यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चिटङ्ग¦ पु॰ विषकीटभेदे (उच्चिङ्गडे) सुश्रुते
“जङ्गमस्यविषस्योक्तान्यधिष्ठानानि षोडश” इत्युपक्रम्य
“वृश्चिकबिश्व-म्भरराजीवमत्स्योच्चिटङ्गसमुद्रवृश्चिकालविषाः” इत्युक्त्वातस्य शूकतुण्डविषत्वमप्युक्तम्
“सूक्ष्मतुण्डोच्चिटङ्गवर-टीशतपदीशूकबलभिकाशृङ्गीभ्रमराः शूकतुण्डविषाः” तेषा-मुत्पत्तिस्थानमपि तत्रोक्तम्
“सर्पाणां शुक्रविण्मूत्रशवपूत्य-ण्डसम्भवाः। वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः” इत्युपक्रम्य
“उच्छिटङ्गोऽग्भिनामा तु चिच्चिटि-ङ्गोमयूरिका” इत्यादीन् अष्टादश कीटानभिधाय
“अष्टा-दशेति वायव्याः कीटाः पवनकोपनाः” सुश्रु॰।

"https://sa.wiktionary.org/w/index.php?title=उच्चिटङ्ग&oldid=228287" इत्यस्माद् प्रतिप्राप्तम्