उल्का
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उल्का, स्त्री, (ओषतीति । उष दाहे “शुकवल्कोल्का” ३ । ४२ । इति उणादिसूत्रेण क-प्रत्ययात् साधुः ।) तेजःपुञ्जः । इत्यमरटीकायां भरतः ॥ अग्निशिखा ॥ अग्निः । इत्युणादिकोषः ॥ (यथा, “तुलाराशिं गते भानौ अमावस्यां नराधिपः । स्नात्वा देवान् पितॄन् भक्त्या संपूज्याथ प्रणम्य च ॥ कृत्वा तु पार्ब्बणश्राद्धं दधिक्षीरगुडादिभिः । ततोऽपराह्णसमये घोषयेन्नगरे नृपः ॥ लक्ष्मीः संपूज्यतां लोकाउल्काभिश्चापि वेष्ट्यताम्” । इति तिथितत्त्वे अमावस्याप्रकरणे ।) आकाशात् पतिताग्निः । इति रायमुकुटादयः ॥ (“तञ्चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः” । इति मेघदूते पूर्ब्बमेघे ५४ श्लोकः । “उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च” इति मनुः । १ । ३८ ।) अस्या लक्षणम् । “वृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखोज्ज्वला । पौरुषीयप्रमाणेन उल्का नानाविधा स्मृता” ॥ इति काश्यपः ॥ (अस्याः कारणमाह गर्गसंहितायाम् । “अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः । नरापचारात् नियतमुपसर्गः प्रवर्त्तते ॥ ततोऽपराधात् नियतमपवर्जन्ति देवताः । ताः सृजन्त्यद्भुतांस्तांस्तु दिव्यनाभसभूमिजान् ॥ तएव त्रिविधा लोके उत्पाता देवनिर्म्मिताः । विचरन्ति विनाशाय रूपैः संबोधयन्ति च” ॥ अस्या लक्षणादिकञ्चोक्तं वृहत्संहितायां ३३ अ- हन्त्यधोमुखी नृपान् ब्राह्मणानथोर्द्ध्वगा ॥ २५ ॥ वर्हिपुच्छरूपिणी लोकसंक्षयावहा । सर्पवत् प्रसर्पिणी योषितामनिष्टदा ॥ २६ ॥ हन्ति मण्डलापुरं छत्रवत्पुरोहितम् । वंशगुल्मवत् स्थिता राष्ट्रदोषकारिणी ॥ २७ ॥ व्यालसूकरोपमा विस्फुलिङ्गमालिनी । खण्डशोऽथ वा गता सस्वना च पापदा ॥ २८ ॥ सुरपतिचापप्रतिमा राज्यं नभसि विलीना जल- दान् हन्ति । पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वां ॥ २९ ॥ अभिभवति यतः पुरं बलं वा भवति भयं तत- एव पार्थिवस्य । निपतति च यया दिशा प्रदीप्ता जयति रिपूनचिरात् तया प्रयातः” ॥ ३० ॥)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उल्का स्त्री।
अग्नेः_निर्गतज्वाला
समानार्थक:उल्का,निर्गतज्वाला
1।1।57।3।1
वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥
पदार्थ-विभागः : , इन्धनजम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उल्का¦ स्त्री उष--दाहे क नि॰ षस्य लं। रेस्वाकारे गगनात्पतत्तेजःपुञ्जे। अग्न्युत्पातशब्दे
६२ पृष्ठे तत्स्वरूप-फलादिकमुक्तम्।
“बाधेतोलकाक्षपितचमरीबालभारो-दवाग्निः” मेघ॰।
“उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानिच”।
“उल्कापाते द्रिशां दाहे गोमायुविरुते तथा”
“विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे” मनुः।
“स्फुर-[Page1371-a+ 38] लकाकृति विक्षिपन्वनेषु” किरा॰। उल्काकारणमु-क्तम् श्रीपतिना
“यासां गतिर्दिवि भवेद्गणितेन गम्या ता-स्तारकाः सकलखेचरतोऽतिदूरे। तिष्ठन्ति या अनि-यतोद्गतयश्च ताराश्चन्द्रादधोहि निवसन्ति तदन्वितास्ताः। शीतांशुवज्जलमयास्तपनात् स्पुरन्ति ताश्चावहपवहमारु-तसन्धिसंस्थाः। पूर्ब्बानिलैस्तिमितभावमपागतेऽस्मिंस्ताराःपतन्ति कुहचिद्गुरुतावशेन”। (ज्वलन्तखटेरनुडा)
२ शुष्कवृणवस्त्रादिदोपिते (मशाल) इति प्रसिद्धे
३ दीपभेदे च।
“तुलाराशिं गते भानौ अमा-वास्यां नराधिपः। स्नात्वा देवान् पितॄन् भक्त्या संपू-ज्याथ प्रणम्य च। कृत्वा तु पार्वणश्राद्धं दधिक्षीरगुडा-दिभिः। ततोऽपराह्णसमये घोषयेन्नगरे नृपः। लक्ष्मीःसंपूज्यतां लोका! उल्काभिश्चापि वेष्ट्यताम्” ति॰ त॰ ज्यो॰उल्कादाने दर्शद्वैधे निर्णयः।
“तुलासंस्थे सहस्रांशौप्रदोषे भूतदर्शयोः। उल्काहस्ता नराः कुर्युः पितॄणांमार्गदर्शनम्” ति॰ त॰ ज्यो॰ वचनात् प्रदोषव्यापिदर्शेकार्यम्। उभयत्र प्रदोषप्राप्तौ परदिने एव, युग्मादिशा-स्त्रात्।
“दण्डैकरजनीयोगोदर्शस्य स्यात् परेऽहनि। तदा विहाय पूर्वेद्यु परेद्युः सुखरात्रिका” ज्योतिर्वचनाच्च। उभयत्र प्रदोषाप्राप्तावपि उल्कादानं पूर्वोक्तपार्वणानुरो-धात्, न पूर्ब्बदिने भूताहे ये प्रकुर्बन्ति उल्काग्रहमचेतसः। निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्” ज्योतिर्व-चनात्। उल्काग्रहणादि पितृकृत्यत्वात् प्राचीनावी-तिना दक्षिणाभिमुखेन कार्यम्।
“प्राचीनवीतिना सम्यग-पसव्यमतन्द्रिणा। पित्र्यमा निधनात् कार्यं विधिवद्दर्भपाणिना” मनूक्तेः। तद्दानमन्त्रादि ति॰ त॰ दृश्यम्।
४ ज्योति-षोक्ते नाक्षत्रिकदशाभेदे।
“मङ्गला पिङ्गला धान्याभ्रामरी भद्रिका तथा। उल्का सिद्धा सङ्कटा च ह्यष्टौ-ज्ञेया महादशाः” ज्यो॰। तदानयनञ्च
“वह्निभान्मीननक्षत्रा-ज्जन्मर्क्षाच्छिवभादथ” इत्युक्तेः मतभेदेन कृत्तिकानक्षत्रात्पूर्व्वभाद्रपदचतुर्थपादात् जन्मनक्षत्राद्वारम्य एवैकास्ता-त्रिरावृत्त्या क्रमेण मङ्गलादिका दशा भवन्ति इत्येवं चतु-र्विंशतिनक्षत्रेप त्रिरावृत्त्या अष्टौ दशा अवसेयाः ततो-ऽन्तिमत्रिभेषुमङ्गंलाद्यास्तिस्रो भवन्ति। एवमन्यत्राप्यूह्यम्। तासां भोगकालश्चं।
“एकाद्येकोत्तरा अष्टयोगिनीवत्सरामताः इत्युक्त्या मङ्गलायाः
१ एकोवर्षः पिङ्गलायाः
२ द्वौ,धान्यायास्त्रयः, भ्रामर्याः
४ वर्षाः, भद्रिकायाः पञ्च,उल्कायाः षट्, सिद्धायाः सप्त, सङ्कटायाः अष्टौ वर्षाः,[Page1371-b+ 38] तेषां योगेन
३६ वर्षामङ्गलाद्यानां भोगकाला, इत्येबं त्रिरा-वृत्त्या अष्टोत्तरशतर्षास्तासां भोगकालः। अन्तर्दशादिकंयोगिनीशब्दे वक्ष्यते।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उल्का¦ f. (-ल्का)
1. A fire-brand.
2. Fire falling from heaven, a meteor, &c.
3. Flame.
4. Fire. E. उष् to burn, कक् Una4di affix, ल substi- tuted for ष; or the root is a Sautra root, उल to burn.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उल्का [ulkā], [Uṇ.3.42]
A fiery phenomenon in the sky, a meteor; विरराज काचन समं महोल्कया Śi.15.92; Ms.1.38,4.13; Y.1.145.
A fire-brand, torch; न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया H.1.83.
Fire, flame; बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः Me.55.
N. of a grammar. -Comp. -धारिन् a. a torch-bearer.-नवमी f. The ninth day of the light half of the month of Āsvina; (a व्रत is observed on this day.) -पातः the fall of a meteor. -मालिन् m. N. of one of Śiva's attendants. -मुखः a demon or goblin (having a mouth of fire); वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतात् Ms.12.71; Māl.5.13.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उल्का f. ( उष्Un2. iii , 42 ), a fiery phenomenon in the sky , a meteor , fire falling from heaven RV. iv , 4 , 2 ; x , 68 , 4 AV. xix , 9 , 9 MBh. Ya1jn5. Sus3r. etc.
उल्का f. a firebrand , dry grass etc. set on fire , a torch S3Br. v R. Katha1s. etc.
उल्का f. (in astrol. ) one of the eight principal दशाs or aspect of planets indicating the fate of men , ज्योतिष( T. )
उल्का f. N. of a grammar.
Vedic Index of Names and Subjects
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Ulkā regularly denotes a meteor from the Rigveda[१] onwards. In the Brāhmaṇas[२] it also signifies a ‘firebrand.’ The much rarer form Ulkuṣī[३] has both senses.
Vedic Rituals Hindi
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उल्का स्त्री.
आग का जलता गोला, आप.श्रौ.सू. 11.2०.1० (वसतीवरी); पा.गृ.सू. 2.24.22 (श्रावणीस्थालीपाक)।