप्तौ च
“बुद्धौ शरणमन्विच्छ” गीता। स्वार्थे णिच् वेदे॰ नि॰ गुणाभावः। इषयति
“इच्छंस्तदा-स्तरायेष मदन्त इपयेम ज्योतिः” ऋ॰

१ ,

१८

५ ,

९ ।
“इषयेमइच्छाम” भा॰। परि + अन्वेषणे च परीच्छति (अन्विष्यति)
“भगवन्तं वा अह-मेभिरार्त्विज्यैः पर्य्यैषिषम्” छा॰ उ॰। अभि + मस्मगिच्छायाम् अभोष्टम्। [Page0986-b+ 38]

इष¦ ओभोक्ष्ण्ये क्र्यादि॰ पौनःपुन्ये पर॰ अक॰ सेट्इष्णाति इष्णातु इषाण।
“इष्णन्निषाणामुं महेषाणसर्व्वलोकं मैषाण” यजु॰

३१ ,

२२ , अ॰। ऐष्णात्ऐषीत्। एषितः एषित्वा। प्रेरणे च।
“भिनद्गिरिंशबसा वज्रमिष्णन्” ऋ॰

४ ,

१७ ,

३ । इष्णन् प्रेरयन्” भा॰। इच्छार्थेऽपि
“पूर्वीरिषश्चरति मध्व इष्णन्” ऋ॰

१ ,

१८

१ ,

६ ।
“मध्वः मधुनः इष्णन् इच्छन” भा॰। आभी-क्ष्ण्यञ्च क्रियापौनःपुन्यम्। क्रिया च धात्वर्थविशेषः सच वाञ्छागत्यादिरेव तस्यैवाभीक्ष्ण्यद्योतनेऽस्य साधुत्वम्

इष¦ गतौ भ्वा॰ उभ॰ सक॰ सेट्। एषति ते। ऐषीत् ऐषिष्टअनु--अनुसरणे। अन्वेषति।
“अन्वेषन्तोवनं राजन्”
“देशमन्यं दुराचारमन्वैषन् वानरास्तथा” रामा॰।

इष¦ पु॰ इष--गतौ क्विप्--इट् यात्रा सास्मिन् मासे जिगीषूणा-मस्ति अर्श आ॰ अच्। सौरे चान्द्रे च आश्विने

१ मासि।
“श्रावण्ये भाद्रमासे युवतिगृहगते चार्थलाभः प्रदिष्टः” राजमा॰ उक्तेः
“सौराश्विनस्य यात्राया अर्थलाभदत्वात्तथा-त्वम्”। अत एव रघौ
“सरितः कुर्वती गाधाः पथश्चाश्या-नकर्दमान्। यात्रायै नोदयामास तं शक्तेः प्रथमं शरत्”। शरत्कालस्य राज्ञां यात्रार्थत्वमुक्तम्। शरदुतुश्च
“इषश्चोर्जश्चशरदिति” श्रुत्युक्त आश्विनकार्त्तिकमासरूपःकालः तस्यच सौरत्वमृतुशब्दे वक्ष्यते
“आमेखलं सञ्चरतां घनानांछायामिषे सानुगतां निषेव्य” कुमा॰ पाठान्तरम्।
“ध्वनि-मिषेऽनिषेक्षणमग्रतः” माघः। तत्र चान्द्रे
“इषे मास्यसितेगक्षे नवम्यामार्दयोगतः” तिथि॰ देवीपु॰ अत्र चान्द्रोगौणः
“यच्छरद्यूर्जश्च औषधः पच्यन्ते तेनोहैताविषश्चोर्जश्च” शत॰ ब्रा॰ ऋ॰

४ ,

३ ,

१ ,

१७ ,
“अन्तर्भूतण्यर्थे भावे{??}ञर्थेक”।

२ प्रेषणे
“इषवान् मम रेजति” ऋ॰

१ ,

२९ ,

६ ,
“इषवान् प्रेषणवान्” भा॰। इष--इच्छायां कर्मणिधञर्थे क

३ अन्ने न॰ निरु॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष¦ r. 4th cl. (इष्यति) To go. r. 6th cl. (इच्छति)
1. To wish, to desire.
2. To accept, to receive. With अभि, to desire: with प्रति, to engage, to promise. r. 9th cl. (इष्णाति) To repeat an act, to do anything again and again. With अनु prefixed, to search after, to investigate or enquire.

इष¦ m. (-षः) The month A'swin, (September-October.) E. इष् to go, क affix; also ईष।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषः [iṣḥ], 1 One possessed of sap or strength.

The month आश्विन; ... ध्वनिमिषे$निमिषेक्षणमग्रतः Śi.6.49.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष mfn. seeking(See. गव्-इष).

इष mfn. possessing sap and strength

इष mfn. well-fed , strong

इष mfn. sappy , juicy , fertile RV.

इष m. N. of the month आश्विन, (September-October) VS. S3Br. Sus3r. VP.

इष m. N. of a ऋषिBhP.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Vatsara and स्वर्वीथि. भा. IV. १३. १२.
(II)--the month sacred to त्वष्टा; ऐप्पशि, one of the two months forming the शरत्। भा. XII. ११. ४३; वा. ३०. 9; ५०. २०१; Br. I. १३. १०.
"https://sa.wiktionary.org/w/index.php?title=इष&oldid=491954" इत्यस्माद् प्रतिप्राप्तम्