यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रवः, पुं, (उप + द्रु + अप् ।) उत्पातः । इति हलायुधः ॥ रोगारम्भकदोषप्रकोपजन्योऽन्यो वि- कारः । (तल्लक्षणमुक्तं वैद्यके । यथा, -- “यो व्याधिस्तस्य यो हेतुर्दोषस्तस्य प्रकोपतः । योऽन्यो विकारो भवति स उपद्रव उच्यते” ॥ “व्याधेरुपरि यो व्याधिः उपद्रव उदाहृतः । सोपद्रवा न जीवन्ति जीवन्ति निरुपद्रवाः” ॥ इति हारीते चिकित्सितस्थाने द्वितीयेऽध्याये । “तत्रौपसर्गिको यः पूर्ब्बोत्पन्नं व्याधिं जघन्यकाल- जातो व्याधिरुपसृजति स तन्मूलएवोपद्रव- संज्ञः” । इति सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रव¦ पु॰ उप + द्रु--भावे घञ्।

१ उत्पाते। रोगारम्भकेधातुवैषम्पजनिते

२ विकारभेदे च। (उपसर्ग) तल्ल-क्षणमुक्तं वैद्यके।
“यो व्याधि स्तस्य यो हेतुर्दोषस्तस्यप्रकोपतः। योऽन्योविकारो भवति स उपद्रव उच्यते” सुश्रुते चोक्तं
“साध्ययाप्यासाध्यरोगभेदमुपक्रम्य।
“त-त्रौपसर्गिको यः पूर्ब्बोत्पन्नव्याधिं जघन्यकालजा तोव्याधिरुपसृजति स तन्मूल एवोपद्रवसंज्ञकः”। तेनउपसर्जकत्वात्तस्य तथात्वं अत्रार्थे कर्त्तरि अच् इति” विवेकः। स च व्याधिभेदेन नानाविधः। रोगभेदे तद्भेदाश्चतत्रैवोक्ता बहुशः। तत्र व्रणभेदे
“अतिदग्धे मांसा-लम्बनंगात्रविश्लेषसिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रंज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति” पालीरोगे च
“अत ऊर्द्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान्। उत्पाटक-श्चोत्पुटकः स्रावः कण्डूयुतो भृशम्। अवमन्थः सकण्डू-को ग्रन्थिको जम्बुलस्तथा। स्रावी च दाहवांश्चैव शृ-ण्वेषां क्रमशः क्रियाम्” इति, विभज्य, तल्लक्षणचि-कित्से उक्ते। वातव्याध्यादौ प्राणमांसक्षयादय उप-द्रवाः। यथा
“उपद्रवैस्तु ये जुष्टाव्याधयो यान्त्यसाध्यताम्। रसायनादिना वत्स! तान् शृण्वेकमना मम। वातव्याधिःप्रमेहश्च कुष्ठमर्शोभगन्दरः। अश्मरी मूढगर्भश्च तथैवोदरमष्ट-मम्। अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः। प्राण-मांसक्षयकाशतृष्णाशोषवमीज्वरैः। मूर्च्छातिसारहिक्काभिःपुनश्चैतौपद्रुताः। वर्ज्जनीयाविशेषेण भिषजा सि-द्धिमिच्छता” सुश्रु॰। एवमन्येऽपि रोगभेदे उपद्रवा स्त-त्रोक्ता दृश्याविस्तरभयान्नोक्ताः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रव¦ m. (-वः)
1. Tyranny, oppression.
2. National distress, whether the act of the seasons or the king, famine, exaction, &c.
3. National commotion, rebellion.
4. Violence.
5. A supervenient disease, one brought on whilst a person labours under another. E. उप, द्रु to go, अच् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रवः [upadravḥ], 1 An unhappy accident, misfortune, calamity.

Injury, trouble, harm; पुंसामसमर्थानामुपद्रवाया- त्मनो भवेत्कोपः Pt.1.324; निरुपद्रवं स्थानम् Pt.1.

Outrage, violence.

A national distress (whether caused by the king or famine, seasons &c.).

A national disturbance, rebellion.

A symptom, a supervenient disease (one brought on whilst a person is suffering from another).

The sixth part of a Vedi sāman consisting of seven limbs. अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत ...... यदुपेति स उपद्रवः Ch. Up.2.8.2.

A servant; अनृय्यजुरसामा च प्राजापत्य उपद्रवः Mb.12.6.44.

Loss, waste; अष्टकापितृदेवत्यमित्ययं प्रसृतो जनः । अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ Rām.2.18.14.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रव/ उप-द्रव m. that which attacks or occurs suddenly , any grievous accident , misfortune , calamity , mischief , national distress (such as famine , plague , oppression , eclipse , etc. )

उपद्रव/ उप-द्रव m. national commotion , rebellion

उपद्रव/ उप-द्रव m. violence , outrage MBh. R. S3ak. VarBr2S. etc.

उपद्रव/ उप-द्रव m. a supervenient disease or one brought on whilst a person labours under another Sus3r.

उपद्रव/ उप-द्रव m. the fourth of the five parts of a सामन्stanza Shad2vBr. Comm. on TA1r. etc.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रव पु.
साम का चतुर्थ भाग, जिसका गायन उद्गाता करता है, ला.श्रौ.सू. 6.1०.1; जै.श्रौ.सू. 26.13।

"https://sa.wiktionary.org/w/index.php?title=उपद्रव&oldid=492945" इत्यस्माद् प्रतिप्राप्तम्