उक्थशाः
यन्त्रोपारोपितकोशांशः सम्पाद्यताम्
कल्पद्रुमः सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उक्थशाः [स्] पुं, (उक्थैरुक्थानि वा शंसति । मन्त्रे श्वेतवहोक्थशस्पुरोडासोण्विन्नित्यत्र श्वेत- वहादीनां डस् पदस्येति वक्तव्यम् । यत्र पदत्वं भावि तत्र डस् । अन्यत्र ण्विः ॥) यजमानः । इति व्याकरणं ॥ (यथा, ऋग्वेदे । ७ । १९ । ९ । “नरः शंसन्त्युक्थशास उक्था” ।)