यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्टम्, क्ली, (इज्यते इष्यते वा यज इष वा + भावे क्त ।) यज्ञादिकर्म्म । (यथा, हेमचन्द्रः । “अग्निहोत्रं तपः सत्यं वेदानां चार्थपालनम् । आतिथ्यं वैश्यदेवञ्च इष्टमित्यभिधीयते” ॥) यथेप्सितं । कामं । इत्यमरः ॥ संस्कारः । इति मेदिनी ॥

इष्टम्, त्रि, (इष्यते इज्यते वा यत् तत् । इष यज वा + कर्म्मणि क्त ।) आशंसितम् । वाञ्छित्वम् । पूजितम् । प्रियं । इति मेदिनी ॥ (यथा, महा- भारते । “उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः” । मनुः । ४ । २२९ । “तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्” ।)

इष्टः, पुं, (इज्यते यः । यज् + क्त ।) यज्ञः । इति मेदिनी ॥ एरण्डवृक्षः । इति शब्दचन्द्रिका ॥ (शमीशब्देऽस्य गुणादिकं बोद्धव्यम् ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट नपुं।

यज्ञकर्मः

समानार्थक:इष्ट

2।7।28।1।1

त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत्. अमृतं विघसो यज्ञशेषभोजनशेषयोः॥

 : पूर्तकर्मः

पदार्थ-विभागः : , क्रिया

इष्ट नपुं।

यथेप्सितम्

समानार्थक:काम,प्रकामम्,पर्याप्त,निकामम्,इष्ट,यथेप्सितम्,लघु,स्वादु

2।9।57।1।5

कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्. गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट¦ त्रि॰ इष--कर्मणि क्त।

१ अभिलषिते,

२ प्रिये
“इष्टोऽसिसखा चेति गीता॰ च। यज भावे क्त।

३ यज्ञादौन॰ कर्म्मणि, क्त।

४ पूजिते

५ एरण्डवृक्षे पु॰।

६ संस्कारे न॰।
“एकाग्निकर्म्म हवनं त्रेतायां यच्चहूयते। अन्तर्वेद्याञ्च यद्दानमिष्टं तदभिधीतते। अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम्। आतिथ्यंवैश्वदेवञ्च प्राहुरिष्टमिति स्मृतम्” जातूकर्णोक्ते

७ धर्म्म-कार्य्ये न॰। इष्टञ्च इच्छाविषयः तच्च द्विविधं गौणं मु-ख्यञ्च। तत्र इतरेच्छानधीनेच्छाविषयोमुख्यं तत्वाघनंगौणम्। तत्र मुख्यमिष्टं सुखं दुःखाभावश्च। तदिच्छायाइतरेच्छानधीनत्वात्। तत्साधनं पाकभोजनादि गौणंसुखदुःखाभावेच्छयैव तदिच्छायाः समुन्मेषात् अ-धिकमिच्छाशब्दे

९१

३ पृष्ठे उक्तम्। तत्रेच्छाविषये
“सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेनप्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्”।
“अनिष्टमिष्टं मिश्रञ्चत्रिविधं कर्म्म चोच्यते”।
“इष्टं हि वो देवा दास्यन्ते यज्ञभाविताः” इति च गीता। यज्ञे
“पुरोडाशभुजामिष्टमिष्टकर्त्तुमलन्तराम्” माघः इष्टं यागः इष्टममीष्टं कर्त्तुमल-न्तरामित्यर्थः।
“इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात्” देवलः। इष्टं यजनम्” शु॰ त॰ रघु॰

८ कृते च
“यज्ञेरिष्टंक्रतुशतम्” विक्रमो॰ स्मृतिपरिभाषिते इष्टकर्म्मणिद्विजातीनामेवाधिकारः न स्त्रीशूद्रयोः यथाह
“इष्टमुक्तद्विजातीनां धर्मः सामान्य उच्यते। अधिकारी भवेच्छूद्रःपूर्त्तेधर्मे न वैदिके” जातूकर्णः
“वैदिके वेदसाध्ये अग्नि-होत्रादाविति” रत्नाकरः।
“पितृव्यगुरुदौहित्रान् भर्त्तुःस्वस्रीयमातुलान्। पूजयेत् कव्यपूर्त्ताभ्याम् वृद्धानाथाऽति-थीन् स्त्रियः” वृहस्पतिवचने स्त्रिया पूर्त्तमात्रेऽधिकार-विधानात् तत्र
“जलाशयोत्सर्गरूपपूर्त्ते गोरवतारणानुम-न्त्रणयायजमानकर्तृकमन्त्रपाठ विधानात् तत्र अमन्त्रकतयास्त्रीशूद्रयोरनधिकारेण तद्वति यागेऽपि तयोर्नाधिकारःविशेषोपदेशाभावात्” इति द्वैतनिर्णयानुसारिणः। वृषोत्सर्नेतदङ्गहोम इव ब्राह्मण द्वारा तन्मन्त्रपाठसम्भवात्तयोरपितत्राधिकारः इति रघुनन्दनादयः।
“अमन्त्रस्य तु शूद्रस्यविप्रोमन्त्रेण गृह्यते” वराहपु॰
“तद्धुतमहुतञ्चाग्नौ न स्त्रीजुहुयादनुपेतः” आप॰ वचनं तु स्वयंहोमविषयम्।
“श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृत्विजः स्वयम्” याज्ञ॰ श्रौतइव स्मार्त्तोऽपि कर्मणिः ऋत्विग्वरणोक्तेः। अतएव
“ऋ-त्विग्वादे नियुक्तश्च समौ संपरिकीर्त्तितौ। यज्ञे स्वाम्याप्नु-[Page0991-a+ 38] यात् पुण्यं हानिं वादेऽथ वा जयमिति” वृह॰ उक्तेः


“श्रौतेकर्मणि न॰
“उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्त्तेसंसृजेथामयञ्च” यजु॰

१५ ,

५४ इष्टापूर्त्ते श्रौतस्मार्त्तेकर्मणी” वेददी॰।

१० इच्छया कल्पिते त्रि॰
“इष्ट-कृतिरष्टगुणिता व्येका दलिता विभाजितेष्टेन” लीला॰

११ यज्ञेन तोषिते परात्मनि

१२ विष्णौ च पु॰
“इष्टो-विशिष्टः शिष्टेष्टः” विष्णुस॰
“इष्टः परमानन्दात्मकत्वेनप्रियः यज्ञेन पूजितो वेति” भा॰। यज--करणे वा॰क्त, भावे क्त अस्त्यर्थे अच् वा।

१३ इष्टकायां न॰।
“मरुतार्केण शुध्यन्ति पक्वेष्टरचितानि च” विष्णु॰।

इष्ट¦ स्त्री इष--भावे तुन्। इच्छायाम् उणादिकोषः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Wished, desired.
2. Cherished, beloved.
3. Wor- shipped, reverenced, respected. m. (-ष्टः)
1. A lover, a husband.
2. The Castor-oil tree. n. (-ष्टं)
1. An act of sacrifice, an oblation, &c.
2. An essential ceremony, as ablution, investiture, &c. ind. (-ष्टम्) Voluntarily. E. इष् to desire, or इष् substituted for यज् to sacrifice, and क्त aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट [iṣṭa], p. p. [इष् इच्छायां कर्मणि क्त]

Wished, desired, longed for, wished for; उपपन्नो गुणैरिष्टैः Nala.1.1.

Beloved, agreeable, liked, favourite, dear; ˚आत्मजः Mu.2.8 fond of sons.

Worshipped, reverenced.

Respected.

Approved, regarded as good.

Desirable; see इष्टापूर्त.

Valid.

Sacrificed, worshipped with sacrifices.

Supposed (कल्पित); oft. used in Līlavatī.

ष्टः A lover, husband, beloved person; इष्टप्रवासजनितानि Ś.4.3.

A friend; इष्टानामिष्ट- कर्मकृत Pt.1.57;2.172.

N. of a tree (एरंड).

N. of Viṣṇu.

A sacrifice. -ष्टा N. of a tree (शमी).

ष्टम् Wish, desire.

A holy ceremony or संस्कार. एतदिष्टं प्रवृत्ताख्यम् Bhāg.7.15.49.

A sacrifice; Bṛi. Up.4.1.2; see इष्टापूर्त. ind. Voluntarily. -Comp. -अर्थः desired object. ˚उद्युक्त a. zealously engaged in gaining one's desired object. -आपत्तिः f. occurrence of what is desired; a statement by a debater which is favourable to his opponent also; इष्टापत्तौ दोषान्तरमाह Jag. -कर्मन् n. (In Arith.) rule of supposition, operation with an assumed number. -कापथः the root of a fragrant grass (वीरणमूल; Mar. वाळा). -कामदुह् a. granting the desired objects, an epithet of the cow of plenty; एष वो$स्त्विष्टकामधुक् Bg.3.1. -गन्ध a. fragrant. (-धः) any fragrant substance. (-धम्) sand.-जनः a beloved person (whether man or woman); U.3. -देवः, -देवता a favourite god, one's tutelary deity. -भागिन् a. One who has attained his object; अपूजयन्राघवमिष्टभागिनम् Rām.6.67.175. -यामन् a. going according to one's desire. वायुर्न यो नियुत्वाँ इष्टयामा Rv.9. 88.3. -व्रत a.

performing desired vows.

obeying one's wish.

(food &c.) for the fulfilment of a vow.

that by which good works succeed. इष इष्टव्रता अकः Rv.3.59.9.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट mfn. (for 2. See. s.v. ) , sought S3Br.

इष्ट mfn. wished , desired

इष्ट mfn. liked , beloved

इष्ट mfn. agreeable

इष्ट mfn. cherished RV. S3Br. Ka1tyS3r. Mn. Pan5cat. S3ak. etc.

इष्ट mfn. reverenced , respected

इष्ट mfn. regarded as good , approved Mn. Sa1m2khyak.

इष्ट mfn. valid

इष्ट m. a lover , a husband S3ak. 83 c

इष्ट m. the plant Ricinus Communis L.

इष्ट n. wish , desire RV. AV. AitBr. Mn. R.

इष्ट mfn. ( p.p. fr. यज्; for 1. इष्टSee. col. 2) sacrificed , worshipped with sacrifices VS. S3Br. Ka1tyS3r. AitBr. etc.

इष्ट m. sacrifice Ma1rkP. xiii , 15

इष्ट n. sacrificing , sacrifice

इष्ट n. sacred rite , sacrament L.

"https://sa.wiktionary.org/w/index.php?title=इष्ट&oldid=491966" इत्यस्माद् प्रतिप्राप्तम्