यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्देश्यः, त्रि, (उत् + दिश् + ण्यत् ।) उद्देष्टव्यः । उद्देशनीयः । प्रयोजनम् ॥ (यत् उद्दिश्य विधेयस्य प्रवृत्तिः भवति तत् । अनुवाद्यम् ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्देश्य¦ त्रि॰ उद् + दिश--ण्यत्।

१ अभिसन्धेये यमुद्दिग्य विधेय-प्रवृत्तिस्तस्मिन्

२ अनुवाद्ये। उद्देश्यविधेययभावस्थले
“अनुवाद्यमनूक्त्वैव न विधेयमुदीरयेत्” इति नियमात् उ-द्देश्यवाचकस्य प्राक् प्रयोगः यथा पर्वतो वह्निमान्। वह्निः पर्त्तते इत्यादौ तु वह्नेरेवोद्देश्यत्वं पर्वतवृत्तित्वंतत्र विधेयम्। अतएव
“न्यक्कारोह्ययमेव मे यदरयः” इत्या-दौ अयंपदस्य उददेश्यवाचितयादौ प्रयोगौचित्येन परतःप्रयोगात् वाक्यगतविधेयाविमर्पदोष इति समर्थितमा-लङ्कारिकैः।
“वृद्धिरादैच् इति” पा॰ सूत्रेऽपि तथैवभाष्यकृताङ्गीकृत्य मङ्गलार्थमेव तथाप्रयोग इत्युक्तम् यथा
“एतदेकमाचार्य्यस्य मङ्गलार्थं मृष्यताम्। माङ्गलिक[Page1176-b+ 38] आचार्य्योमहतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितःप्रयुङ्क्ते। सङ्गलादीनि च शास्त्राणि प्रथन्ते वीरपुरुष-काणि भवन्त्यायुष्मत्पुरुषाणि च अध्येतारश्च वृद्धियुक्ता यथास्युरिति। सर्व्वत्रैव हि व्याकरणे पूर्व्वोच्चरितः संज्ञीपरोच्चारितः संज्ञेति
“अदेङ् गुणः” इति यथेत्यन्तेन। उद्देश्यविधेयभावेनान्वयस्थले विवक्षया उभयलिङ्गवचनानुसारेण प्रयोगः यथा वेदाः प्रमाणं भवतिभवन्ति वा।
“अमानि तत्तेन निजायशोयुगं द्विफालबद्धा-श्चिकुराः शिरःस्थिताः”
“मुखदृगोष्ठमरीपि मनोभुवातदुपमाः कुसुमान्यखिलाः शराः” इति नैषधे उयथैवप्रयोगः। व्युत्पत्तिवादे तु गदाधरेण उद्देश्यवचनानु-सारेणैव वचनादिप्रयोग इति महतायासेन व्यवस्थापितंतच्च तत एवावसेयम्।
“उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात्” सा॰ द॰। उद्देश्यमेव प्रतिनिद्देश्यम् प्राग्विधेयस्योद्देश्यतया पुनर्निर्देशकर्म्म इत्यर्थः यथा
“उदेतिसविता ताम्रस्ताम्र एवास्तमेति च” इत्युदाहृतौ प्राक्विधेयस्य ताम्रस्य अस्ततागुणविधानार्थं पुनः प्रतिनिर्दे-शात् कथितपदत्वं न दोषायेति तदाशयः। तदन्यत्रैवतस्य दोष इति वोध्यम्। अनुवाद्यता च प्रमाणान्तरसिद्धस्थ किञ्चिद्धर्म्मविधानार्थम्पुनरुपन्यास्यता यथा पर्व्वतोवह्निभान् इत्यादौ पर्वत-रूपोद्देश्यस्य सिद्धत्वेऽपि वह्निमत्त्वरूगधर्मविधानार्थ-मुपन्यासः। ततो भावे तल्। उद्देश्यता स्त्री त्व। उद्देश्यत्व न॰। विषयताविशेषे सा च अनुमितौशाब्दबोधे च विशेष्यतारूपा प्रवृत्तौ तु स्वजनके-च्छाविषयत्वरूपा
“स्वर्गकामो यजेतेत्यादि” वाक्यजनि-तेष्टसाधनताज्ञानतः स्वर्गफलोद्देशेनैव यागे प्रवृत्तेःइति स्वर्गस्य तत्रोद्देश्यता एवमन्यत्राप्यूह्यम्। इच्छा-विषयत्वे च
“अवच्छेदावच्छेदन साध्यसिद्धेरुद्देश्यत्वे” गदा॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्देश्य¦ mfn. (-श्यः-श्या-श्यं) To be illustrated or explained. E. उद्, दिश् to show, ण्यत् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्देश्य [uddēśya], pot. p.

To be illustrated or explained.

To be intended or aimed at.

That to which one refers or which one has in view.

श्यम्1 The object in view, an incentive.

The subject of an assertion (opp. विधेय); see the word अनुवाद्य also.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्देश्य/ उद्-देश्य mfn. to be illustrated or explained

उद्देश्य/ उद्-देश्य mfn. anything to which one refers or which one has in view Veda1ntas. Comm. on Gobh. Siddh.

उद्देश्य/ उद्-देश्य mfn. that which is said or enunciated first Sa1h. Kpr. Comm. on Ka1tyS3r.

उद्देश्य/ उद्-देश्य mfn. destined for A1p.

उद्देश्य/ उद्-देश्य mfn. to be mentioned by name only Comm. on Nya1yam.

उद्देश्य/ उद्-देश्य n. the end in view , an incentive.

"https://sa.wiktionary.org/w/index.php?title=उद्देश्य&oldid=492657" इत्यस्माद् प्रतिप्राप्तम्