यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थवर्द्धन¦ पु॰ उक्थैः स्तोत्रैर्वर्द्ध्यतेऽसौ वृध--णिच् कर्भणि[Page1052-a+ 38] ल्युट्। स्तोत्रैर्वर्द्धनीये इन्द्रदेवे।
“त्वं हि स्तोमवर्द्धनइन्द्रास्युक्थवर्द्धनः” ऋ॰

८ ,

१४ ,

११ ।
“उक्थैःशस्त्रैर्वर्द्धनीयः” भा॰। इन्द्रस्य यथा उक्थवर्द्धनीयत्वं तथोक्तं
“उक्थ-मिन्द्राय शंस्यं वर्द्धनं पुरुनिष्षिधे” ऋ॰

१ ,

१० ,

५ ,
“इन्द्रायेन्द्रार्थं वर्द्धनं वृद्धिसाधनम् उक्थं शस्त्रम्” भा॰

"https://sa.wiktionary.org/w/index.php?title=उक्थवर्द्धन&oldid=227648" इत्यस्माद् प्रतिप्राप्तम्