यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्ष ङ दर्शने । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं- सकं-सेट् ।) दर्शनमिह चाक्षुषज्ञानं प्रणिधानञ्च । ङ ईक्षते चन्द्रं लोकः । “न कामवृत्तिर्व्वचनीय- मीक्षते” । इति कालिदासः ॥ “निरीक्षिष्यामि यान्मुनीन् इति गणकृतानित्यत्वात्” इति रमानाथः ॥ “वस्तुतस्तु निरीक्ष्यते निरीक्षः पचादित्वादन् ततो निरीक्ष इवाचरतीतिक्वौ साध्यं” इति दुर्गादासः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्ष¦ दर्शने पर्य्यालोचने च भ्वा॰ आत्म॰ सक॰ सेट्। ईक्षते ईक्षीत ईक्षताम् ऐक्षत ऐक्षिष्ट ईक्षाम्--बभूव आ-स--चक्रे--ईक्षिता ईक्षिषीष्ट ईक्षिष्यते ऐक्षिष्यत। ईक्षितव्यःईक्षणीयः ईक्ष्यः ईक्षिता ईक्षितः ईक्षित्वा वीक्ष्य। ईक्ष-णम् ईक्षा। ईक्षमाणः। कर्म्मणि ईक्ष्यते ईक्ष्यमाणः। धातुनिर्देशे इक्षतिः ईक्षिः।
“न धर्मवृद्धेषु वयः समी-क्ष्यते” न कामवृत्तिर्वचनीयमीक्षते” कुमा॰।
“तदैक्षतबहु स्यां प्रजायेय” श्रुतिः।
“स प्रजापतिरीक्षां चक्रे” श्रुतिः
“सर्वभूतस्थमात्मानं सर्व्वभूतानि चात्मनि। ईक्षतेयोगयुक्तात्मा” गीता।
“कथमीक्षामहे सर्वे, दुर्य्योधन!तवेप्सितम्” भा॰ व॰

२९

८ श्लो॰।
“ऐक्षिष्ट पुंभिः प्रचि-नान् स गोष्ठान्” भट्टिः वेदे पदव्यात्यासोऽपि
“कश्चिद्धीरःप्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” कठो॰। पृ-[Page1006-b+ 38] ष्टेनशुफाशुभालोचने च तद्योगे शुभाशुभसंबन्धिनि चतुर्थी।
“राधीक्ष्योर्यस्य विप्रश्नः” पा॰।
“यदीयः विविधः प्रश्नःक्रियते तस्मिन् चतुर्थीत्यर्थः।
“कृष्णाय ईक्षते गर्गःपृष्टोगर्गः शुभाशुभं पर्त्यालोचयतीत्यर्थः” सि॰ कौ॰।
“ईक्षतेर्ना-शब्दम्” शा॰ सू॰।
“कारणे ईक्षितृत्वश्रवणात्” भा॰। अधि + विवेचने अधीक्षते
“कुहकचकितोलोकः सत्येऽप्यपायमधीक्षते” हितो॰। अनु + अनुचिन्तने।
“तामन्वीक्षत इयं वै वल्मीकवपेयम्” शत॰ ब्रा॰

६ ,

३ ,

३ ,

५ ।
“अन्वीक्षमाणीरामस्तु विषण्णंभ्रान्तचेतनम्” रामा॰। अप--आकाङ्क्षायामनुरोधे अवधिनियमे च।
“अपेक्षतेप्रत्ययमुत्तमं त्वाम्” कुमा॰
“अपेक्षन्ते न च स्नेहं न पात्रंन दशान्तरम्। परोपकारनिरतामणिदीपा इवोत्तमाः” उद्भटः।
“किमपेक्ष्य फलम् पयोधरान् ध्वनतः प्रार्थयतेमृगाधिपः” किरा॰।
“द्वित्वादयः परार्द्धान्ता अपेक्षा-बुद्धिजामताः”
“अपेक्षाबुद्धिनाशाच्च तेषां नाशः प्रकीर्तितः” भाषा॰
“शब्दोव्यञ्जकत्वेऽर्थान्तरमपेक्षते” सा॰ द॰।
“सापेक्षत्वेऽप्रि गमकत्वात् समासः” पा॰ भा॰
“सा प्रक्रियाया कथमित्यपेक्षा” मीमा॰।
“नदीशः परिपूर्णोऽपिमित्रोदयमपेक्षते” चन्द्रा॰। वि + अप + विशेषेणापेक्षयाम्।
“न व्यपैक्षत समुन्सुकाः प्रजाः” रघु॰।
“व्यपेक्षमाणौ सहसीतयागतौ” रामा॰
“सभर्थःपदविधिः” पा॰ भा॰ व्यपेक्षाऽव्यपेक्षापक्षद्वयमुपन्य-स्तम्। तत्र व्यपेक्षापक्षोमतान्तरेण उपन्यस्तः स चयुक्तिविरुद्धत्वात् कैयटविररणादौ दूषितः
“वाक्यवत्सा व्यपेक्षाऽपि वृत्तावपि न हीयते” भर्तृ॰। सा च शब्द-बोधिपयोगिन्याकाङ्क्षारूपा आकाङ्क्ताशब्दे विवृतिः। अव + चाक्षुषदर्शने।
“योत्स्यमानानवेक्षेऽहं य एतेऽत्र समा-गताः” गीता।
“अवेक्षमाणोमहतीं मुहुर्मुहुः” माघःसम्यक्पर्य्यालोचने च।
“यदवोचदवेक्ष्य सुन्दरी” किरा॰। अनु + अव + पर्य्यालोचने अनुसन्धाने च
“सूक्ष्मतां चान्ववेक्षेतयोगेन परमात्मनः” मनुः। अभि + अव + भोजनार्थेक्षणे।
“यजमानस्य पशूनभ्यवेक्षते” शत॰ब्रा॰

११ ,

१ ,

५ ,

११ ,
“अभ्यवेक्षते अभ्यवहर्तुं पश्यति” भा॰। परि + अव + समन्ताद्दर्शने।
“ततो वाचस्पतिर्जज्ञे तं मनःपर्य्यवेक्षते भा॰ आश्व॰

२१ अ॰। प्रति + अव + प्रतीत्य पर्य्यालोचनया दर्शने।
“अथेमां प्रत्यवेक्ष-माणो जपति” शत॰ ब्रा॰

५ ,

३ ,

४ ,

२० । [Page1007-a+ 38] सम् + अव + सम्यग्दर्शने।
“नृपोपमोऽयं समवेक्षते सभाम्” भा॰ वि॰

२१

८ श्लो॰।
“यदि दृष्टं बलं सर्व्वं वयञ्च समवे-क्षिताः” भा॰ आ॰

२५ अ॰। सम्यक्पर्य्यालोचने च
“सर्वंतु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा” मनुः। आ + सम्यग्दर्शने।
“स्मयन्निवैक्ष्य पाञ्चालोम्” भा॰ स॰

२३

८०

१ उद् + ऊर्द्ध्वदर्शने।
“सहस्ररश्मिना साक्षात् सप्रणामसुदी-क्षिताः” कुमा॰। अपेक्षायाञ्च
“त्रीणि वर्षाण्युदीक्षेतकुमार्य्यृतुमती सती” मनुः। उप + हेयत्वज्ञानेन परित्यागे
“उपेक्षया स्वत्वहानिः” दाय-भा॰ टी॰
“ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्” भा॰व॰

११ अ॰ प्रतिचिकीर्षाभावे
“उपेक्षते यः श्लथवन्धिनी-र्जटाः” कुमा॰
“नीपपेक्षेत क्षणमपि राजा साहसिकंनरम्” मनुः अपर्य्यालोचने अनुसन्धानाभावे च
“गूढेनचरता तत्त्वमुपेक्षितमिदं मया” रामा॰। सम + उप + सम्यगुपेक्षायाम्।
“शत्रुपक्षं समाधातु योमो-हात् समुपेक्षते” भा॰ स॰

१०

६० श्लो॰। निस् + निर् + निःशेषेण दर्शने निश्चयार्थं दर्शने च।
“यावदेता-न्निरीक्षेऽहं योद्धुकामानवस्थितान्” गीता। परि + तत्त्वानुसन्धाने प्रमाणाद्युपन्यासेन वस्तुतत्त्वावधारणे च
“परीक्ष्य लोकान् कर्म्मचितान्” श्रुतिः। न्यायसूत्रवृत्त्यादौप्रमाणप्रेमेयादि परीक्षा बहुशो दर्शिता। सम्यक्विवेचनेच।
“नैता रूपपं रीक्षन्ते नासां बयसि संस्थितिः। सुरूपंवा विरूपं वा पुमानित्ये व भुञ्जते” मनुः। लक्षणादिम-त्त्वेन ज्ञाने च अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः। मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये” भा॰ आश्व॰

३०

२७ श्लो॰।
“यत्नात् परीक्षितः पुं स्त्वे” या॰ स्मृ॰।
“सर्व्वस्यहि परीक्ष्यन्ते स्वभावा नेतरे गुणाः” हितो॰ भक्तिमत्त्वा-दिना ज्ञाने च।
“मायां मयोद्भाव्य परीक्षितोऽसि” रघुः। विवादे सत्यत्वासत्यत्वादिसंशयनिरासाय स्वपक्षप्रामाण्य-व्यवस्थापनाय शपथकरणे तुलापरीक्षादि। परीक्षा-शब्दे विवृतिः। प + प्रकर्षेण दर्शने
“प्रेक्षन्ते सर्व्वभूतानि वहुशः पर्व्वसन्धिषु” भा॰ व॰

११

६५

७ ।
“यत् किञ्चिद्दर्शवर्षाणि सन्निधौ प्रेक्षतेधनी” भा॰ व॰ मनुः।
“उदायुधानापततस्तान् दृप्तान् प्रेक्ष्यराघवः” रघुः।
“पुनः प्रेक्ष्य च शूलिनम्” कुमा॰। अभि + प्र + आभिमुख्येन दर्शने।
“प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्” भा॰ व॰

१६

३ अ॰।
“दह्यमानमभिप्रेक्ष्यस्त्रियस्ताः संप्रदद्रुवुः” भा॰ व॰

८८ अ॰। [Page1007-b+ 38] उत् + प्र + उत्प्रेक्षायां किञ्चिर्द्धर्म्मसाधर्म्येणान्यस्यान्यरूपताकल्पने उद्भावने च।
“उत्पेक्षामोवयं तावन्मतिमन्तंविभीषणम्” रामा॰।
“तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतां-स्तांश्च दिन सान्” अमरुश॰।
“भवेत् सम्भावनोत्प्रेक्षा प्रकृ-तस्य परात्मना” सा॰ द॰।
“अलङ्कारशब्दे

३९

५ पृष्ठे विवृतिः। सम् + प्र + सम्यग्दर्शने।
“संप्रेक्ष्य नासिकाग्रं स्वा” गीता
“योगक्षेमं च संप्रेक्ष्य बणिजोदापयेत् करम्” मनुः। अभि + सम् + प्र + आभिमुख्येन सम्यग्दर्शने।
“अभिसंप्रेक्ष्य भ-र्त्तारं क्रुद्धा वचनमब्रवीत्” भा॰ आदि॰ प॰

३०

११ । प्रति + अनुरोधे अपेक्षायां पूजने च।
“प्रतीक्ष्यं तत् प्रतीक्ष्यायैपितृस्वस्रे प्रतिश्रुतम्” माघः
“प्रथमं संस्थिता भार्य्यापतिं प्रेत्य प्रतीक्षते” भा॰ आ॰

३०

३३ । नाभिनन्देतमरणं नाभिनन्देत जीवितम्। कालमेव प्रतीक्षेत” मनुः।
“संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः” मनुः। सम् + प्रति + सम्यक्प्रतीक्षायाम्
“मुहूर्त्तं संप्रतीक्षस्व” भा॰आ॰

२९



३ ।
“एकवेणीधरा हि त्वां नगरी संप्रती-क्षते” रामा॰। वि + विशेषेण दर्शने।
“वीक्षन्ते त्वां विस्मिताश्चैव सर्वे” गोता।
“सीमाज्ञाने नृणां वीक्ष्य नित्य लोके विपर्य्ययम्” मनुः।
“जडीकृतस्त्र्यम्बकवीक्षणेन” रघुः। अनु + वि + सन्ततवीक्षणे पश्चाद्वीक्षणे च।
“तस्माद्दिशोऽनु-वीक्षमाणोजपति” शत॰ ब्रा॰

५ ,

२ ,

१ ,

२५ । अभि + वि + आभिमुख्येन वीक्षणे।
“नचैनं भुवि शक्नोति कश्चिद-प्यभिवीक्षितुम्” मनुः। उद् + वि + ऊर्द्धवीक्षणे।
“उद्वीक्षंमाणा भर्त्तारं मुखेन परिशुष्यता” रामा॰
“पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत” भा॰अनु॰

२ अ॰
“उद्वीक्षितं प्रकृबिभिर्भरतानुगाभिः” रघुः। सम् + उद + वि + समन्तादुद्वीक्षणे
“निषेदुर्भूमिपाः सर्ते समुद्-द्वीक्ष्य परस्परम्” रामा॰। प्रति + वि + प्रतिदर्शने यत्कर्तृकं स्वदर्शनं तस्य स्वेन दर्शने।
“ततः सराजा प्रतिवीक्ष्य ताः स्त्रियः” रामा॰। सम् + वि + सम्यग्वीक्षणे। सम् + सम्यग्दर्शने पर्य्याम्रोच्य दर्शने।
“पुरस्तादेव प्रतीचे स-मीक्षमाणायानुब्रुयात्” शत॰ ब्रा॰

११ ,

५ ,

४ ,

१४ ।
“समीक्ष्य वसुधां चरेत्” मनुः।
“अग्रहस्तसुमुक्तेनशीकरेण स नागराट्। समैक्षत गुडाकेशम्” मा॰आश्व॰

२२

३१ श्लो॰।
“तान् समीक्ष्य स कौन्तेसः सर्व्वान्वन्धूनवस्थितान्” गीता
“उचितमेवैसमीक्ष्यकमतान्मा-[Page1008-a+ 38] रिणः” हितो॰
“समीक्ष्य कुलधर्म्मांश्च स्वधर्म्मं प्रति-पादयेत्” मनुः। प्र + सम् + प्रकर्षेण सम्यगीक्षणे।
“सह सर्व्वाः समुत्पन्नाःप्रसमीक्ष्यापदोभृशम्” मनुः
“कुलं ख्यातिञ्च वृत्तं चबुद्ध्या तु प्रसमीक्ष्य च” भा॰ आ॰

४३

७४ श्लो॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्ष¦ r. 1st cl. (ईक्षते) To see. It most usually occurs compounded with one or other of the prepositions, as with अप, to expect; with अभि, to gaze at; with अव, to inspect; with उत् or उप, to expect or await; with उप, to abandon; with निर्, to see; with परि, to try, to test, to assay; with प्र, to see, to resemble, or look like; with वि, to inspect; with प्रति,
1. to took for, to expect,
2. to venerate; with सम्, to compare, to contrast, to select; with प्रति and उत्, to look up at.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्ष mf( ई)n. ifc. seeing , looking , visiting(See. तिर्यग्-ईक्ष, वध्व्-ईक्ष)

ईक्ष n. anything seen S3Br. vii , 1 , 2 , 23 (merely for the etym. of अन्तरिक्ष).

"https://sa.wiktionary.org/w/index.php?title=ईक्ष&oldid=491999" इत्यस्माद् प्रतिप्राप्तम्