उग्रसेनः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उग्रसेनः, पुं, (उग्रा सेना यस्य ।) मथुरादेशस्य राज- विशेषः । स च आहुकपुत्त्रः । कंसराजपिता च । परीक्षित्पुत्त्रः । इति श्रीभागवतम् ॥ (तथा महाभारतेऽपि “जनमेजयः पारिक्षितः सह- भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातर- स्त्रयः श्रुतसेन उग्रसेनो भीमसेनश्च” इति । तथा च तत्रैव १ । ६५ । ४२ । “भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा” ॥)