शिशुपालवधे प्रथमसर्गे 2।

काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशःसंपादित करें

कल्पद्रुमःसंपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरम्, क्ली, (उत् + तॄ + अप् ।) प्रतिवाक्यम् । इत्य- मरः ॥ जवाव इति यावनी भाषा । (यथा, माघे २ । २२ । “वचसस्तस्य सपदि क्रिया केवलमुत्तरम्” ।) तस्य व्युत्पत्तिः । “उत्तीर्य्यते निस्तीर्य्यते प्रकृताभियोगोऽनेन” । तस्य स्वरूपम् । “पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् । अव्याख्यागम्यभित्येवमुत्तरं तद्विदो विदुः” ॥ तस्य भेदाः । “मिथ्या सम्प्रतिपत्तिश्च अत्यवस्कन्दनं तथा । प्राङ्न्यायश्चोत्तराःप्रोक्ताश्चत्वारः शास्त्रवेदिभिः” ॥ इति नारदः ॥ (अथ उत्तरं नाम साधर्म्योपदिष्टे वा हेतौ वैधर्म्म्यवचनं वैधर्म्म्योपदिष्टे वा साधर्म्म्य- वचनं यथा हेतुमधर्म्माणोविकाराः शीतकस्य द्विव्याधेर्हेतुस्राधर्म्म्यवचनं हिमशिशिरवातसं- स्पर्शा इति ब्रुवतः परो ब्रूयात् हेतुविधर्म्माणो विकाराः यथा शरीरावयवानां दाहौष्ण्यं कोथ- प्रपचने हेतुवैधर्म्म्यं हिमशिशिरवातसंस्पर्शां इति । एतत् सविपर्य्ययमुत्तरम् । इति चरके विमानस्थानेऽष्टमोऽध्यायः ॥)

"https://sa.wiktionary.org/w/index.php?title=उत्तरम्&oldid=506619" इत्यस्माद् प्रतिप्राप्तम्